परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 119, कुल 373 में से
संदर्भ में पढ़ें१५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८९ कर्म देवदत्त एव कर्त्ता अभ्याजैव क्रिये'त्यर्थकेन अर्थवत्सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाऽध्याहारे प्रसक्ते नियमार्थः क्रियावाच- कादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफलाश्रयत्वमात्र- विवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियाऽन्वय- काले पदस्यैव गौणार्थत्वप्रतीतिः प्रयोक्तुरपि । एवमेतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपि पदकार्य- विषयकः । ध्वनितं चेदं 'सर्वादीनी'ति सूत्रे संज्ञाभूतानां प्रतिषेध- शब्दकदम्बकं भाष्योक्तं कर्त्ता क्रिया चेत्येवमादिकर्मनिर्दिष्टे इत्येवमादिकं चोक्तवे- त्यर्थः। 'कर्ता क्रिया चे'त्यादिना 'कर्ता क्रिया चानिर्दिष्टौ, देवदत्त इत्युक्ते कर्ता निर्दिष्टः कर्मक्रिये' इत्येतदन्तस्य शब्दकदम्बकस्य सङ्ग्रहः । 'अनिर्दिष्ट' इत्यादिना अनिर्दिष्टे अभ्याजेत्युक्ते 'क्रिया निर्दिष्टा कर्तृकर्मणी अनिर्दिष्टे' इत्यस्य सङ्ग्रहः । प्रयोक्तुरपीति । एतदन्तो ग्रन्थः काकदन्तपरीक्षावत् निष्फल एव । केवलम् 'अत्वं त्वं संपद्यते, अमहान् महान्भूत' इत्यादिभाष्यमेव पदकार्य एतन्न्यायस्य प्रवृत्तौ बीजम् । ध्वनितं चेदमिति । इदम्=अस्य न्यायस्य पदकार्यविषयत्वम् । अन्यथा गौणमुख्यन्यायेनैव सिद्धे सूत्रकारादिप्रयासो व्यर्थ एव स्यात् । सर्वनामसंज्ञाया विभक्तिनिमित्तकत्वं च संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वाद् बोध्यम् । केचित्तु- न प्रातिपदिककार्ये इति 'सर्वविधप्रातिपदिककार्येष्वयं न्यायो न प्रवर्त्तते' इत्यर्थः । ननु तर्हि कीदृशप्रातिपदिककार्ये प्रवर्त्तते ; तत्राऽऽह-किञ्चेति । विशिष्यार्थेति । 'अन्वयानुपपत्तिप्रतिसन्धानाभावे यत्प्रातिपदिकं सहशलक्ष्यार्थबोधकं अत्रेदं चिन्तनीयम्- "किञ्चायं न्यायो न प्रातिपदिककार्ये" इत्यादिग्रन्थः पूर्वसन्दर्भंविरुद्धः; तथा हि 'आन्महत' इत्यात्वस्यापि प्रातिपदिकसम्बन्धिकार्यत्वेन प्रातिपदिककार्यतया तत्र न्यायाप्रवृत्त्याऽवतरणासङ्गतः । यदि तु पदकार्यभिन्नं प्रातिपदिककार्यमिति तात्पर्यम् ; तदा 'परिनिष्ठितस्ये'त्यादिना प्रातिपदिककार्ये प्रवृत्त्यभावे बीजकथनासङ्गतिः, पदकार्ये एव प्रवृत्तौ बीजकथनेनैव तद्भिन्ने प्रातिपदिककार्ये प्रवृत्त्यभावस्य सुतरां सिद्धेः । किञ्च 'प्रातिपदिककार्ये न प्रवर्त्तते' इत्यस्य न किमपि फलम्; पदकार्ये एव प्रवर्त्तत इत्युक्त्यैव 'गौर्वाहीकः' इत्यस्य सिद्धेः। अपि च पदकार्ये बीजकथनमध्यसङ्गतम् । नहि सर्वत्र अन्वयानुपपत्तिरेव लक्षणाया बीजम्, यत्र तात्पर्यानु- पपत्त्या पूर्वमेव गोसदृशतात्पर्येण गवादिनां प्रयोगस्तत्र गौणार्थत्वग्रहस्य प्रयोक्तुरपि पूर्वं सम्भवात् । तस्मात् सूत्र-वार्तिक-भाष्यप्रामाण्यादेव 'पदकार्ये एवायं न्यायः प्रवर्त्तते' इत्येवं कल्पनीयमित्या- द्याक्षिपन्ति ग्रन्थतत्त्वविदः । तत्समाधातुमुपक्रमते- केचित्त्विति । व्याख्यानं सुगमम् । मूले- एतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपीति । एतन्मूलकः = गौणमुख्यन्यायमूलक इत्यर्थः । समग्रश्लोकश्चेत्थम् - १२