परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 138, कुल 373 में से
संदर्भ में पढ़ेंसाकाङ्क्षत्वेन उपस्थितधातोरित्यस्यावधित्वेनान्वयान्न तदन्तविधिः । 'ङ्याब्भ्य' इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात् । अङ्गसंज्ञासूत्रे तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव । अत एव 'उत्तमैकाभ्यामि'त्यादिनिर्देशाः सङ्गच्छन्ते ॥ २४ ॥ त्वात्ताभ्यां प्रातिपदिकादित्यस्याऽऽक्षेपे तस्य ङ्याब्-विशेषणत्वेन प्रकृतपरिभाषया तदन्तविध्यभावे ङ्यन्तादित्याद्यर्थासम्भवोऽत आह—ङ्याब्भ्य इति । नियतावध्याकाङ्- क्षायाः = उत्थिताकाङ्क्षायाः । पञ्चम्यन्तस्य = आक्षिप्तप्रातिपदिकादित्यस्य । प्रत्ययविशे- षणत्वाभावात् = प्रत्ययबोधक-ङ्याब्निरूपितविशेषणत्वाभावात्, तेन 'अस्य स्त्री, ई' इत्यादौ सुलोपसिद्धिः । न