परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
१५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८९ कर्म देवदत्त एव कर्त्ता अभ्याजैव क्रिये'त्यर्थकेन अर्थवत्सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाऽध्याहारे प्रसक्ते नियमार्थः क्रियावाच- कादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफलाश्रयत्वमात्र- विवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियाऽन्वय- काले पदस्यैव गौणार्थत्वप्रतीतिः प्रयोक्तुरपि । एवमेतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपि पदकार्य- विषयकः । ध्वनितं चेदं 'सर्वादीनी'ति सूत्रे संज्ञाभूतानां प्रतिषेध- शब्दकदम्बकं भाष्योक्तं कर्त्ता क्रिया चेत्येवमादिकर्मनिर्दिष्टे इत्येवमादिकं चोक्तवे- त्यर्थः। 'कर्ता क्रिया चे'त्यादिना 'कर्ता क्रिया चानिर्दिष्टौ, देवदत्त इत्युक्ते कर्ता निर्दिष्टः कर्मक्रिये' इत्येतदन्तस्य शब्दकदम्बकस्य सङ्ग्रहः । 'अनिर्दिष्ट' इत्यादिना अनिर्दिष्टे अभ्याजेत्युक्ते 'क्रिया निर्दिष्टा कर्तृकर्मणी अनिर्दिष्टे' इत्यस्य सङ्ग्रहः । प्रयोक्तुरपीति । एतदन्तो ग्रन्थः काकदन्तपरीक्षावत् निष्फल एव । केवलम् 'अत्वं त्वं संपद्यते, अमहान् महान्भूत' इत्यादिभाष्यमेव पदकार्य एतन्न्यायस्य प्रवृत्तौ बीजम् । ध्वनितं चेदमिति । इदम्=अस्य न्यायस्य पदकार्यविषयत्वम् । अन्यथा गौणमुख्यन्यायेनैव सिद्धे सूत्रकारादिप्रयासो व्यर्थ एव स्यात् । सर्वनामसंज्ञाया विभक्तिनिमित्तकत्वं च संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वाद् बोध्यम् । केचित्तु- न प्रातिपदिककार्ये इति 'सर्वविधप्रातिपदिककार्येष्वयं न्यायो न प्रवर्त्तते' इत्यर्थः । ननु तर्हि कीदृशप्रातिपदिककार्ये प्रवर्त्तते ; तत्राऽऽह-किञ्चेति । विशिष्यार्थेति । 'अन्वयानुपपत्तिप्रतिसन्धानाभावे यत्प्रातिपदिकं सहशलक्ष्यार्थबोधकं अत्रेदं चिन्तनीयम्- "किञ्चायं न्यायो न प्रातिपदिककार्ये" इत्यादिग्रन्थः पूर्वसन्दर्भंविरुद्धः; तथा हि 'आन्महत' इत्यात्वस्यापि प्रातिपदिकसम्बन्धिकार्यत्वेन प्रातिपदिककार्यतया तत्र न्यायाप्रवृत्त्याऽवतरणासङ्गतः । यदि तु पदकार्यभिन्नं प्रातिपदिककार्यमिति तात्पर्यम् ; तदा 'परिनिष्ठितस्ये'त्यादिना प्रातिपदिककार्ये प्रवृत्त्यभावे बीजकथनासङ्गतिः, पदकार्ये एव प्रवृत्तौ बीजकथनेनैव तद्भिन्ने प्रातिपदिककार्ये प्रवृत्त्यभावस्य सुतरां सिद्धेः । किञ्च 'प्रातिपदिककार्ये न प्रवर्त्तते' इत्यस्य न किमपि फलम्; पदकार्ये एव प्रवर्त्तत इत्युक्त्यैव 'गौर्वाहीकः' इत्यस्य सिद्धेः। अपि च पदकार्ये बीजकथनमध्यसङ्गतम् । नहि सर्वत्र अन्वयानुपपत्तिरेव लक्षणाया बीजम्, यत्र तात्पर्यानु- पपत्त्या पूर्वमेव गोसदृशतात्पर्येण गवादिनां प्रयोगस्तत्र गौणार्थत्वग्रहस्य प्रयोक्तुरपि पूर्वं सम्भवात् । तस्मात् सूत्र-वार्तिक-भाष्यप्रामाण्यादेव 'पदकार्ये एवायं न्यायः प्रवर्त्तते' इत्येवं कल्पनीयमित्या- द्याक्षिपन्ति ग्रन्थतत्त्वविदः । तत्समाधातुमुपक्रमते- केचित्त्विति । व्याख्यानं सुगमम् । मूले- एतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपीति । एतन्मूलकः = गौणमुख्यन्यायमूलक इत्यर्थः । समग्रश्लोकश्चेत्थम् - १२
९० परिभाषेन्दुशेखरः [ १ प्रकरणे- मारभता वार्तिककृता, 'पूर्वंपरे'ति सूत्रे 'असंज्ञायामि'ति वदता सूत्रकृता, अन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च । तत्र, विशिष्टरूपोपादाने, पदकार्ये च' इत्येवं त्रितयसमवहितप्रातिपदिककार्ये प्रवर्त्तते इति भावः । अत्रार्थे बीजमाह—परिनिष्ठितस्येति । गौर्वाहीक इति । अत्र हि वाहीके- ऽन्वयानुपपत्तिप्रतिसन्धानादेव गोशब्दस्य स्वार्थसदृशलक्ष्यार्थबोधकत्वेन न्यायस्य विषयाभावात्पूर्वमेवान्तरङ्गत्वात् वृद्धिप्रवृत्तिः । एवम् अग्नीषोमौ, माणवकावि'त्यत्र बोध्यम् । यत्र त्वग्निसोमपदयोरन्वयानुपपत्तिप्रतिसन्धानात्प्रागेव सदृशलाक्षणिकत्व- ग्रहस्तत्र एतन्न्यायेन इत्वादिष्यावृत्तिः सिद्धा । नन्वेवं 'गां पाठये'त्यत्रापि सुवचमित्यत आह—गां पाठयेति
१५-१६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९१ अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्त्वे इति ‘ओत्’- सूत्रस्थभाष्यस्य लौकिकार्थवत्त्वयोग्यपदाश्रय एष न्यायस्तद्रहितशब्दाश्रये च ते इत्यर्थः । ‘गोत’ इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्त्वेन उक्तरीत्यैव एतस्य भाष्यस्य व्याख्येयत्वादित्यलम् ॥ १५ ॥ अर्थवद्ग्रहणे इत्यस्यापवादमाह— अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ १६ ॥ —: ✤ :— ‘येन विधिरि’त्यत्र भाष्ये वचनरूपेण पठितैषा, तेन ‘राज्ञा, साम्ने’- त्यादौ अल्लोपः, ‘दण्डी, वाग्मी’त्यादौ ‘इन् हन्नि’ति नियमः, ‘सुपयाः, कल्पना भाष्यकारानभिप्रेतेत्यत आह—अर्थाश्रय इति । विशिष्टरूपोपादानसत्त्वेनेति । ‘आ गोतोऽम्शसोरि’ति पाठाभिप्रायेणेदं भाष्यमिति भावः॥ १५॥ अर्थवता चानर्थकेन चेति । प्रकृत्यादित्वादभेदे तृतीया । अर्थवदनर्थकाभिन्नं यत्तत् ; तन्निष्ठचरमावयवतानिरूपकसमुदायबोधकानि अनिनस्मन्ग्रहणानीति परिभाषार्थः । यद्वा—अर्थवन्ति अनर्थकानि च तदन्तविधिं प्रयुञ्जते—अनिनस्मन्ग्रहणानि अर्थवता चानर्थकेन प्रयोज्यकर्त्रा तदन्तविधिं प्रयोजयन्तीत्यर्थः । वचनरूपेणेति । ‘अवर्मण’ इति प्रतिषेधोऽस्यामेकदेशानुमत्या ज्ञापकः; अन्यथा वर्मन्शब्दघटकस्यानोऽनर्थकत्वेन ‘नमपूर्व’ इति प्रतिषेधाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव । कार्यत्वाभावेन तदप्राप्तेरत आह मूले—अर्थाश्रये एतदेवं भवतीत्यादिः। ‘अर्थाश्रये’ इत्यत्र अर्थपदं लौकिकार्थवत्त्वयोग्यपदपरमिति भावः ॥ १५ ॥ अत्र मूले ‘राज्ञा, साम्ने’त्यादीनि उदाहरणानि दत्तानि । अव्युत्पत्तिपक्षे तु ‘राज्ञा’ इत्यपि अनर्थकस्यैवान उदाहरणमिति चेत् ; ‘सुजम्ना’ इत्यनोऽर्थवत् उदाहरणं बोध्यम् । मूले—दण्डी, वाग्मीति । इदमुपलक्षणम्—‘दण्डिनौ, वाग्मिनौ’ इत्यस्य, तत्र ‘सौ चे’- त्यनेन दीर्घसिद्धौ नियमानुपयोगात् । एवं ‘सुपयाः’ इत्यत्रापि । अव्युत्पत्तिपक्षे ‘सुमेधा’ इत्युदा- हर्तव्यम् । सुश्रोता’ इत्यत्र श्रुधातोरसिप्रत्यये तस्य तुडागमेऽसिरनर्थकः, आगमसमभिव्याहारे आगमविशिष्टस्यैवार्थवत्त्वात् । ननु ‘यदागम’न्यायेन तुड्विशिष्टस्याऽसो ग्रहणेन तस्य चार्थवत्त्वेन अनर्थकोदाहरण- मयुक्तमिति चेन्न । श्रुधातोर्विचि गुणे तस्मात्पञ्चम्यन्तात् तसि प्रत्यये तदनुकरणे सुशब्देन समासे अनर्थकस्यास उदाहरणं बोध्यम् ।
९२ परिभाषेन्दुशेखरः [ १ प्रकरणे- सुस्रोता' इत्यादौ 'अत्वसन्तस्ये'ति दीर्घः, 'सुशर्मा', 'सुप्रथिमे'त्यादौ 'मन' इति ङीब्-निषेधश्च सिद्धः । अन्ये तु 'परिवेविषीध्वमि'त्यत्र ष्टत्वव्यावृत्तये क्रियमाणाद् 'इणः षीध्वमि'त्यत्र अङ्गग्रहणादर्थवत्परिभाषाऽनित्या, तन्मूलकमिदमित्याहुः । 'विभाषेट' इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहण- मिति भ्रमवारणाय 'अङ्गादि'ति परे ॥ १६ ॥ एवं 'कामंस्ताच्छील्य' इत्याद्यपि ज्ञापकमूह्यम् । सुप्रथिमेति । सुगता प्रथिमानं सुप्रथि- मेति विग्रहः । एतेन सुप्रथिमन्शब्दस्य पुंस्त्वात् बहुव्रीहौ 'अनो बहुव्रीहेरि'त्यनेन अन्नन्तत्वादेव निषेधसिद्धेर्मन्नन्तस्योदाहरणमिदं चिन्त्यमिति परास्तम् । परिवेविषीध्वमिति । विषूधातोर्जोहोत्यादिकाद्विधिलिङि सीयुटि सलोपे द्वित्वादौ चेदं रूपमिति बोध्यम् । नन्वसधातोर्विधिलिङि कर्मव्यतिहार आत्मनेपदे 'व्यति- षीध्वमि'त्यत्रार्थवतः षीध्वमः सम्भवादत्र ष्टत्वव्यावृत्तयेऽङ्गादित्यस्य चारितार्थ्यात्कथं ज्ञापकमिति चेन्न । 'उपसर्गप्रादुर्भ्यामि'ति षत्वस्यासिद्धत्वेन षीध्वमोऽभावात्तद- प्राप्त्याऽङ्गादित्यस्य चारितार्थ्याभावात् । सूत्रं तु 'आदेशप्रत्यययो'रिति षत्वे चरितार्थम् । भ्रमवारणायेति । उत्तरसूत्रेऽर्थवतः षीध्वमोऽसम्भवात्परिभाषाबाधेऽप्यत्र तद्बाधे मानाभावादिदमयुक्तमिति दिक् ॥ १६ ॥ सुप्रथिमेतीति । कर्मधारये इमनिजन्तस्य पुंस्त्वेन स्त्रीत्वाभावात् ङीपोऽप्रसक्तिः, बहुव्रीहौ 'अनो बहुव्रीहेः' इति सिद्धेरत आह—सुगता प्रथिमानमिति । परास्तमिति । यत्तु—मूले असुप्रथिमेति छेदं कृत्वा स्त्रीत्वबोधनाय बहुव्रीहि कृत्वा पश्चात् नञ्तत्पुरुषे बहु- व्रीहित्वाभावात् 'अनो बहुव्रीहेः' इत्यस्याप्राप्तौ 'मन' इति निषेध इति । तन्न ; 'अबहुयज्वरी' इत्य- निष्टरूपवारणाय तदन्तविधिद्वयस्वीकारस्य आवश्यकत्वेन 'असुप्रथिमे'त्यत्रापि तेनैवेष्टसिद्धेः । दिगिति । अत्र हैमवतीकाराः—अनया परिभाषया 'अर्थवद्ग्रहणं' इत्यस्याप्रवृत्त्या अनि- नस्मन्ग्रहणेषु अनर्थकेषु तदन्तविधिस्वीकारेऽपि 'लक्षणप्रतिपदोक्त'परिभाषाप्रवृत्त्या 'वाग्मिनौ' इत्यत्र 'इन् हन्नि'ति नियमो न स्यात्, 'दण्डिनौ' इत्यत्र 'निरनुबन्धक'परिभाषया नियमो न स्यात्, 'यशस्वी'त्यादौ 'ग्रहणवते'ति निषेधात् 'अस्माये'ति विनिर्न स्यात्, विन् तु अस्धातोः क्विबन्तात् 'अस्वी' इत्यत्र चरितार्थः । एवञ्च लक्ष्यासिद्धिस्तदवस्थैवेति चेन्न । अनया परिभाषया अनिनादिषु वर्णत्वमतिदिश्यते । परिभाषार्थस्तु—अनिनस्मन् ग्रहणानि अर्थवता चानर्थकेन च तदन्तविधिं यथा प्रयोजयन्ति तथा कार्यम्, अर्थात् एषु वर्णत्वातिदेशः कर्तव्य इति । एवं सति वर्णग्रहणे सर्वासामप्येतासामप्रवृत्त्या सर्वेष्टसिद्धेः सूपपादत्वात् । अत एव च 'अनकारा' 'असकारा' इत्यादयो भाष्यप्रयोगाः सङ्गच्छन्ते ; अन्यथा कारप्रत्ययानुपपत्तिरेव स्यादिति वदन्ति । यत्तु—अनया परिभाषयाऽल्त्वमेवातिदिश्यते, ततश्च अल्लैवानर्थकेन तदन्तविधिरित्यनेन सङ्गृहीता भवतीयं परिभाषेति । तन्न ; अल्त्वारोपे सति 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति
or»or”`?
In Sanskrit books from Varanasi (like Chowkhamba, etc., this is from a Chowkhamba or similar edition of Paribhashendushekhara with Tattvaprakasika and Bhuti):
Wait! Look at the title at the top:
"तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः"
This is the famous edition of Paribhashendushekhara published by Chowkhamba (or Sampurnanand Sanskrit University / Haridas Sanskrit Granthamala), edited with Tattvaprakashika of MM Pt. Lakshmana Shastri Dravida and Bhuti of Pt. Nityananda Parvanikar!
Let's verify the text of Bhuti on Paribhasha 17:
In Bhuti:
"अनन्तरत्वादिति । अतिसन्निहितत्वादित्यर्थः । एकयोगेति । योगपदं कार्यपरं न तु सूत्रपरम् । एकसूत्रघटकानामित्यर्थे तु 'चिण् भावकर्मणोरि'त्यत्र चिण्ग्रहणं व्यर्थं स्यात्, 'चिण् ते पदः' इत्यतस्तदनुवृत्तौ बाधकाभावात् । मन्मते तु 'चिण् ते पद' इत्यतोऽनुवृत्तचिण्पदस्य मध्ये 'न रुधः' इत्यत्र नञ्सम्बद्धत्वेन नञ्-चिणोरेकसूत्रघटकत्वाभावेऽपि नञ्सम्बद्धस्य केवलस्य चिणः '
९४ परिभाषेन्दुशेखरः [ १ प्रकरणे-१८-१९ प० विचारः, नन्वलुगधिकारः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्य- नुपपन्नमेकयोगनिर्दिष्टत्वात् ; तथा 'दामहायनान्ताच्च' इत्यादौ 'संख्या- व्ययादेरि'त्यतः संख्यादेरित्यनुवर्ततेऽव्ययादेरिति निवृत्तमिति चानुपपन्न- मत आह— क्वचिदेकदेशोऽप्यनुवर्तते ॥ १८ ॥ —: ० :— एकत्रार्थे योगः = सम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्व- निर्दिष्टयोरित्यर्थ' इति 'पक्षात्तिरि'ति सूत्रे कैयटः । तावन्मात्रांशे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम् । स्पष्टा चेयं 'दाम- हायनान्ताच्चे'ति सूत्रे 'औतोऽम्शसोरि'ति सूत्रे च भाष्ये, पूर्वा च ॥१८॥ ननु 'त्यदादीनाम' इत्यादिना 'इममि'त्यादावनुनासिकः स्यादत आह— ————— पूर्वपरिभाषातोऽनुवर्त्तमानस्य 'एकयोगे'ति पदस्यात्रार्थविशेषं प्रतिपादयति— एकत्रार्थ इति । कैयट इति । अत्रारुचिबीजन्तु—'अरुगधिकार प्रागनङः' इत्यादिभाष्यानुपपत्तिर्द्वन्द्वनिर्दिष्टत्वाभावात् । किञ्च 'औतोऽम्शसोरि'त्यत्र 'वा सुपी'त्यतः सुपीत्यनुवर्तते वेति निवृत्तमनया परिभाषयेति भाष्यासङ्गतिरिति दिक् ॥१८॥ इममित्यादाविति । नन्वौजसोः फलसम्भवेऽम्पर्यन्तमनुधावनं व्यर्थमिति चेन्न । 'इमावि'त्यत्र ओकारस्यानुनासिकत्वाभावेन 'इमे' इत्यत्रैकारस्यानुनासिकत्वेऽपि परस्य ईकारस्याऽऽधिव्यात्तद्गुणकस्य निरनुनासिकस्य एकारस्य 'आद्गुण' इत्यनेन विधानात्तत्र फलासम्भवात्, विभक्तिविधायककार्येषु द्वितीयाया एव प्राथम्याच्च । ————— विनिर्भवति 'यट्वी' इति रूपं भवति ; तन्न स्यात् । एतादृशप्रयोगे चोक्तभाष्यमेव मानम् । किञ्च—अत एव 'अल्लोपोजः' इत्यत्र अदिति तपरग्रहणं चरितार्थम् । अनितेः क्विपि दीर्घे 'आन्' इत्यत्रानो वर्णत्वातिदेशेऽपि अल्त्वानतिदेशेन 'अनल्विधावि'त्यस्याप्राप्त्या स्थानिवद्भावे वान्त्वातिदेशेन प्राप्ताऽल्लोपवारणाय तपरकरणस्य साफल्यादित्यवधेयम् ॥ १६ ॥ इति दिगिति । अस्यां ज्ञापकानि 'एचोऽयवायावः' इत्यादीनि । अत्र हि 'इको यणचि' इत्यस्मात् 'अची'त्यनुवर्तते । एकयोगनिर्दिष्टानां सहैवानुवृत्तौ सूत्रं व्यर्थम्, सर्वत्र प्रवृत्तिर्वा । न च 'वान्तो यि प्रत्यये' इति सूत्रं व्यर्थं सत् नियमार्थं भविष्यति वाच्यम् ; ज्ञापनोत्तरं विधित्वे सम्भवति नियमत्वायोगात् ॥ १८ ॥
१ प्र० १९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९५ भाव्यमानेन सवर्णानां ग्रहणं न ॥ १९ ॥ —: ❖ :— अणुदित्सूत्रे 'अप्रत्यय' इत्यनेन सामर्थ्यात्सूत्रप्राप्तं, जातिपक्षेण प्राप्तं, गुणाभेदकत्वेन च प्राप्तं नेत्यर्थः । अत एव अणुदित्सूत्रे प्रत्ययाऽऽदेशाऽऽगमेषु भाव्यमानेन सवर्णानां ग्रहणं नेति । विधेयताप्रयोजकेन पदेन स्वावृत्तिश्रावणप्रत्यक्ष- विषयतावच्छेदकधर्मवतां ग्रहणं नेत्यर्थः । एतेन—'त्यदादीनाम' इत्यकारेण सवर्ण- सामान्यस्यानेन निषेधाद् ग्रहणाभावेन सूत्रं व्यर्थमेव स्यादित्यपास्तम् । स च धर्म- स्तद्व्यक्तित्व-तत्पुरुषीयत्वातिरिक्तः स्वरत्वव्याप्योदात्तत्वादिभिन्नश्च ग्राह्यः, तेन तत्तल्लक्ष्यघटकानां तत्तत्पुरुषोच्चारितानां त्वकारव्यक्तीनां विधायकाऽद्भूतेऽपि न क्षतिः । एवं 'बहुवचने झल्येदि
ति or 'ज्यायानि'ति! Let's check how the typesetter printed it: Line 13: 'ज्यायानि'त्यस्य Line 14: 'ज्यायानि'त्यस्य Line 32: 'ज्ययानि'ति Line 33: 'ज्यायानि'ति Look at the image: Line 13: 'ज्यायानि'त्यस्य Line 14: 'ज्यायानि'त्यस्य Line 32: 'ज्ययानि'ति रूपम् । Line 33: 'ज्यायानि'ति रूपमिति
Let's double-check line 6: 'चोः 'कुरि'त्यादौ भाव्यमानेनापि सवर्णग्रहणम्, विधेये उदिदु- Wait, look at 'चोः 'कु': Is there an opening quote before 'कु'? Line 6: 'चोः 'कुरि'त्यादौ Look: 'चोः 'कुरि'त्यादौ -> 'चोः कुः' इति आदौ -> 'चोः 'कुरित्यादौ or 'चोः कु'रित्यादौ? In image: 'चोः 'कुरि'त्यादौ (single quote before चोः, single quote before कु, single quote after र्/रि).
Let's check line 18: दुर्द्धर इति वाच्यम्; ईकारस्य ह्रस्वा
२० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९७ नन्वेवम् 'अदसोऽसेरि'त्यादिना 'अमू' इत्यादौ दीर्घविधानं न स्यादत आह— भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति ॥ २० ॥ —: ० :— 'दिव उत्', 'ऋत उत्' इति तपरकरणमस्या ज्ञापकम् । दीर्घविधानं न स्यादिति । 'अदसोऽसेरि'ति सूत्रे ह्रस्वोकारेण 'भाव्यमान'परि- भाषया दीर्घस्याग्रहणादिति भावः । प्राचीनोक्तसमाहारद्वन्द्वस्तु न युक्त इत्यन्तरङ्गपरि- भाषायां निरूपयिष्यते । दिव उदिति । न च ज्ञापितेऽपि स्वांशे चारितार्थ्याभावः ; प्रमाणत आन्तरतम्याद्वकारस्य स्थाने ह्रस्वोकारस्यैव प्राप्तेः । न च 'अक्षद्यूभ्यामि'त्यत्र ह्रस्वविधानार्थं तदिति वाच्यम् , 'निरनुबन्धक'-परिभाषया दिव्धातौ एतत्प्रवृत्तेरिति वाच्यम् ; दिवशब्दात् क्यजन्तात्
९८ परिभाषेन्दुशेखरः [ १ प्रकरणे- 'तित्स्वरितमि'ति सूत्रे भाष्ये स्पष्टैषा ॥ २० ॥ ननु 'गवे हितं गोहितमि'त्यादौ प्रत्ययलक्षणेन अवाद्यादेशापत्तिरत आह— तत्सामर्थ्यात्पूर्वं गुणे दीर्घोकारादेशे 'गूहत्' इत्यादिसिद्धिस्तत्फलमिति वाच्यम् ; ह्रस्वोकारविधानस्य गुणमात्रबाधकत्वे तु 'नाभ्यस्तस्याचो'त्यत्र 'गुह्' इत्यस्य पाठेन अजादौ प्रत्यये परे गुहो गुणनिषेधेनैव सिद्धेः ह्रस्वोकारविधानेन गुणाबाधकत्व- कल्पनात्, उपधाग्रहणस्य 'मितां ह्रस्व' इत्युत्तरेत्राऽऽवश्यकत्वेऽपि उच्छब्दाकरणरूपं तक्रन्यायाप्रवृत्तिरूपं च लाघवं बोध्यमिति वदन्ति । तन्न ; गुहेर्ण्यन्ताच्चङि उपधा- कार्यत्वात्प्राबल्येन गुणे ऊत्वे 'णी चङी'ति ह्रस्वाभावार्थं दीर्घविधानस्य सूत्रकृता भाष्यकृता च कृतत्वेन तद्विरोधाभावा
२१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९९ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ २१ ॥ -: ० :- भाष्यमते 'तिसृणां धनं त्रिधनमि'त्यादौ तिस्रादेशापत्तिश्चेति वाच्यम्; साक्षात् लुप्तप्रत्ययाव्यवहितपूर्वत्वनिष्ठप्रकारतानिरूपितविशेष्यता यत्राङ्गपर्याप्तिधर्मा- वच्छिन्ना, तत्र 'न लुमते'त्यस्य प्रवृत्तिस्वीकारेण अव्यवहितपूर्वत्वस्याङ्गविशेषित- निर्दिश्यमानेऽन्वयेन तन्निष्ठविशेष्यताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वात् 'निर्जरधनम्, त्रिधनमि'त्यादौ 'न लुमते'ति निषेधस्य प्रवृत्तेः सुलभतया विभक्तिपरकत्वाभावेन तदप्राप्तेः। 'गोहितमि'त्यत्र तु अजव्यवहितपूर्वत्वस्यैव विशेषणत्वेन तन्निष्ठविशेष्य- ताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वाभावान्न 'न लुमते'त्यस्य विषयः। एवम् 'उत्क्रामे'- त्यादावपि बोध्यम्। न च 'एचोऽयवायाव' इत्यस्य शब्दानित्यत्ववारणाय 'अजव्यवहितपूर्वत्व- विशिष्टस्यैजन्तस्यार्थबोधनायोच्चारणप्रसङ्गे अयादिघटितमुच्चारणीयमि'त्यर्थस्य करणेन 'गोहितमि'त्यत्र 'न लुमते'त्यस्य प्रवृत्तिः सुलभेति वाच्यम्; एवमर्थस्वीकारे अगा- गमपक्षे 'गो+अ+अग्रमि'ति स्थिते अगागमघटकाजव्यवहितपूर्वत्वविशिष्टस्य 'गो' इत्येतस्यैजन्तस्य आगमसमभिव्याहृतस्य निरर्थकस्यार्थबोधनाय प्रसङ्गाभावेन तत्र अवाद्यनापत्त्या अग्रन्यासस्थापनपरभाष्यविरोधापत्तेः, 'गो-ए' एतत्समुदायघटकस्य 'गो' इत्येतन्मात्रस्यापगमे शब्दानित्यत्वस्य तदवस्थत्वाच्च। न च 'गो+ङे, हित+सु' इत्यवस्थायामेव अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते' इति न्यायेन इत्संज्ञालोपौ बाधित्वा लुकि कृते प्रत्ययलक्षणेऽपि अच्परकत्वाभावादवादेशाप्राप्ति- रिति वाच्यम्; ज्ञापकसाजात्यादित्संज्ञालोपविषये अन्तरङ्गानपीति न्यायस्याप्रवृत्तेः। भाष्यमत इति । तन्मते प्राधान्येन अप्राधान्येन वा अलाश्रये विधौ प्रत्ययलक्षण- सूत्राप्रवृत्तेः पूर्वत्र दोषाभावादिति भावः । त्रिधनमित्यादाविति । त्रिधनमिति परमत्रिधन- मित्यस्योपलक्षणम् । एतेन-त्रिरूपनिर्दिश्यमानस्य अङ्गरूपतया तत्पर्याप्तोद्देश्यताया लुप्त- प्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नतया निषेधप्राप्तेः सुलभतया इदमसङ्गतमिति परास्तम् । अङ्गपर्याप्तिधर्मावच्छिन्नेति । साक्षात् परम्परया वा तेन धर्मेणावच्छिन्नेति तदर्थः । ज्ञापकसाजात्यादि । अत्र केचित्-लाघवात् संज्ञामात्रविषये तन्न्यायाप्रवृत्ति- रित्येव ज्ञाप्यताम् । अत्र एव इहापि किञ्चित्तपो भाष्यं सङ्गच्छते । अन्यथा सम्बुद्धिसंज्ञां बाधित्वा पूर्वं लुकि पश्चात् प्रत्ययलक्षणेऽपि सम्बुद्धिपरत्वाभावेन गुणाप्राप्त्या तदसङ्गतिरेव स्यात् । प्रत्यय- लक्षणे सम्बुद्धिसंज्ञा तु न भविष्यति, प्रत्ययोद्देश्यककार्ये तदप्राप्तेरित्याहुः । तन्न; सामान्येन संज्ञाविषये तन्न्यायाप्रवृत्त्यङ्गीकारे 'राजपुरुषः' इत्यत्र पूर्वं भसंज्ञाप्रवृत्त्या नलोपानापत्तेः । तस्मात् पूर्वोक्तभाष्यानुरोधात् ज्ञापकसाजात्याच्च प्रत्ययस्य पर्याप्त्याऽपर्याप्त्या वा संज्ञायां कर्तव्यायाम् उक्तन्यायो न प्रवर्तेत इत्येव कल्पनं युक्तमित्येतत्फलितमाह-इत्संज्ञालोपविषय इत्यादिः ।
१०० परिभाषेन्दुशेखरः [ १ प्रकरणे- वर्णप्राधान्यविषयमेतत् । तत्त्वं च ‘प्रत्ययलोप’ इति सूत्रे स्थानिव- दित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्त्यर्थमित्येतत्सिद्धम् । वर्णप्राधान्यं च वर्णस्येतरा- अत एव ‘लुकि न स्थानिवद्’इत्यस्य ‘पञ्चेन्द्र’ इत्युदाहरणं भाष्योक्तं सङ्गच्छते ; अन्यथा ङकार-पकारयोरित्संज्ञालोपाभ्यां प्रागेव ङीषो लुकि अङ्मात्रस्थानिका- देशाभावेन स्थानिवद्भावाप्राप्त्या तदसङ्गतिः स्पष्टैव । अत एव ‘ञित्स्वरे प्रत्यय- लक्षणप्रतिषेध’ इति वार्तिकमपि सङ्गच्छते । परिभाषायां प्रमाणमाह—तत्त्वमिति । वर्णाश्रये प्रत्ययलक्षणाप्रवृत्तिमत्त्व- मित्यर्थः । प्रत्ययस्येतराविशेषणत्वरूपमिति । स्वावयवनिष्ठविशेष्यता निरूपितप्रकारता- नाश्रयत्वरूपमित्यर्थः, तेन ‘वारी’त्यादौ सुबन्तसमुदाये सुपो विशेषणत्वेऽपि स्वाव- यवेऽविशेषणत्वेन उक्तप्राधान्येन प्रत्ययलक्षणसिद्धिः । वर्णस्येतराविशेषणत्व रूपमिति । स्वावयवनिष्ठविशेष्यता निरूपितप्रकारतानाश्रयत्वमित्यर्थः, तेन ‘गोहितम्’ त्यत्र अच्- पदार्थस्य एचि विशेषणत्वेऽपि प्राधान्यमेव । अत्र स्वावयवी च प्रत्ययो ग्राह्यः, तेन ‘टिढ्ढे’ति सूत्रेऽतः प्रातिपदिके विशेषणत्वेऽपि न वर्णप्राधान्यक्षतिः । एतेन लाघवात् साधुत्वविधायकशास्त्रापेक्षयैव लुकः प्राबल्यं बोध्यते इत्येव ज्ञाप्यत इत्यपि कैयटोक्तं परास्तं वेदितव्यम् ; राजपुरुष इत्यत्र भसंज्ञाप्रवृत्त्या नलोपानापत्तेः । लोपविषये तदप्रवृत्तौ मानमाह—अत एव लुकि न स्थानिवदिति । वार्तिकमपि सङ्गच्छत इति । अन्यथा ‘गर्गा, बिदा’ इत्यादौ इत्संज्ञातः पूर्वं यञो लुकि ‘ञित्स्वरा’ऽप्राप्त्या तत्प्रतिषेधार्थं क्रियमाणं वार्तिकं व्यर्थमेव स्यादिति भावः । न चेत्संज्ञाविषये तन्न्यायाप्रवृत्ति- रित्येतज्ज्ञापने फलाभाव इति वाच्यम् ; ‘दैवदारवम्’ इत्यत्र फलसम्भवात् । तत्र देवदारुशब्दात् ‘ओरञ्’ इत्यनेन फलेऽर्थे अञि ‘तस्य फले लुक्’ इत्यनेन लुकि ‘ञितश्च तत्प्रत्ययात्’ इत्यनेन स्वार्थेऽञ् सिद्धयति ; अन्यथा स न सिद्धयेत् । ननु परिभाषास्वीकारे ‘अतृणेद्’ इत्यादौ इमादिर्न स्यात्, तत्र ‘हलादौ पिति’ इति विशेषणतया वर्णस्याऽऽश्रयणादत आह मूले—वर्णप्राधान्यविषयमेतदिति । अर्थात्सिद्धमेतत् । वार्तिककारमते ‘अनल्विधावि’ति निषेधे प्राप्ते विध्यर्थं प्रत्ययलक्षणसूत्रम् । यदि तु वर्णा- प्राधान्येऽपि अनया तस्याप्रवृत्तिः ; तर्हि प्रत्ययलक्षणसूत्रं व्यर्थमेव स्यात् । वैपरीत्यं तु न ; लक्ष्यानुरोधादिति भावः । ननु भाष्यकारमते स्थानिवद्भावेन सिद्धे प्रत्ययलक्षणसूत्रं नियमार्थम्, तन्मते वर्णाश्रये प्रत्ययलक्षणसूत्रस्य प्राप्तिरेव नेति ‘वर्णाश्रय०’ इति परिभाषा व्यर्थैवेति चेत्–सत्यम् । भाष्यमते तस्या अनङ्गीकारात्, वार्तिकमते एवास्या परिभाषायाः सत्त्वात्, तन्मते अल्विधावपि विध्यर्थ- त्वात् प्रत्ययलक्षणसूत्रस्य । अत एव ‘अतृणेद्, मित्रशीः’ इत्यादीनां सिद्धिः, तत्र वर्णप्राधान्य- विषयकाल्विधौ प्राप्तप्रत्ययलक्षणसूत्रस्य निषेधार्थमियं परिभाषा स्वीक्रियते वार्तिककृता; तदाह
विशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च, तेन 'गोहितमि'त्यादौ अवादि न, 'चित्रायां जाता, चित्रे'त्यादौ अण्योऽकारस्तदन्तान् ङीबिति ङीप् च न । इयमल्विधौ स्थानिवत्त्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये ॥ २१ ॥ नन्वतः 'कुकमी'त्यत्र कमिग्रहणेन सिद्धे कंसग्रहणं व्यर्थमत आह— उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ २२ ॥ —: ० :— इदमेवास्या ज्ञापकमिति कैयटादयः । कंसेस्तु न, कंसोऽनभिधानात् । 'प्रत्ययस्य लुगि'त्यादौ भाष्ये स्पष्टा । 'ण्वुल्तृचावि'त्यादौ भाष्ये व्युत्पन्नानीत्यपि । वस्तुतस्तु—प्रत्ययप्राधान्यमुक्तवर्णप्राधान्यभिन्नत्वम्, तेन 'गोहितमि'त्यत्र प्रत्य- यस्य स्वावयवे विशेषणत्वेऽप्युक्तप्राधान्याभावान्न दोषः । प्रत्ययनिरूपितविशेष्यतारूपम्= स्वावयविनिष्ठप्रकारतानिरूपितविशेष्यत्वरूपम् । अस्योदाहरणं चित्रेति, आद्योदा- हरणं गोहितमिति । वस्तुतस्त्वाद्यलक्षणेनैव द्विविधवर्णप्राधान्योदाहरणसङ्ग्रहे द्वितीय- लक्षणं निष्फलमिति तत्त्वम् ॥ २१ ॥ कमिग्रहणेनेति । धातुग्रहणे तदादिविधिना कमादावुत्तरपदे इत्यार्थादिति भावः । अव्युत्पन्नानीति । प्रकृतिप्रत्ययविभागज्ञानापूर्वकंपाणिनिशास्त्रप्रवृत्त्यभाववन्तीत्यर्थः । उणा- दय इत्यस्य उणाद्यन्तानीत्यर्थः । इदमेवेति । कंसग्रहणमेवेत्यर्थः । अनभिधानादिति । 'कमेः सः कंस' इति भाष्योक्तेरिति भावः । प्रत्ययस्य लुगित्यादाविति । तत्र हि प्रत्ययग्रहणाभावे 'कंसोयपरश्वव्योः' इत्यत्र प्रकृतेर्लुगन्निवृत्त्यर्थमवश्यं 'छ्यतोरि'ति वाच्यमित्युक्त्वा, कंसावयव-सस्य परश्ववयवो- कारस्य लुग् स्यादित्याशङ्क्य अनया परिहृतम् । 'सर्पिषा, यजुषे'त्यादौ षत्वादि कार्यं तु कारुवायादिशब्दानां व्याकरणान्तरीयरीत्या ज्ञातसाधुत्वकानामस्मिन्नपि व्याकरणे साधुत्वाभ्यनुज्ञानायाऽऽरब्धे 'उणादयो बहुलमि'ति सूत्रे बहुलग्रहणेन साधनीयम् । ण्वुल्तृचावित्यादाविति । तत्र हि तृचश्चकारः 'अप्तृन्नि'त्यत्र विशेषणार्थः, अन्यथा 'मातरावि'त्यादावपि 'प्राप्नोती'त्युक्त्वा, नप्त्रादिग्रहणस्य नियमार्थत्वेन मूले— अल्विधौ स्थानिवत्त्वाप्राप्तावपीत्यादिः । भाष्यमते 'अतृणेडे'त्यादीनाम्, वार्तिक- मते 'सुदृषत्प्राकारः' इत्यादीनाञ्च सिद्धिप्रकारोऽन्यतोऽवसेय इत्यलम् ॥ २१ ॥
१०२ परिभाषेन्दुशेखरः [ १ प्रकरणे— इदं शाकटायनरीत्या । पाणिनेस्त्वव्युत्पत्तिपक्ष एवेति शब्देन्दुशेखरे निरूपितम् । 'आयनेयी'ति सूत्रे भाष्ये स्फुटमेतत् ॥ २२ ॥ ननु 'देवदत्तश्चिकीर्षती'त्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वा- द्यापत्तिरत आह— प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ॥ २३ ॥ —: ० :— 'यस्मात् प्रत्ययविधिर्'ति सूत्रे यस्मात्प्रत्ययविधिस्तदादि प्रत्यय इति योगो विभज्यते । गृह्यमाण उपतिष्ठत इति शेषः, तेन तदाद्यन्तांशः सिद्धः । समाहितम् । यदि तु 'अव्युत्पन्नानी'त्येव स्यात्तर्हि नप्तृत्रादिशब्दानामव्युत्पन्नत्वेन 'तृ' इत्युच्यमानेऽपि दीर्घाप्राप्त्या नियमार्थकत्वकथनमनुपपन्नं स्यादिति भावः । वस्तुतो नायं भाष्यकारीयसिद्धान्त इत्याह—इदमिति । शब्देन्दुशेखरे 'उणादयो बहुलम्'ति सूत्रे इत्यर्थः । न च कारुवायादिशब्दानामव्युत्पन्नत्वे 'उणादय' इत्यादि- सूत्रप्रणयनं पाणिनेरनुपपन्नमिति वाच्यम् ; व्याकरणान्तरे उणाद्यन्तत्वेन व्युत्पादितानां कारुवादिशब्दानां बहुलं वर्तमानादौ साधुत्वान्वाख्यानाय सूत्राऽऽवश्यकत्वात् , पाणिनेः सर्वज्ञत्वेन कारुवादिशब्दानामुणाद्यन्तत्वेन ज्ञानेऽपि उणादिप्रत्ययज्ञानपूर्वकस्वशास्त्रप्रवृत्तेः अस्वीकारेणादोषाच्च । अत एव शङ्खादिशब्देषु ईनाद्यादेशवारणाय पाणिनिना प्रयत्नविशेषो नाकारि । किञ्च 'आयनेयी'ति सूत्रे 'शङ्ख' इत्यादौ ईनाद्यादेशमाशङ्क्य 'प्रातिपदिकविज्ञानादि'त्यस्य उणाद्यन्तकार्यादिप्रातिपदिकनिष्ठ-प्रकृतिप्रत्ययविभागज्ञान- पूर्वक-स्वशास्त्रप्रणयनप्रवृत्तिस्वीकारादित्यर्थ इत्यन्यत्र विस्तरः ॥ २२ ॥ देवदत्तश्चिकीर्षतीति । अस्य धातुत्वे 'सुब्लुगापत्तिस्तत एव लुङाद्युत्पत्त्या विशिष्टस्याडाद्यापत्तिश्चेति भावः । धातुत्वाद्यापत्तिरित्यत्र आदिना 'सन्यङोरि'ति सुब्लुगापत्तिरिति । यत्तु—प्रातिपदिकसाहचर्येण वृत्तप्रयोजकस्य सुपो ग्रहणात् न प्रकृते दोषः । साहचर्यस्वरूपं हि यदि प्रातिपदिकावयवस्य लुग् भवति तर्हि वृत्तिप्रयोजक- स्यैव, एवं धातावपि । न च 'ओदनमुपसेकं भोक्तुमिच्छति, ओदनमुपसेकं बुभुक्षति' इत्यत्र 'द्वितीयायाश्च' इति णमुलि 'तृतीयाप्रभृतीन्यतरस्याम्' इति समासविकल्पे सुपो वृत्तिप्रयो- जकत्वात् लुगापत्तिरिति वाच्यम्; यद्धात्ववयवसुपो लुक् चिकीर्षितस्तत्पर्याप्तवृत्तेः प्रयोजकस्य सुपो ग्रहणेनादोषात् । प्रकृते च विशिष्टधात्ववयवत्वप्रयुक्तसुपो लुक् चिकीर्षितः, तत्पर्याप्तवृत्तेरभावात् न सुपो लुक्, सुपो हि ओदनमुपसेकमित्येतत्पर्याप्तवृत्तिप्रयोजकत्वादिति । तन्न ; इदानीं 'देव- दत्ती गार्ग्यः इति समुदायस्यापि तद्धितान्तत्वेन प्रातिपदिकत्वात् तदवयवस्य सुपो वृत्त्यप्रयोजक- स्यापि सम्भवेन साहचर्यस्यासम्भवात् ।
ह्रस्वादि'.
Line 13: स्यैव तदादेराक्षेपेण समानविभक्तिकत्वाद एङ् ह्रस्वादित्यनेन तदन्तलाभः । एवं 'सुपि- Wait, in line 13: 'एङ् ह्रस्वादित्यनेन' or 'एङ्ह्रस्वादित्यनेन'? Look at line 13: "एङ् ह्रस्वादित्यनेन" - yes, there's a space between एङ् and ह्रस्वा.
Line 14: चे'त्यादावपि बोध्यम् ।
Line 15: द्वित्वापत्तिरिति । इदं चिन्त्यम् ; तथाहि—इदं वाक्यसंस्कारपक्षे आहोस्वित् पद-
Line 16: संस्कारपक्षे ? नाद्यः ; 'देवदत्तस् + कृ स' इत्यवस्थायां विशिष्टस्य 'कृस' इत्यस्यापि च
Line 17: धातुत्वम् तत्रोभयोर्द्वित्वप्राप्तौ अन्तरङ्गत्वात् पूर्वं 'कृस' इत्येतत्सन्नन्तैकाचः 'कृ' इत्यस्यैव स्यात् Wait, look at line 17: "धातुत्वम् तत्रोभयोर्द्वित्वप्राप्तौ" -> is there a comma or danda? No, just "धातुत्व
Wait, in line 23, is there a dot? No dot! It is clearly ड्! Wait, why did this book print ड instead of ङ? Because in some Marathi/Hindi/Benares presses, ङ without a dot was cast from the same matrix as ड, or the typesetter literally used ड for ङ, OR the font has ङ without dot when in conjuncts? Wait, if it's printed as ड or ङ, let's look at line 5:'अङ्गस्ये'ति सूत्रे-> here ङ्ग has ङ् + ग. In line 20:अङ्गाक्षेपासम्भवस्यान्यत्र-> ङ्ग has ङ् + ग. When ङ is not combined with ग, how did this font print ङ? They used ड with or without a dot, or just ड! Wait, in pure transcriptions, faithful to the text, we should be careful. But is itएङन्तादित्यर्थलाभः`? In Sanskrit, 'एङ्' is the pratyahara (ए, ओ). 'एङन्तात्' means "ending in eṅ". Printing 'एडन्त' is technically a typographic variant/error for 'एङन्त'.
Let's see: user asks for "pure, clean Markdown in Unicode Devanagari. Include all sutras, vartikas, bhashya, karikas, vivarana, paribhashas, Hindi translation, and footnotes
२३-२४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १०५ ‘उगितश्चे’ति सूत्रे भाष्ये । इयमङ्गसंज्ञासूत्रे भाष्ये स्पष्टा ॥ २३ ॥ ‘येन विधिरि’ति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते— चेन्न । प्रत्ययमात्रग्रहण इत्यनेन प्रत्ययबोधकत्वविशिष्ट-प्रातिपदिकाबोधक एव प्रवृत्ति- बोधनेन प्रकृतसन्पदस्य प्रातिपदिकाबोधकत्वेन परिभाषाप्रवृत्तेः सुवचत्वात् । केचित्तु—प्रत्ययमात्रग्रहण इत्यत्र प्रत्ययपदं प्रत्ययनिष्ठोद्देश्यता निरूपितविधे- यताश्रय-प्रत्ययैतदन्यतरपरम्, तेन ‘प्रतीषिषती’त्यत्र उत्तरखण्डरूपस्य सनोऽप्रत्यय- त्वेऽपि प्रत्ययनिष्ठोद्देश्यता निरूपितविधेयताश्रयत्वेन तद्बोधकस्य सन्पदस्योक्तप्रत्ययमात्र- बोधकत्वेन दोषाभाव इति वदन्ति । वस्तुतस्तु—प्रतिपदोक्तत्वात् पूर्वं दीर्घे ह्रस्वप्रवृत्तेः स्वीकारेण हन्साहचर्याद् अभ्यासानवयवस्यैवाचो ग्रहणेन च ‘प्रतीषिषती’त्यत्र दोषवारणसम्भवेन शेखरोक्ता भाष्यविरुद्धकल्पना व्यर्था । किं चात्र ‘सन्यत’ इतीत्वानापत्तिः, ‘प्रतीषिषे’त्यत्र अप्रत्यया- दित्यस्याप्रवृत्त्यापत्तिश्च । उगितश्चेतीति । तत्र हि ‘निर्यवमती’त्यादौ अनया ङीब् न स्यादित्याशङ्क्य, उगित्पदस्य प्रत्ययमात्रबोधकत्वाभावेन समाहितम् ॥ २३ ॥ एतद्घटकेति । एतत्परिभाषोपस्थाप्य-तदादिशब्दस्वरूपप्रयोज्येत्यर्थः । अत एव ‘किमेत्तिङव्यये’त्यादौ प्रातिपदिकविशेष्यकतदन्तविधेर्न निषेधः ; अन्यथा ‘घान्ता- दामुप्रत्यय’ इत्यर्थलाभेन ‘पठतितरामि’त्यादौ सुबाद्यनापत्तिः । भाष्यविरुद्धकल्पनेति । ‘अभ्यासो ह्यानर्थक’ इति ‘अस्तेर्भूः’ इति सूत्रस्थभाष्य- विरोधात्, अभ्यासस्यार्थप्रत्यायकत्वरूप-प्रत्ययत्वस्य असम्भवादित्यर्थः ॥ २३ ॥ अत एव किमेत्तिङेति । इदमुपलक्षणम्— तिङ्डतिङ इत्यस्य, तेन तत्र पदविशेष्यक- तदन्तविधेर्न निषेधः । ‘किमेत्तिङ’ इत्यादौ तु न दोषः, अस्तु अप्रत्ययादेव प्रत्ययः, तिङश्चे’- त्यादौ प्रातिपदिकाधिकारबाधः क्लृप्त एव । न च ‘पठतितराम्’ इत्यादौ विशिष्टस्य तद्धितान्त- तदादित्वभावेन प्रातिपदिकसंज्ञाभावात् सुबनापत्त्या विशिष्टस्य पदत्वाभावेन द्वित्वाना- पत्तिः, तरादित्येतन्मात्रस्य च प्रातिपदिकसंज्ञायां सुबुत्पत्तौ तन्मात्रस्य द्वित्वापत्तिश्चेति वाच्यम् ; तरादित्येतन्मात्रस्य चार्थवत्त्वाभावेन प्रातिपदिकसंज्ञाया अप्राप्तेः । विशिष्टस्य च अर्थ- वदधातुः’ इत्यनेन प्रातिपदिकसंज्ञायां दोषाभावात् । समासग्रहणकृतनियमस्तु न ; उत्तरखण्डस्य स्वातन्त्र्येण प्रयोगानर्हत्वात् । न च विशिष्टस्य अव्ययसंज्ञाभावे सुलोपानापत्तिरिति वाच्यम् ; यद्विषये तदन्तविधिरद्वयस्वीकारेण तद्धितान्तान्तेत्यर्थकरणेनादोषात् । सुबाद्यनापत्तिरिति । चिन्त्यमिदमिति अनुपदमेवोक्तम् । १४
१०६ परिभाषेन्दुशेखरः [ १ प्रकरणे- प्रत्ययग्रहणे चापञ्चम्याः ॥ २४ ॥ —: ❀ :— यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते, तत्र तदन्तविधिर्नेत्यर्थः । यथा ‘रदाभ्यां निष्ठातो न’ इत्यत्र, तेन ‘दृषत्तीर्णे’त्यादौ प्रत्ययग्रहणे चापञ्चम्याः । अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नपञ्चम्यन्तपदप्रयोज्य- प्रकारतानिरूपित-विशेष्यताप्रयोजकं यत्प्रत्ययमात्रवृत्ति-विषयताप्रयोजकं पदं तत्तदादि- शब्दस्वरूपं विशेष्यमादाय स्वन्निष्ठचरमावयवतानिरूपकसमुदायवृत्तिविषयताप्रयोजकं न भवतीति तदर्थः, तेन ‘ह्रस्वनद्याप’ इत्यत्र आमादिपदे न तदन्तविधिः । यत्रेति । शास्त्र इत्यर्थः । पञ्चम्यन्तात्पर इति । अव्यवहितपरत्वसम्बन्धाव- च्छिन्नप्रकारतानिरूपितविशेष्यताप्रयोजक इत्यर्थः । प्रत्ययः=प्रत्ययबोधकं पदमि- त्यर्थः । तत्र = शास्त्रे, तेन पदेनेति शेषः । एतेन प्रत्ययसंज्ञकस्य पञ्चम्यन्तात्परत्वा- भावेन प्रत्ययबोधकस्याम इत्यादेरनुवर्तमानस्य पञ्चम्यन्तात्परत्वाभावेन चेदमयुक्त- मित्यपास्तम् । तेन पदेन तदन्तविधिर्नेत्युक्त्या च ह्रस्वपदे तदादिविशेष्यकतदन्त- विधिर्निषेधो न । कार्यान्तरविधानायेति । यत्तु—अत्र मिश्रैः प्रत्ययेतरकार्यविधानायेत्यर्थः, तेन ‘किमेत्तिङव्यये’त्यत्र घान्तादित्यर्थलाभ इत्युक्तम् । तन्न; विशेष्यान्तरासत्त्व एव तदादिशब्दस्वरूपविशेष्यकतदन्तविधिरित्यर्थस्य पूर्वमुक्तत्वेनात्र प्रातिपदिकविशेष्यक- तदन्तविधेः सत्त्वेन परिभाषाविषयस्याभावात् । मिश्रोक्तरीत्याऽत्र प्रकृतपरिभाषाया प्रवृत्त्यभावे ‘भवति पाचकतर’ इत्यत्र भवतीति तिङन्तात्पर-पाचकतरेति घान्ततदादेः रामुप्रवृत्त्यापत्तेश्च । मम तु प्रकृतपरिभाषाया तदादेरित्यस्योपस्थित्या तिङन्ततदादे- र्घनिरूपिततदाद्यभिन्नस्यैव ग्रहणेनादोषः । अशब्दादा
२४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १०७ धातुंतकारस्य न नत्वम्। तदन्तेऽर्थशस्यानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफदान्तात्परस्य निष्ठातस्येत्यर्थ इति न दोषः; तदंशानुपस्थितौ माना- भावात्। तदन्तांशोपस्थितौ तूभयोरेकविषयत्वमेव स्यादिति ‘दृषत्तीर्ण’ इत्यादौ दोषः स्यादेव। ‘स्यतासी ल्लुटोर्’त्यादौ ल्लुटोः परयोरित्यर्थे नियमेनावधि-
इत्यादौ ऋतशब्दादाचारक्विबन्तात्कर्तरि क्विपि निष्पन्नऋतशब्दस्य देवशब्देन समासे गुणे ‘देवर्त’ इत्यत्र चान्त्यतकारे ‘रदाभ्याम्’त्यस्य प्राप्तौः सत्त्वेन न तद्विकारत्वा- भावाद् ‘अनन्त्यविकार’ इति परिभाषाया अप्रवृत्तेः, प्रकृतसूत्रस्थभाष्यप्रामाण्यादेतद्विषये ‘निर्दिश्यमान’परिभाषाया अप्रवृत्तेश्च। तत्र हि भाष्ये ‘चर
साकाङ्क्षत्वेन उपस्थितधातोरित्यस्यावधित्वेनान्वयान्न तदन्तविधिः । 'ङ्याब्भ्य' इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात् । अङ्गसंज्ञासूत्रे तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव । अत एव 'उत्तमैकाभ्यामि'त्यादिनिर्देशाः सङ्गच्छन्ते ॥ २४ ॥ त्वात्ताभ्यां प्रातिपदिकादित्यस्याऽऽक्षेपे तस्य ङ्याब्-विशेषणत्वेन प्रकृतपरिभाषया तदन्तविध्यभावे ङ्यन्तादित्याद्यर्थासम्भवोऽत आह—ङ्याब्भ्य इति । नियतावध्याकाङ्- क्षायाः = उत्थिताकाङ्क्षायाः । पञ्चम्यन्तस्य = आक्षिप्तप्रातिपदिकादित्यस्य । प्रत्ययविशे- षणत्वाभावात् = प्रत्ययबोधक-ङ्याब्निरूपितविशेषणत्वाभावात्, तेन 'अस्य स्त्री, ई' इत्यादौ सुलोपसिद्धिः । न