परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 156, कुल 373 में से
संदर्भ में पढ़ें१२६ परिभाषेन्दुशेखरः [ १ प्रकरणे- व्यपदेशिवदेकस्मिन् ॥ ३० ॥ -: ० :- निमित्तसद्भावाद्द्विशिष्टोपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी । भाष्यकारस्तु — 'इरि'त्यादौ कथञ्चिन्निर्वाहेऽपि 'धुगि'त्यादावसहाये घटकत्वस्य कथमप्यसम्भवेन सूत्र-वार्तिककारयोः स्थूलदर्शित्वमुपदर्शयन् सामान्यतः परिभाषया दोषनिकरं निराकुर्वन्नाह — व्यपदेशिवदिति । आद्यन्तलक्षणे तु वार्तिककृदुक्ते एव भाष्यकृदभिमते । नन्वेवमादित्वस्वीकारे कुम्भशब्दे ककारमकाररूपवर्णद्वयस्यादित्वापत्त्या एकहलादित्वाभावेन 'उदकुम्भ' इत्यादौ 'एकहलादा'वित्युदादेशानापत्तिः। भवति च ककारमकाररूपवर्णद्वयस्य, स्वं कुम्भशब्द- स्तद्घटकत्वं स्वघटकोत्तरत्वाभाववत्त्वञ्चेत्युभयसम्बन्धेन कुम्भशब्दविशिष्टत्वमिति चेन्न । स्वघटकविशिष्टसंख्याभाववत्त्वरूप-तृतीयसम्बन्धस्याद्यन्ततयोर्लक्षणे निवेशेना- दोषात् । वैशिष्ट्यञ्च संख्यायाम्—स्वपूर्ववृत्तित्व-स्वोत्तरवृत्तित्वोभयसम्बन्धेन, तेन ककारमकारयोर्निरुक्तोभयसम्बन्धेन उकारविशिष्टद्वित्वसंख्यावत्त्वेन तत्त्वाभावान्न दोषः। एवमन्तत्वलक्षणेऽप्यूहनीयम् । न च 'धुगि'त्यादौ घटकत्वस्यापि लोकत एव सिद्धेः परिभाषा व्यर्था, न वा सूत्र-वार्तिककारयोः स्थूलदर्शित्वमिति वाच्यम् ; घटकत्वस्य स्वव्यापकत्व- स्वव्याप्यत्वाभाववत्त्वोभयसम्बन्धेन । स्वविशिष्टत्वरूपतया स्वस्मिन् स्वव्यापक- त्वेऽपि स्वव्याप्यत्वाभावरूपद्वितीयसम्बन्धाभावेन स्वस्य स्वघटकत्वासम्भवात् । व्याप्य-व्यापकभावश्च विषयतासम्बन्धेन ज्ञानरूपमधिकरणमादाय बोध्यः। एवं घटितत्वमपि विषयितासम्बन्धेन स्वव्याप्यत्व-स्वव्यापकत्वाभाववत्त्वोभयसम्बन्धेन स्वविशिष्टत्वरूपं बोध्यम् । न च 'येन विधिरि'त्यत्र 'स्वस्य चे'त्युक्तेरस्यान्यपि तेनैव सिद्धेरवतरणासङ्गतिरिति वाच्यम् ; 'स्वस्य चे'त्यस्यैतत्परिभाषामूलकत्वेनावतरणकाले तदज्ञानेन तत्सङ्गतेः सुवचत्वादित्यन्यत्र विस्तरः। एकस्मिन् = असहाये । निमित्तसद्भावात् = वर्णसमभिव्याहाररूपसहायसत्त्वात् । विशिष्टोपदेशः = मुख्यो व्यवहारः, तद्विशिष्टेन तुल्यं कार्यं कर्तव्यमिति शेषः; भाष्यमतमाह — भाष्यकारस्त्विति । अत्र मते आदित्व-मध्यमत्व-ऽन्तत्वलक्षणानि वार्तिककृन्मतोक्तान्येव ; परं घटकत्व-घटितत्वलक्षणे भिन्ने एव । तन्मतेऽसहाये घटकत्व-घटि- तत्त्वे न स्तः । तथा च 'इरि'त्यादौ सूत्रकृन्मते निर्वाहेऽपि 'इयाये'त्यादौ एकाज्घटितत्वव्यवहारो न स्यादित्येतदर्थं परिभाषाया आवश्यकत्वेन तयैव 'आभ्यामि'त्यादावपि सिद्धौ व्यापकत्वात् परिभाषैवाऽऽश्रिता भाष्यकारेण । युक्त