परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 135, कुल 373 में से
संदर्भ में पढ़ें२३-२४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १०५ ‘उगितश्चे’ति सूत्रे भाष्ये । इयमङ्गसंज्ञासूत्रे भाष्ये स्पष्टा ॥ २३ ॥ ‘येन विधिरि’ति सूत्रे भाष्य एतद्घटकतदन्तांशस्यापवादः पठ्यते— चेन्न । प्रत्ययमात्रग्रहण इत्यनेन प्रत्ययबोधकत्वविशिष्ट-प्रातिपदिकाबोधक एव प्रवृत्ति- बोधनेन प्रकृतसन्पदस्य प्रातिपदिकाबोधकत्वेन परिभाषाप्रवृत्तेः सुवचत्वात् । केचित्तु—प्रत्ययमात्रग्रहण इत्यत्र प्रत्ययपदं प्रत्ययनिष्ठोद्देश्यता निरूपितविधे- यताश्रय-प्रत्ययैतदन्यतरपरम्, तेन ‘प्रतीषिषती’त्यत्र उत्तरखण्डरूपस्य सनोऽप्रत्यय- त्वेऽपि प्रत्ययनिष्ठोद्देश्यता निरूपितविधेयताश्रयत्वेन तद्बोधकस्य सन्पदस्योक्तप्रत्ययमात्र- बोधकत्वेन दोषाभाव इति वदन्ति । वस्तुतस्तु—प्रतिपदोक्तत्वात् पूर्वं दीर्घे ह्रस्वप्रवृत्तेः स्वीकारेण हन्साहचर्याद् अभ्यासानवयवस्यैवाचो ग्रहणेन च ‘प्रतीषिषती’त्यत्र दोषवारणसम्भवेन शेखरोक्ता भाष्यविरुद्धकल्पना व्यर्था । किं चात्र ‘सन्यत’ इतीत्वानापत्तिः, ‘प्रतीषिषे’त्यत्र अप्रत्यया- दित्यस्याप्रवृत्त्यापत्तिश्च । उगितश्चेतीति । तत्र हि ‘निर्यवमती’त्यादौ अनया ङीब् न स्यादित्याशङ्क्य, उगित्पदस्य प्रत्ययमात्रबोधकत्वाभावेन समाहितम् ॥ २३ ॥ एतद्घटकेति । एतत्परिभाषोपस्थाप्य-तदादिशब्दस्वरूपप्रयोज्येत्यर्थः । अत एव ‘किमेत्तिङव्यये’त्यादौ प्रातिपदिकविशेष्यकतदन्तविधेर्न निषेधः ; अन्यथा ‘घान्ता- दामुप्रत्यय’ इत्यर्थलाभेन ‘पठतितरामि’त्यादौ सुबाद्यनापत्तिः । भाष्यविरुद्धकल्पनेति । ‘अभ्यासो ह्यानर्थक’ इति ‘अस्तेर्भूः’ इति सूत्रस्थभाष्य- विरोधात्, अभ्यासस्यार्थप्रत्यायकत्वरूप-प्रत्ययत्वस्य असम्भवादित्यर्थः ॥ २३ ॥ अत एव किमेत्तिङेति । इदमुपलक्षणम्— तिङ्डतिङ इत्यस्य, तेन तत्र पदविशेष्यक- तदन्तविधेर्न निषेधः । ‘किमेत्तिङ’ इत्यादौ तु न दोषः, अस्तु अप्रत्ययादेव प्रत्ययः, तिङश्चे’- त्यादौ प्रातिपदिकाधिकारबाधः क्लृप्त एव । न च ‘पठतितराम्’ इत्यादौ विशिष्टस्य तद्धितान्त- तदादित्वभावेन प्रातिपदिकसंज्ञाभावात् सुबनापत्त्या विशिष्टस्य पदत्वाभावेन द्वित्वाना- पत्तिः, तरादित्येतन्मात्रस्य च प्रातिपदिकसंज्ञायां सुबुत्पत्तौ तन्मात्रस्य द्वित्वापत्तिश्चेति वाच्यम् ; तरादित्येतन्मात्रस्य चार्थवत्त्वाभावेन प्रातिपदिकसंज्ञाया अप्राप्तेः । विशिष्टस्य च अर्थ- वदधातुः’ इत्यनेन प्रातिपदिकसंज्ञायां दोषाभावात् । समासग्रहणकृतनियमस्तु न ; उत्तरखण्डस्य स्वातन्त्र्येण प्रयोगानर्हत्वात् । न च विशिष्टस्य अव्ययसंज्ञाभावे सुलोपानापत्तिरिति वाच्यम् ; यद्विषये तदन्तविधिरद्वयस्वीकारेण तद्धितान्तान्तेत्यर्थकरणेनादोषात् । सुबाद्यनापत्तिरिति । चिन्त्यमिदमिति अनुपदमेवोक्तम् । १४