परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 159, कुल 373 में से
संदर्भ में पढ़ें३० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १२९ 'अर्थवता व्यपदेशिवद्भाव' इत्यत्रार्थवत्पदेनापि असहायत्वमुपलक्ष्यते, अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभ्यत इति तदर्थः। प्रायो- ऽसहाय एवार्थवत्त्वात् । 'कुरुते' इत्यादौ 'तशब्दाकारोऽचामन्त्य' इति व्यवहारे 'स आदि- र्यंस्ये'ति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धि- रित्यन्यत्र विस्तरः ॥ ३० ॥ अन्यत्र विस्तर इति । उद्योतादावित्यर्थः। वस्तुतस्तु—अनया परिभाषया स्वस्मिन् स्वघटकत्व-स्वघटितत्वे एवातिदिश्येते। एकस्मिन् घटकत्वव्यवहारप्रयोजकी- भूतस्वव्यःपकत्वरूपैकसम्बन्धवति एवं घटितत्वव्यवहारप्रयोजकीभूत-स्वव्याप्यत्व- रूपैकसम्बन्धवति च व्यपदेशिवत् घटकत्व-घटितत्वव्यवहारप्रयोजकीभूत-तत्त- दुभयसम्बन्धरूपवैशिष्ट्यवतीव कार्यं घटकत्व-घटितत्वव्यवहाररूपं भवतीत्यर्थः। अत एव 'निजौ चत्वार एकाच' इति भाष्यं स्वरसत उपपद्यते। नागेशोक्तं तु पूर्वोक्तं सर्वमयुक्तमेव, रामशब्दस्यासहायत्वेन जराशब्दत्वादेशापत्तेः। न च स्वस्मिन् स्वमुखप्रविष्टधर्मस्यैव अनेनातिदेशः, यथा अशब्दे—स्वम् अशब्दो मुखे प्रविष्टो यस्यैवंभूतस्य अकारान्तत्वाकारादित्वधर्मस्यैव अतिदेशो न जराशब्दत्वादेः, एवं 'धुगि'त्यादिधातौ धातवयवत्वादैरतिदेश इति न काऽप्यनुपपत्तिरिति वाच्यम्; एकस्मिन्पुत्रे ज्येष्ठत्वाद्यतिदेशानापत्तेः, कुम्भशब्दादि-ककाररूपहलि हल्द्वयघटितत्वा- तिदेशेन विशिष्टस्यैकहलादित्वानापत्तेः, केवलॡकारे अजव्यवहितपूर्वत्वापत्त्या यणाद्या- मूलकृदभिमतं परिभाषार्थं खण्डयन्नाह—वस्तुतस्त्वनयेति। अत्रार्थे प्रमाणन्तु वक्ष्यमाणं “निजौ चत्वार” इति भाष्यमेव; तदाह—भाष्यं स्वरसत उपपद्यत इति। एतन्मते 'एकस्मिन्नि'त्यस्य असहाये इत्यर्थभावेन परिभाषाप्रवृत्तिः सुकरा। तथा चानया परिभाषया इकारमात्रे स्वघटितत्वातिदेशेनैकाच्त्वात् “निजौ चत्वार एकाच” इति न भाष्यासङ्गतिः। त्वन्मते एकदेश्युक्तिवकल्पने गौरवमिति भावः । यस्यैवंभूतस्येति । आरोप्यमाणो यो मुख्यधर्मस्तन्मुखप्रविष्टधर्मोऽत्वादिरूपस्तद्वत्तवस्य तत्र स्वतःसिद्धत्वे एवानया परिभाषयाऽऽरोपो भवतीति यावत् । ज्येष्ठत्वाद्यतिदेशानापत्ते- रिति। ननु तत्रापि मुख्यधर्ममुखप्रविष्टधर्मस्य पितृनिष्ठजनकता निरूपित-जन्यताश्रयत्वरूपस्य स्वतःसिद्धतया तद्घटितस्य ज्येष्ठत्वस्यातिदेशः सुलभ इत्यरुचेराह—कुम्भशब्दादिति । एकहलादित्वानापत्तेरिति । तथा सति 'उदकुम्भ' इत्यादौ उदादेशानापत्तिः, लोकसिद्धया अनया परिभाषया अशास्त्रीयेऽपि कार्ये प्रवृत्तेरिति भावः। एतेन एकहलादित्वानापत्तिरित्यापत्ति- दानमयुक्तम्, कार्यप्रवृत्तये एव तत्प्रवृत्तेरित्युक्तं कैश्चित् परास्तम् । अत्र केचित्—सूत्रस्थैकपदप्रतिपाद्यस्यैव धर्मस्यानया अतिदेशो भवतीति स्वीकुर्वन्ति, तेन केवलॡकारेऽजव्यवहितपूर्वत्वातिदेशेन यणापत्तिरपि न; अन्यथा 'दधि, मधु' इत्यादौ व्यावृत्तये १७