भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 94, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 94

( ७२ )

प्राशनान्ते— स्विष्टकृदाद्याहुत्यनन्तरं संस्रवप्राशनान्ते सर्वान् मधुरादीन् रसान् , सर्वमन्नं भक्ष्यभोज्यलेह्यपेयादि एकतः एकस्मिन् पात्रे उद्धृत्य-संस्थाप्य, अथ- अन्नसंस्थापनानन्तरम् एनं- कुमारं प्राशयेत्- प्राशनं कारयेत् पिता तूष्णीं-विनामन्त्रम् हन्त इति मन्त्रेण वा। कुतः ? "हन्तकारं मनुष्या इति श्रुतेः "हन्तकारं मनुष्या उपजीवन्ति इति श्रवणात् ।

भारद्वाज्या मांसेन वाक्प्रसारकामस्य । १-१६-५

अत्र गुणफलमाह— भारद्वाजी-पक्षिणीविशेषः । तस्याः मांसेन वाक्प्रसारकामस्य—वाचः प्रसारः वाक्प्रसारः वाग्मिता, तां कामयते यः स वाक्प्रसारकामः । अर्थात् कुमारस्य वाक्प्रसारकामनया भारद्वाजी-मांसेन अन्नप्रासनं कारयेत् ।

कपिञ्जलमांसेनाऽन्नाद्यकामंस्य । १-१६-६

अन्नाद्यम्- अन्नम् ओदनः, तत्कामस्यकपिञ्जलमांसेन-कपिञ्जलः कारण्डव भैरवो मयूरो वा केचित् तित्तिरोवेति हरिहरः । तस्य मांसेन अन्नप्राशनम्

मत्स्यैर्जवनकामस्य । १-१६-७

जवनं—वेगगामित्वम् । तत्कामस्य मत्स्यैः अन्नप्राशनम् ।

कृकषाया आयुष्कामस्य । १-१६ ८

आयुष्कामस्य– चिरजीवनाभिलाषिणः, कृकषाया मांसेन अन्नप्रासनम् कृकषा कङ्कणहारिका इति गदाधरः ।

आट्या ब्रह्मवर्चसकामस्य । १-१६-६

यदि कुमारः ब्रह्मवर्चस्वी स्यादिति कामयते तदा आट्या मांसेन अन्नप्रासनम् । आटिः जलचरपक्षिविशेषः ।

सर्वैः सर्वकामस्य । १-१६-१०

सर्वकामस्य— वाक्प्रसारादिसर्वविधकामनोपेतस्य सर्वैः-भारद्वाजादिसर्वविधमांसैः अन्नप्राशनं कारयेत् ।