भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 157, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 157

३० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १८७ यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशोऽसहायः स तेन तुल्यं वर्तते, कार्यं प्रतीत्येकस्मिन्नसहायेऽपि तत्कार्यं कर्तव्यमित्यर्थः । तेनाकारस्यापि अपदन्तत्वान्न क्षतिः । एकस्मिन्नित्युक्ते सभासन्नयनेन आकारस्य नादित्वं दरिद्राधाता- विकारस्य नान्तत्वम् । अन्यथा सभासन्नयने ‘भव’ इत्यर्थे ‘वृद्धाच्छः’ दरि- द्रातेरिवर्णान्त लक्षणोऽण् च स्यात् । अत एव ‘हरिष्वि’त्यादौ सोः पदत्वं न, लोकेऽपि बहुपुत्रसत्त्वे नैकस्मिन् ज्येष्ठ-कनिष्ठत्वादि-व्यवहारः—‘अयं मे ज्येष्ठः, कनिष्ठो, मध्यम’ इति, किं त्वेकपुत्रसत्त्व एव । अनेन चाशास्त्रीयस्याप्यतिदेशः । अत एव ‘इयाये’त्यादौ एकाच्त्व- 'तेन तुल्यमि'ति वतिः । वस्तुतस्तु—व्यपदेशिवदिति 'तत्र तस्येवे'ति सप्तम्यन्ताद्वतिः । असहायत्वञ्च—मुख्यधर्मवद्वघटितत्वम्, मुख्यधर्मवदघटकत्वम्, मुख्यधर्मवद- समभिव्याहृतत्वं चेति त्रितयरूपं बोध्यम् । मुख्यधर्मश्चारोप्यमाणो धर्मः । तथा च सभासन्नयनशब्दे भासन्नयनवृत्तिवृद्धत्वम्, भासन्नयनशब्दस्य समर्थप्रातिपदि- कत्वम्, सम्शब्दे वृद्धित्वस्यानातिदेशेन साभासन्नयनशब्दस्य वृद्धत्वं च नेति त्रयाणां क्रमेण फलानि बोध्यानि । एवं दरिद्राधातावपि त्रयाणां फलान्येकत्र बोध्यानि । किन्त्वेकपुत्रसत्त्वे एवेति । बहुपुत्रसत्त्वे तस्य ससहायत्वादिति भावः । अनेनास्य न्यायस्य लौकिककत्वं सूचितम् ; स्पष्टं चेदं भाष्येऽपि । अत एव = अस्य न्यायस्य लौकिकत्वेनाशास्त्रीयधर्मातिदेशे प्रवृत्तेरेव । वद्भावोऽप्रातिपदिकेनेत्यस्य सूत्रोपात्तान्तादिविषयकत्वाद् ‘रोणी’त्यत्र केवलेऽण्प्रकृतिमात्र- फलकस्य स्वस्य चेत्यस्य ‘व्यपदेशिवदेकस्मिन्नि’त्येतदनतिरिक्तया एतदवतरणत्वे तदवतरणत्वानति- रेकात् । नागेशमते च तत्र ‘पूर्णादिनिः, सपूर्वाच्चे’त्येकयोग एव कर्तव्ये पृथग्योगकरणमस्यां ज्ञापकमित्युक्तम् । सूत्रोपात्तान्तादिविषयत्वे तु तत्रान्तादिपदाभावादङ्गिग्राहकमानविरोधः स्फुट एव । ततश्च व्यपदेशिवद्भावस्यानया निषेधे रोण्यथं स्वस्य चेत्यस्याप्रवृत्त्वे प्रकृते तेनैव सिद्धौ ‘अग्रदनि’ति प्रकृतपरिभाषायाः फलं बोध्यम् । तत्राग्रान्तशुद्धेत्यादिना दत्रादेशो न स्यादिति बोध्यम् । यद्वा—स्वस्य चेत्यस्यापूर्वत्वे सिद्धे 'उत्सर्गसमानदेशा अपवादाः' इति न्यायेन व्यपदेशि- वद्भावोऽप्रातिपदिकेनेत्यस्य गृह्यमाणे प्रातिपदिके एव प्रवृत्त्या तत्प्रतिप्रसवस्यास्य अपूर्वस्य स्वस्य चेत्यस्यापि तादृशस्थले एव प्रवृत्तेः सिद्धतया 'अत इञ्' इत्यत्र च आनुपूर्व्यंवच्छिन्नविषयताप्रयोजके- त्यर्थकगृह्यमाणप्रातिपदिकत्वाभावात् तस्याप्राप्तौ प्रकृतपरिभाषयैव अस्यापत्यमित्यत्र इञ् विधेय इति तन्मतेनापि तस्यावतरणत्वं युक्तमिति बोध्यम् । तृतीयान्ताद्वतिस्वीकारे 'आद्यन्तवद्दि'ति सूत्रस्थशेखरग्रन्थविरोधः स्यादत आह—वस्तु- तस्त्विति । अशास्त्रीयधर्मेति । शास्त्रीयत्वञ्च—शास्त्रसङ्केतितावच्छेदकधर्मत्वम् । अच्त्वस्य अन्तत्वादित्वयोश्च तथात्वेऽपि एकाच्त्वस्यातथात्वेन अशास्त्रीयस्याप्यनयाऽतिदेशः सिद्धयति ।