भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 101, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 101

१२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७१ अनया च स्वस्वनििमित्तसन्निधापितानाम् ‘अलोऽन्त्यस्ये’त्यादीनां तत्तद्धर्म्मारोपप्रयोजकत्वेन यदागमपरिभाषावल्लक्षणाग्राहकत्वात् तद्बोधितस्यापि निर्दिश्यमानत्वानापत्तिरिति वाच्यम् ; स्थानिवत्सूत्रस्येव तयोर्धर्मारोपप्रयोजकत्वेऽपि लक्षणाग्राहकत्वाभावेन तद्बोधस्य षष्ठीप्रकृतिक्शक्यत्वेन निर्दिश्यमानत्वे बाधका- भावात् । अत्रैव 'अनाप्यक' इत्यादिमानमित्यन्यत्र विस्तरः । नन्वनया निर्दिश्यमानस्यादेशविधानात् ‘पादस्य लोप’ इत्यत्र अन्त्यस्यादेशा- नापत्तिरनया बाधादत आह—अनयेति । ‘अलोऽन्त्यस्ये’त्यादौ षष्ठीपदानुवृत्त्या पक्षे ; अन्यथा ‘पा’ इत्यत्र शाब्दबोधीयविषयताश्रयत्वाभावेन अनिर्दिश्यमानत्वापत्तिरिति बोध्यम् । अथ यदा ‘यदागम’परि