भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 154, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 154

१२४ परिभाषेन्दुशेखरः [ १ प्रकरणे- पदाङ्गाधिकारे तस्य च तदन्तस्य च ॥ २९ ॥ —: ० :— पदमङ्गं च विशेष्यं विशेषणेन च तदन्तविधिः । 'येन विधि'रित्य- स्यायं प्रपञ्चः, तेन 'इष्टकचितम्, पक्वेष्टकचितमि'त्यादौ 'इष्टकेषीका- मालानां चिते'ति 'ह्रस्वो, महान्, परममहान्, परमातिमहानि'त्यादौ 'सान्तमहत' इति दीर्घश्च सिद्धः । अत एव तदुत्तरपदस्येति पाठोऽयुक्त इति भाष्ये स्पष्टम् । अत्र पदशब्देन उत्तरपदाधिकारः, केवलपदाधिकारश्च । 'पादस्य पदाज्याती'त्यत्र न तदन्तग्रहणम्, लक्ष्यानुरोधादिति सर्वं 'येन विधि'रित्यत्र भाष्ये स्पष्टम् ॥ २९ ॥ नन्वेवम् 'अस्यापत्यमिरि'त्यादौ अदन्तप्रातिपदिकाभावादिञ् न स्यादत आह— इति फलम्, सामान्यग्रहणे 'कर्तृकरणे' इति सूत्रेण 'नखनिर्भिन्न' इत्यत्र समास- सिद्धिः फलं बोध्यमित्यन्यत्र विस्तरः ॥ २८ ॥ पदमङ्गं च विशेष्यमिति । एतयोः पदयोर्विशेष्यत्वमेवेति तात्पर्यग्राहिका परि- भाषेयमिति भावः । पदपदं पदघटितपरम्, तेन 'इष्टके'त्यादौ पदघटितस्य पूर्वपदस्य विशेष्यत्वात्तदन्तविधिना 'पक्वेष्टकचितमि'त्यत्र ह्रस्वसिद्धिः । अत एवेति । 'परमा- तिमहानि'त्यत्र दीर्घप्रवृत्तेरेवेत्यर्थः । केवलपदाधिकारश्चेति । तेन 'परमानडुद्भ्यामि'त्यस्य सिद्धिरित्यन्यत्र विस्तरः ॥ २९ ॥ अदन्तप्रातिपदिकाभावादिति । अयम्भावः—स्वघटकत्व-स्वघटकपूर्वत्वाभाववत्त्व- स्वघटकोत्तरत्वैतत्त्रितयसम्बन्धेन स्वविशिष्टत्वं स्वनिरूपितान्तत्वम्, एवं स्वघटकत्व- मूले—कृद्कृद्ग्रहण इतीति । तेन 'प्रधासः, प्रजुगुप्सति' इत्यादौ तदादिनियमेन समुदायस्य ञिदन्त-निदन्ततदादित्वाभावेन प्रघटकाकारस्य 'ञ्नित्यादेरि'त्यादिना नोदात्तत्वम् । 'बहुसुरागिणी' इत्यत्र 'इनः स्त्रियामि'ति कन् च न । 'हरिभक्तिः, सुभक्तिरि'त्यादौ च भकारा- कारस्यैव स्वर इति बोध्यम् । मूले—भाष्ये स्पष्टमिति । तत्र तदन्तविधिप्रयोजनकथनावसरे "कुम्भकारी, नगरकारी' इत्यत्र विशिष्टाद्यथा स्याद्वयवान्मा भूदिति नैतदस्ति प्रयोजनम् । कृद्ग्रहणपरिभाष- याऽप्येतत्सिद्ध्यति, न सिद्ध्यति कृद्ग्रहणं इत्युच्यते । न चैतत् कृद्ग्रहणं कृत्कृद्ग्रहणमेतत्, कृदप्यण् तद्धितोऽपि" इत्युक्तम् ॥ २८ ॥ पाणिनिमतमाह—अयं भाव इत्यादिना सूत्रयाञ्चकारेत्यन्तेन । अत्रेदं तत्त्वम्—