परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 147, कुल 373 में से
संदर्भ में पढ़ें२६-२७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ११७ सम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्री- प्रत्ययास्त्रीप्रत्ययग्रहणे । ध्वनितं चेदमर्थवत्सूत्रे भाष्ये । इयं च वाचनिक्येव । ‘ष्यङः’ इति सूत्रे भाष्ये स्पष्टा ॥ २६ ॥ नन्वेवं ‘तरप्तमौ घ’ इत्यादिना तरबन्तादेः संज्ञा स्यादत आह— विस्तरस्तु नन्वेवमपि ‘अतिखट्वाये’त्यत्रत्य-शब्देन्दुशेखरटिप्पणे द्रष्टव्यः । वाचनिक्येवेति । भाष्ये वचनरूपेण पठिता, न तु ज्ञापकमुपन्यस्तमित्यर्थः । अस्यां ज्ञापकन्तु ‘यस्मात्प्रत्ययविधिस्तदादे’रिति विभक्तयोगे ‘नेयङुवङि’त्यतोऽस्त्रीत्यस्य अनुवृत्त्या प्रसज्यप्रतिषेधात्प्रधानन्यायेन प्रधानेऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेति अस्त्रीति निषेधवचनमेवेति दिक् ॥ २६ ॥ परिभाषाफलम्