पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 89, कुल 263 में से
संदर्भ में पढ़ें( ६७ )
अन्तरन्तस्थम्—अन्तः—मध्ये, अन्तःस्थम् अक्षं यस्य तादृशम्। अन्तः-स्था यरल्वाः। पुनश्च दीर्घाभिनिष्ठानं—दीर्घमह्रस्वम् अभिनिष्ठानम्-अवसानं यस्य तत्, तथा च कृतं—कृतप्रत्ययान्तं कुमारस्य नाम कुर्यात्। तद्धितं—तद्धितप्रत्ययान्तं नाम न कुर्यात्।
अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम्। १-१७-३
स्त्रिया नाम्नि विशेषमाह—अयुजाक्षरम्—अयुजानि विषमाणि त्र्यादीनि अक्षराणि यस्य तत्, आकारान्तम्—आकारादि—दीर्घवर्णान्तं तद्धितं—तद्धितप्रत्ययान्तं नाम, स्त्रियै—स्त्रियाः, कुर्यात्।
शर्म ब्राह्मणस्य, वर्म क्षत्रियस्य गुप्तेति वैश्यस्य। १-१७-४
पूर्वोक्तलक्षणस्य नाम्नः अन्ते ब्राह्मणस्य—प्रथमवर्णस्य शर्म इति क्षत्रियस्य वर्म इति वैश्यस्य गुप्त इति पदं योज्यम्। अथवा ब्राह्मणस्य नाम शर्म—मङ्गलप्रतिपादकं क्षत्रियस्य नाम, वर्म—रक्षाप्रतिपादकं, वैश्यस्य गुप्तेतिधनवत्ताप्रतिपादकं नाम कुर्यात्। इति नामकरणम्।
( बहिर्निष्क्रमणम् )
चतुर्थे मासि निष्क्रमणिका। १-१७-५
चतुर्थे—उत्पत्तिमारेभ्य चतुर्थे मासि कुमारस्य निष्क्रमणिका—गृहात् बहिर्निष्क्रमणं करोति पिता।
सूर्यमुदीक्षयति तच्चक्षुरिति। १-१८-६
तत्र पिता कुमारं गृहात् वहिरानीय सूर्यम् उदीक्षयति—प्रदर्शयति "तच्चक्षुर्देवहित" मित्यादिना मन्त्रेण। सम्पूर्णोमन्त्रः— "तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्रब्रवामशरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात्। शु. य ३६/२४।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे सप्तदशी कण्डिका।