परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 155, कुल 373 में से
संदर्भ में पढ़ें२९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १२५ स्वघटकोत्तरत्वाभाववत्त्व-स्वघटकपूर्वत्वैतत्त्रितयसम्बन्धेन स्वविशिष्टत्वं स्वादित्व- मित्याद्यन्तपदार्थयोः स्वीकरणीयतया 'इरि'त्यादौ अदन्तप्रातिपदिकत्वाभावात्प्रत्ययादि- त्वाभावाच्चेञ्स्वराद्यनापत्तिरित्यभिप्रेत्य सूत्रकार 'आद्यन्तवदेकस्मिन्नि'ति सूत्रयाञ्चकार । वार्तिककारस्तु—आद्यन्तपदार्थयोः पूर्वत्व-परत्वे अनिवेश्य 'इरि'त्यादावाद्यन्ततयोरास्येन निर्वहि 'आद्यन्तवदि'ति सूत्रं प्रत्याचख्यौ 'अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेक- स्मिन्नि'ति वार्तिकनिरूपणेन । आदित्वा-ऽन्तत्वे सूत्रकारमते समुदायघटक-यत्किञ्चिन्निरूपित-पूर्वत्वपरत्वयोः सत्त्वे एव 'भवत, इत्याभ्यामि'त्यादौ केवलाकारे तदसम्भवात्तदर्थमाद्यन्तवत्सूत्रारम्भः, 'इयाय' इत्यादौ केवले इधातौ एकाजघटितत्वं स्वत एवेति सूत्रकृतस्तात्पर्यम् । घटकत्वञ्च सूत्रकृन्मते-स्वनिष्ठविषयित्वसम्बन्धा- वच्छिन्नव्याप्यतान्निरूपितविषयित्वसम्बन्धावच्छिन्नव्यापकताश्रयत्वम् । एवं स्वनिष्ठविषयित्व- सम्बन्धावच्छिन्नव्यापकतानिरूपित-विषयित्वसम्बन्धावच्छिन्नव्याप्यताश्रयत्वं घटितत्वम् । स्वपदेन च यन्निरूपिते घटकत्व-घटितत्वे चिकीर्षिते तस्य ग्रहणम्, स्वाधिकरणवृत्त्यत्यन्ताभावाप्रति- योगित्वं व्यापकत्वम् । स्वाभावाधिकरणनिरूपितवृत्तित्वाभाववत्त्वं व्याप्यत्वम् । व्यापकत्व- लक्षणे स्वपदेन व्याप्यो ग्राह्यः, व्याप्यत्वलक्षणे च स्वपदेन व्यापकस्य ग्रहणम् । येन सम्बन्धेन वृत्तित्ता स सम्बन्धो व्याप्यतावच्छेदकः, अधिकरणता च यत्सम्बन्धावच्छिन्ना स व्यापकतावच्छेदक- सम्बन्धः । विषयी = ज्ञानम्, विषयः = पदार्थः, स च विषयित्वसम्बन्धेन ज्ञाने इति विषयित्व- सम्बन्धोऽवच्छेदकः । एवञ्च विषयित्वसम्बन्धेन रेफाभावाधिकरणं 'पटः' इत्याकारकं ज्ञानम्, तन्निरूपितवृत्तित्वं पटे, अवृत्तित्वं रामशब्दे इति लक्षणसमन्वयः । स्वं रामशब्दः, विषयिता- सम्बन्धेन तदधिकरणं 'रामः' इति ज्ञानम्, तद्वृत्त्यत्यन्ताभावो 'घटो नास्ति, पटो नास्ती'त्या- कारको घटपटाद्यत्यन्ताभावः, तत्प्रतियोगित्वं घटपटादौ, अप्रतियोगित्वं रेफे इति लक्षणसमन्वयः । एवमसहायेऽपि स्वस्मिन् स्वनिरूपितव्याप्यत्वव्यापकत्वयोः सत्त्वेन घटकत्व-घटितत्वेऽतिदेशमन्तरैव सिद्धेः, परं स्वघटकोत्तरत्व-स्वघटकपूर्वत्वयोरभावेन अन्तत्वादित्वयोरतिदेशाय सूत्रारम्भः । वार्तिककारमतेऽपि सूत्रकृदुक्ते एव घटकत्व-घटितत्वलक्षणे परमादित्वान्तत्वलक्षणे च भिन्ने ; तदाह-वार्तिककारस्त्विति । एतन्मते आदित्वान्तत्वयोः समुदायघटकयत्किञ्चिन्निरूपित- पूर्वत्वोत्तरत्वयोः अनपेक्षतया 'आभ्यामि'त्यादौ एकस्मिन्नपि स्वस्मिन् स्वव्याप्यत्व-स्वव्यापकत्वयोः सत्त्वेन स्वघटकत्वेन स्वघटकावधिकपूर्वत्वाभावात् स्वघटकावधिकोत्तरत्वाभावाच्चादित्वान्तत्वयोः सिद्धौ तदर्थं कृतं सूत्रमप्रयोजकमिति तात्पर्यम् । अत्र सूत्रकारमते स्वघटकावधिकोत्तरत्वादेरतिदेशः, भाष्यकारमते स्वघटकत्वस्य ; अन्यसम्बन्धस्तु मुख्य एव । वार्तिककृन्मते सर्वेषामनतिदेशत्वमेवेति सूक्ष्मदर्शिभिरवगन्तव्यम् । एवं वार्तिककृन्मते एकस्मिन्नपि मध्यमत्वं स्वत एव । मध्यमत्वञ्च तन्मते-समुदायविशिष्टत्वम् ; वै०-स्वघटकत्व-स्वविशिष्टभिन्नत्व-स्वविशिष्टभिन्नत्वैतत्त्रितयसम्बन्धेन । सम्बन्धघटकप्रथमवै०- स्वघटकावधिकपूर्वत्व-स्वघटकावधिकोत्तरत्वाभाववत्त्वोभयसम्बन्धेन । द्वितीयवै०-स्वघटकावधि- कोत्तरत्व-स्वघटकावधिकपूर्वत्वाभाववत्त्वोभयसम्बन्धेन । लक्षणसमन्वयः स्वयमूहनीयः । फला- भावाच्च न विचारितमिदं व्याख्याकृतैति बोध्यम् ।