परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 107, कुल 373 में से
संदर्भ में पढ़ें१३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ७७ ननु 'चेते'त्यादौ ह्रस्वस्यैकारस्य प्रमाणत आन्तर्यादकारोऽपि स्या- दत आह— यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः ॥ १३ ॥ —: ० :— अनेकविधम् = स्थानार्थगुणप्रमाणकृतम् । अत्र मानम् ‘षष्ठी स्थाने इत्यत एकदेशानुवृत्त्या स्थानेग्रहणेऽनुवर्तमाने पुनः 'स्थानेऽन्तरतम' इति सूत्रे स्थानेग्रहणमेव । तद्धि तृतीयया विपरिणम्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत एवान्तरतम इत्यर्थकम् । प्रमाणत आन्तर्यादिति । मात्राद्वयन्यूनकालिकत्वरूपादित्यर्थः । अकारोऽपीत्यपि- शब्दादेकारादिः । तथा च पाक्षिकापत्तिरियमिति भावः । यत्रानेकेति । आदेश- नियामकतया प्रसक्तमिति शेषः । वाक्यभेदेनेति । 'स्थाने, अन्तरतम' इति वाक्यद्वयम् ; 'अन्तरतम' इत्यत्र पूर्वसूत्रात्स्थाने इत्यनुवर्तते, प्रसङ्गे सति सदृशतम आदेशः नन्वत्र अनुवादकत्वमेवेत्यत्र किं मानम् ? वृषलपतिच्छन्दे केवलनकारसम्पत्त्यर्थं मण्डूकानु- वृत्तेर्वक्तुं शक्यत्वात् । एवं तत्रैव ङीपो नकारस्य चोभयांशे अपूर्वविधित्वस्यापि कल्पयितुं शक्यत्वाच्चेति चेत्—अत्रोच्यते । भाष्ये त्रयाणां मध्ये कस्याप्यनुक्तत्वेन लाघवसहकृतस्यैव न्याय्यत्वात् । तत्र मण्डूकानुवृत्तावपूर्वविधाने च गौरवात् पूर्वं 'निषादस्थपति'न्यायेनानुवाद- कत्वमेव स्यात् । पश्चाच्च वृषलपतिच्छब्दादुभयं न स्यादिति चेदिष्टापत्तिः ; भाष्ये कस्याप्यनुक्तत्वेन लाघवसहकृतकल्पनायां फलभेदस्याकिञ्चित्करत्वात् । यत्तु—‘पतिपत्नी’ इत्यत्र दोषवारणाय ‘पत्युर्नो० विभाषा स०, नित्यं सपत्न्या०' इति त्रिसूत्र्या अङ्गाधिकारे पाठः कर्तव्यः । एवञ्च ‘पादः पदि'तिवत् प्रत्यये इति अध्याहृत्य 'विभाषे'- त्यस्य ‘अङ्गसंज्ञानिमित्ते प्रत्यये परे नकारः' इत्याद्यर्थस्वीकारेण उक्तलक्ष्ये पूर्वपतिशब्दे तत्प्रत्यया- व्यवहितपूर्वत्वाभावान्न नादेशः । वृषलपतिच्छन्दे तकारस्य तु न, तादृशलक्ष्यानभिधानादित्याहुः । तदसमञ्जसम् ; वृषलपत्नीपुत्र' इत्यत्र 'अन्तरङ्गानपी'ति न्यायेन विभक्तिलुकि प्रत्ययपरत्वा- भावेन नादेशानापत्तेः । प्रत्ययलक्षणन्तु न ; 'न लुमते'ति निषेधात्, अनभिधाने मानाभावाच्च । वस्तुतस्तु—पूर्वं सर्वत्र जघन्यानभिधानादिकल्पनापेक्षया परिभाषाकल्पनमेव वरम् । अत एव च 'पादः पदि'ति सूत्रे भाष्ये भाष्यकृता 'द्विपदः पश्ये'त्यादौ विशिष्टस्यादेशवारणाय ‘पाद उपधाया' इति पठित्वा, “निर्दिश्यमानस्येत्येव सिद्धमि"त्युक्तम् । अग्रे च 'किमेषा परिभाषा कर्तव्या, अथवा इदमारब्धव्यमि'त्युक्त्वा, “भूयास्येतस्याः प्रयोजनानि इत्येषा कर्तव्या” इत्यादिना उपसंहृतम्, इत्यलं विस्तरेण ॥ १२ ॥ मात्राद्वयन्यूनकालिकत्वरूपादित्यर्थं इति । फलाभावेन प्रमाणत आन्तर्येण मात्रिकत्व- स्याग्रहणादिति भावः ।