परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 108, कुल 373 में से
संदर्भ में पढ़ें७८ परिभाषेन्दुशेखरः [ १ प्रकरणं- तमब्ग्रहणमेव 'अनेकविधान्तर्यसत्तागमकम्' । स्थानतः = स्थाने- नेत्यर्थः । तत्र स्थानत आन्तर्यम् 'इको यणची'त्यादौ प्रसिद्धमेव । अर्थतः स्यादित्येकस्यार्थः । द्वितीये 'स्थाने' इति 'स्थानेने'त्यर्थकम् । अत्र 'स्थाने, अन्तरतम' इति पदद्वयमनुवर्तते, 'प्रसङ्गे सति स्थानेन अन्तरतमो भवतीत्येतद् व्यर्थं सत् सति सम्भवे स्थानेनान्तरतम एव भवति नार्थ्याद्यन्तरम्' इति नियमार्थंकं 'स्थान' इति द्वितीयसूत्रमेव अस्यां मानमिति भावः । तमब्ग्रहणमेवेति । न च तमब्ग्रहणमतिशय- लाभार्थम्, आदेशवृत्त्यतिशयश्च-स्ववृत्तित्व-स्वस्थानिवृत्तित्व-स्वेतरयावदादेशावृत्ति- त्वैतत्त्रितयसम्बन्धेन स्वविशिष्टधर्मवत्त्वरूपः, अत एव 'लाकृतिरि'त्यादौ वकारो नेति वाच्यम् ; स्थानिस्थानक इत्यर्थेन 'तत्स्थान' इति न्यासेनैव सिद्धेऽन्तरग्रहणमेवान्तर- तमार्थकं भविष्यतीति तमब्ग्रहणस्य अनेकविधान्तर्यसत्तागमकत्वमित्याशयात् । अनेक- विधान्तर्यस्वीकारे तु 'तत्स्थान' इत्यनेन 'तदर्थकस्तद्गुणक' इत्यादीनामर्थाना- मलाभात् सामान्यार्थबोधकान्तरशब्दस्याऽऽवश्यकतया अतिशयलाभार्थं तमब्ग्रहणस्य स्वांशे चारितार्थ्यम् । एतद्व्यर्थमिति । पूर्ववाक्येनेति भावः । इति भाव इति । तथा च मूले 'इत्यर्थकम्' इत्यस्य 'सम्पद्यत' इति शेषः ; तथा सति विपरिणम्येति न ल्यपोऽनुपपत्तिः । ननु अनुवृत्तस्य स्थानेपदस्य प्रसङ्गार्थकत्वादत्रत्यं स्थानेपदं ताल्वादिस्थानपरम्, 'प्रसङ्गे जायमानः स्थानेनान्तरतमः' इत्यर्थकमेकमेव विधायकं वाक्यमस्तु ; योगविभागेन अनेकविधा- न्तर्यस्य आदेशनियामकपरं वाक्यमस्तीत्यत्र किं मानम् ? एवञ्च स्थानकृतान्तर्येण 'चेता, स्तोता' इत्यत्रैकारस्य सिद्धेः प्रमाणत आन्तर्यादकारोऽपि स्यादित्यवतरणमपि असङ्गतमित्याशङ्कयाऽऽह मूले—तमब्ग्रहणमेवेति । अन्यथा एकं स्थानकृतमैवान्तर्यमादेशनियामकं स्यात्, तदा 'स्थानेन्तर' इत्यनेनैवेष्टसिद्धौ 'वाग्घरिः' इत्यादौ स्थानिवृत्तिसम्भावितावद्गुणविशिष्टश्चतुर्थ एव यथा स्यात्, यत्किञ्चिद्गुणविशिष्टौ द्वितीयतृतीयौ मा भूतामि'त्यर्थक-तमब्ग्रहणस्य वैयर्थ्यं स्पष्ट- मेवेति भावः । नन्वेकयोगे अनेकविधान्तर्याभावेऽपि 'लाकृतिः' इत्यादौ लकार एव यथा स्यात् वकारो मा भूदिति स्थानकृतान्तर्यस्यैवातिशयितत्वलाभार्थतया तमब्ग्रहणस्य चारितार्थ्यसम्भवे कथं योग- विभागेन अनेकविधान्तर्यसत्ताज्ञापकत्वं तस्येति चेदत्राह—न च तमब्ग्रहणमिति । प्रकृत्यर्थे धर्मिणि प्रत्ययार्थान्वयसम्भवे प्रकृत्यर्थैकदेशान्वयोऽनुचित इत्याशयेनाह—आदेशवृत्त्यति- शयश्चेति । स्वविशिष्टधर्मवत्त्वरूप इति । स्वविशिष्टधर्मश्च प्रकृते दन्तस्थानमात्रजन्यत्वरूपः ; तमबभावे दन्तस्थानजन्यत्वमादाय वकारोऽपि स्यादिति भावः । तमब्ग्रहणस्य स्वांशे चारितार्थ्यमिति । अयम्भावः—अन्तरग्रहणादेव तमबल्लभ्य- प्रकर्षार्थलाभेन तमब्ग्रहणं व्यर्थं सदनेकविधान्तर्यसत्तागमकम्, अनेकविधान्तर्यस्य आदेशता- नियामकत्वमित्यर्थः । एवं सति स्वांशे चारितार्थ्यासम्भवात् अत्रत्यं 'स्थाने' इति पदं न स्थानार्थकम्, किन्तु प्रसङ्गार्थकमेव । तथा च पूर्वसूत्रादनुवृत्त्यैव सिद्धे स्थानग्रहणं व्यर्थं सत् योगविभागद्वारा नियमार्थत्वेन परिभाषार्थं बोधयतीति ।