परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 161, कुल 373 में से
संदर्भ में पढ़ें३० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३१ घटक-‘क’पुत्रोत्पत्त्युत्तरकालिकोत्पत्तिकत्वेन अन्त्यसम्बन्धसत्त्वेऽपि ‘एकसत्त्वेऽपि द्वयं नास्ती’ति रीत्या उभयसम्बन्धावच्छिन्नप्रतियोगिताकाऽऽद्यस्वाभाववत्त्वम्, एवं स्वघटक- ‘ग’पुत्रोत्पत्तिपूर्वकालिकोत्पत्तिकत्वेन तदभावरूपैतत्सम्वन्धाभावेन अपरसम्वन्धसत्त्वेऽपि उभयसम्बन्धावच्छिन्नप्रतियोगिताकद्वितीयस्वाभाववत्त्वं स्वघटकत्वञ्चेति सम्बन्ध- त्रयेण पुत्रसमुदायविशिष्टत्वात् मध्यमपुत्रत्वलक्षणसमन्वयः । एकपुत्रसत्त्वे तु स्वाभाववत्त्व- रूपसम्बन्धद्वयस्य विद्यमानतया केवलस्वघटकत्वमात्राऽतिदेशेन मध्यमत्वव्यवहारोऽपि सूपपद्यत इति दिक् ॥ ३० ॥ ‘धुगि’त्यादौ धात्ववयवत्ववद्दकारघटितत्वेन ससहायत्वादतिदेशानापत्तिश्चेति केषाञ्चिद् दत्ता [