परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 168, कुल 373 में से
संदर्भ में पढ़ें१३८ परिभाषेन्दुशेखरः [ १ प्रकरणे- तदन्तविधेरपवाद इयम् । वाचनिक्येषा येन विधिरित्यत्र भाष्ये ऽके पदे यो विधिः स तदलादौ बोद्धव्यः । वाचनिक्येवेति । भाष्ये वचनरूपेणैवेषा पठिता, न तु ज्ञापकमुपन्यस्तमिति भावः । अत्र ज्ञापकं तु 'नल्प्यपी'ति सूत्रम् ; अन्यथा 'प्रदाये'- त्यादौ हलन्तविङत्प्रत्ययपरत्वाभावेन ईत्वाप्राप्त्या सूत्रवैयर्थ्यं स्पष्टमेव । न च 'प्रदाय- च्छत्त्रमि'त्यादौ तुकि तत्संभवः, न च तुको बहिरङ्गासिद्धत्वम्, 'नाजानन्तर्य' इति निषेधादिति वाच्यम् ; 'आतो लोप इटि चे'त्यादावपि 'अजन्ताधं धातुक' इत्यर्थेन तुकः पूर्वमेव लोपप्रवृत्त्या ईत्वस्य प्राप्त्यभावेन तद्वैयर्थ्यस्य सूपपादत्वात् । केचित्तु—'रथवदयोश्चे'ति सूत्रमस्यां ज्ञा