परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 139, कुल 373 में से
संदर्भ में पढ़ें२५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १०९ नन्वेवं 'कुमारी ब्राह्मणिरूपे'त्यादौ 'घरूपे'ति ह्रस्वापत्तिरत आह— उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् ॥ २५ ॥ —: o :— 'हृदयस्य हल्लेखयदण् लासेष्वि'त्यत्र लेखग्रहणात्। तत्र लेखेति न घजन्त- कुमारी ब्राह्मणीरूपेति। ननु कोऽयं समासः—बहुव्रीहिः, कर्मधारयः, षष्ठीतत्पुरुषो वा? नाद्यौ; कुमारीशब्दस्य भाषितपुंस्कत्वेन पुंवत्त्वापत्तेः। नान्त्यः; घसंज्ञायां नदीतरे प्रतिषेधो वक्तव्यो 'नद्यास्तरा नदीतरे'त्यत्र घसंज्ञायां 'घरूपे'ति ह्रस्वमाशङ्क्य, 'नैतदस्ति प्रयोजनं समानाधिकरण इति वर्तत' इति भाष्यस्वारस्येन 'घरूपे'ति ह्रस्वस्य समानाधिकरणे उत्तरपद एव प्रवृत्त्याऽत्र तदप्राप्तेरिति चेन्न। 'कुमारी ब्राह्मणिरूपे'ति विग्रहे पुंवद्भावं बाधित्वा परत्वाद् ह्रस्वापत्तेरित्याशयात्, वयोवाच- कानामपि पाक्षिकजातिवाचकत्वेन 'जातेश्चे'ति निषेधात् पुंवद्भावाप्राप्त्या बहुव्रीहि- समासस्यापि वक्तुं शक्यत्वाच्च। उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्। उत्तरपदं विशेष्यमादाय प्राप्ततदन्त- विधेरेवेयं निषेधिका। लेखग्रहणादिति। ननु लेखग्रहणसत्त्वे तदन्तविधौ लेखान्ते कुमारी ब्राह्मणीरूपेतीति। न च 'घरूपकल्पचेलड्ब्रुवगोत्रमहितेषु ङ्योऽनेकाचो' ह्रस्वः इति सूत्रे प्रथमोपात्तं घप्रत्ययमपहाय रूपप्रत्ययेऽवतरणदानमयुक्तम्, प्रथमोपात्तस्य त्यागे मानाभावादिति वाच्यम्; घांशे दूषणस्य अवतार्थमाणापनोद्यत्वाभावात्, श्रावणप्रत्यक्षविषयता- वच्छेदकधर्मेण साक्षादवच्छिन्नमुख्यविशेष्यताप्रयोजक एव प्रकृतपरिभाषाप्रवृत्तेर्वक्ष्यमाणत्वात्। यत्तु—शेखरे एतन्निषेधसामर्थ्यात् प्रदेशेष्वपि न तदन्तविधिरित्युक्तम्। तन्न; उत्तर- ग्रन्थपर्यालोचनया एतत्पाठस्य प्रक्षिप्तत्वात्। अत एव 'न च ज्ञापितेऽपि व्यर्थम्, पदप्रदेशे 'प्रत्ययग्रहणे यस्मादि'ति परिभाषया तदन्तग्रहणेनैव सिद्धेः' इत्यादिशङ्कासमाधानग्रन्थः सङ्गच्छते। न चैवं घांशे तदन्तविधिर्दुर्वार एवेति वाच्यम्; उत्तरपदाधिकारे प्रत्ययस्य विशेष्यत्वमेवे'ति तात्पर्यपर्यवसानेन घादेरपि विशेष्यत्वस्य वक्तव्यत्वात्; अन्यथा साहित्यानुपपत्त्या द्वन्द्वानुपपत्तेः। ननु 'घरूपे'ति सूत्रस्य 'घादिषु परेषु' इत्यर्थस्य सत्त्वेन परशब्दस्य नित्यसाकाङ्क्षतया 'कस्मात् पर' इत्याकाङ्क्षायां 'ङ्यन्तात्परो यो घादिस्तस्मिन् परे ङ्यन्तस्य ह्रस्वो भवती'त्यर्थ इति 'स्यतासी ल्लुटोः' इतिवदत्रापि पूर्वपरिभाषयैव सिद्धेऽलमनया परिभाषयेति चेन्न। पूर्व- परिभाषया तदादिविशेष्यकतदन्तविधेरेव निषेधेन अस्या आवश्यकत्वात्। पूर्वपरिभाषया सामान्यत- स्तदन्तविधिर्निषिद्ध्यत इति तु वक्तुमशक्यम्; 'रात्रेः कृतिविभाषा' इत्यादौ उत्तरपदविशेष्यक- तदन्तविधेरपि तया निषेधप्रसक्तेः। अनया तु निषेधो न भवतीत्यनुपदमेवोक्तमिति दिक्। पाक्षिकजातिवाचकत्वेनेति। 'युवजानिः, युवतितरा' इत्युभयविधभाष्योदाहरणात् आकृतिग्रहणा जातिः, यावद्द्रव्यभावित्वमिति लक्षणद्वयाद् वयोवाचकानां जातिकार्यस्य वैक- ल्पिकत्वस्वीकारात्।