परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 160, कुल 373 में से
संदर्भ में पढ़ें१३० | परिभाषेन्दुशेखरः | [ १ प्रकरणे-
पत्तेः, ‘भू-धुगि’त्यादौ दुह् शब्दस्य मुख्यधर्मवद्-भूधात्ववयवसभिव्याहृतत्वेन मुख्य- धर्मवद्कारादिघटितत्वेन च ‘दुह्’ इत्यस्य असहायत्वाभावाद् धात्ववयवत्वानतिदेशेन भष्भावानापत्तेश्च। मम त्वेतत्सर्वमाञ्जस्येनैवोपपद्यते। न च घटकत्व-घटितत्वमात्राति- देशे एकपुत्रसत्त्वे ‘अयं मे ज्येष्ठ’ इत्यादिव्यवहारो न स्यादिति वाच्यम्; घटकत्व- घटितत्वमात्रातिदेशेनेव ज्येष्ठत्वादिव्यवहारस्य सूपपादत्वात्। स्वज्येष्ठपुत्रत्वञ्च--स्वपुत्रसमुदायविशिष्टत्वम्। वैशिष्ट्यञ्च-स्वघटकत्व-स्वघटको- त्पत्त्युत्तरकालिकोत्पत्तित्वाभाववत्त्वोभयसम्बन्धेन। एवं कनिष्ठपुत्रत्वम्--स्वपुत्र- समुदायविशिष्टत्वम्। वैशिष्ट्यञ्च--स्वघटकत्व-स्वघटकोत्पत्तिपूर्वकालिकोत्पत्तिकत्वा- भाववत्त्वोभयसम्बन्धेन। लक्षणसमन्वयस्तु स्वयमूहनीयः। मध्यमत्वञ्च--स्वाभाव- वत्त्व-स्वाभाववत्त्व-स्वघटकत्वैतत्त्रितयसम्बन्धेन निरुक्तपुत्रसमुदायविशिष्टत्वम्। आद्ये अभावीयप्रतियोगितावच्छेदकसम्बन्धौ च—स्वघटकोत्पत्तिपूर्वकालिकोत्पत्ति- कत्व-स्वघटकोत्पत्त्युत्तरकालिकोत्पत्तिकत्वाभाववत्त्वोभयरूपौ। द्वितीये तु तौ—स्व- घटकोत्पत्त्युत्तरकालिकोत्पत्तिकत्व - स्वघटकोत्पत्तिपूर्वकालिकोत्पत्तिकत्वाभाववत्त्वोभय- रूपौ। यत्र ‘क-ख-ग’नामानस्त्रयः पुत्रा देवदत्तस्य, तत्र ‘ख’पुत्रे निरुक्तपुत्रसमुदाय- क्रियमाणमज्ग्रहणमनया परिभाषया तत्राप्यजव्यवहितपूर्वत्वातिदेशे व्यर्थमेव स्यादित्यरुचेराह— भू-धुगित्यादाविति। भष्भावानापत्तेश्चेति। अत्र नागेशानुयायिनः—‘धुगि’त्यत्र झष्निष्ठचरमावयवतानिहू- पकत्वसमानाधिकरणझष्निष्ठावयवतानिरूपकत्वसमानाधिकरणं यद्धातुत्वं तस्य मुख्यधर्मत्वेन विव- क्षितत्वात्। तादृशधर्मवत्त्वस्य च ‘दुह्’ इत्यत्र कस्मिंश्चदप्यवयवेऽभावेन समुदायस्यासहायत्वात्। ‘भू धुगि’त्यत्र दोषदानमप्यनुचितम्, असहायपदार्थे, समभिव्याहारस्य ‘हे राम, ऐः कृतमि’त्यत्र मुख्यधर्मादन्तत्ववद्रामशब्दसमभिव्याहृतत्वात् असहायत्वाभावेन अदन्तत्वानतिदेशेन ऐसोऽनापत्ति- वारणार्थं नियतपौर्वापर्यरूपत्वस्य स्वीकारावश्यकत्वात्। एवञ्च रामशब्दे जराशब्दत्वातिदेशो न ; जराग्रहणवैयर्थ्यापत्तेः। ‘हे निर्जर, रामाय’ इत्यत्र तु न चारितार्थ्यम्; नियतपौर्वापर्याभावात्, मुखप्रविष्टस्य च तत्र सिद्धत्वाभावाच्चेति वदन्ति। तन्न समीचीनम्; राजन्शब्देऽन्नन्तमघवन्- शब्दत्वातिदेशेन रेफस्य सम्प्रसारणापत्तेः। न चानया सूत्रस्थैकपदप्रतिपाद्यस्यैवातिदेश इति वाच्यम्; ‘धुगि’त्यत्र शुद्धधात्ववयवत्वस्य सूत्रस्थैकपदप्रतिपाद्यत्वेऽपि आरोपनापत्तेः, ससहायत्वात् झष्निष्ठचरमावयवता निरूपकेत्यादिप्रागुक्तधर्मस्य सूत्रस्थैकपदप्रतिपाद्यत्वाभावाच्च अतिदेशाना- पत्तेः। किञ्च ‘भवती’त्यत्र भूशब्दे तदादित्वस्यैकपदप्रतिपाद्यत्वेऽपि ससहायत्वात् आरोपानापत्तिः, शब्व्यवहितपूर्वत्वसमानाधिकरणातदादित्वारोपे असहायत्वेऽपि तस्य सूत्रस्थैकपदप्रतिपाद्यत्वाभावेन तदारोपानापत्तेः, धातौ धातुभेदस्यौरोपापत्तेश्च। यत्तु अत्र विजयाकाराः—स्वविशिष्टे स्वस्यातिदेश इति परिभाषार्थः। वैशिष्ट्यञ्च—स्वाश्रया- घटकत्व-स्वाश्रयासामभिव्याहृतत्व-स्वाश्रयाघटितत्व-स्वमुखप्रविष्टधर्मवत्त्वैतच्चतुष्टयसम्बन्धेन । मुखप्रविष्टत्वञ्च-स्वघटकनिष्ठावयवत्वव्याप्यधर्मविच्छिन्नविशेष्यता निरूपित-प्रकारतावच्छेदकत्वम्, तेन रामशब्दे न जरात्वातिदेशः। न च धातौ धातुभिन्नत्वातिदेशः; ‘धुगि’त्यत्र च तादात्म्येन धात्ववयवस्यैव अतिदेशः सिद्ध्यति। एतेन—इकारादौ अजब्यवहितपूर्वत्वदेशेन यणापत्तिः,