परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 169, कुल 373 में से
संदर्भ में पढ़ें३३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३९ पठिता । अस्याश्च स्वरूपसतो सप्तमी निमित्तम् । अत एव 'नेड्-वशि- कृती'त्यादौ वशादेः कृत इत्याद्यर्थलाभः । इयं च 'आर्धधातुकस्येडि'ति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् स्वरूपसती सप्तमीति । न तु तदर्थो विवक्षित इति भावः । आदिग्रहणसामर्थ्यादिति । इदं च न्यायसिद्धार्थानुवादकम्, 'येन विधिरि'ति सूत्रस्य समानाधिकरणे विशेषण एव प्रवृत्त्याऽर्थाधिकारानुरोधात् 'उत्सर्गसमानदेशा०, इति न्यायेन चास्या अपि समानाधिकरणविशेषण एव प्रवृत्त्या सामानाधिकरण्यस्य समानविभक्तिकत्व एव संभवादिति भावः । केचित्तु – 'आर्धधातुके वलो'ति न्यासेन सिद्धे आदिग्रहणं व्यर्थमेवेति वदन्ति । अत्र सदृशलाक्षणिकत्वेन गौणत्वात् गौणमुख्यन्यायेन 'त्रौ च' इत्यस्याप्रवृत्तेः । आचष्टेऽर्थे णिचि तदन्तात् क्विपि तुकि त्रौ चे'त्यस्य चारितार्थ्यमिति तु न भ्रमितव्यम् ; णिचः स्थानिवत्त्वेन तुको- ऽप्राप्तेः । 'क्वौ विधिं प्रति न स्थानिवत्' इत्यस्य तु क्विपमुच्चार्य विहितं प्रति न स्थानिवदित्यर्थ- स्वीकारेणात्र तुकि तस्यानुच्चारणेन तद्वचनस्याप्राप्तेः । 'क्वौ लुप्तमि'त्यस्य तु 'स्रुघ्नः, गोमान्' पदस्त्वञ्च क्वौ लुप्तस्य निदर्शनमि'ति वचनात्परिगणितेष्वेव प्रवृत्तेरत्र तदप्राप्तेः । न चान्यपदार्थं विशेष्यीकृत्य त्रिशब्दस्य यशब्देन सह समासे ततो णिचि क्विचि अल्लोप-यलोपयोः कृतयोः 'त्रि' इत्यस्यामवस्थायां ततः पदद्वित्वे णिचि क्विपि टिलोपे 'त्रित्र्' इति जाते 'कत्रित्र्' इत्यत्र कदा- देशाय 'त्रौ चे'त्यस्य चारितार्थ्यमिति वाच्यम् ; न पदान्ताः परेणाऽणः सन्तीति तादृशानामनभि- धानात् । न च त्रिशब्दाण्णिचि ततः 'एरचि' इति वृद्धौ 'त्राय' इति जाते पुनर्णिचि क्विपि अल्लोप- यलोपयोः 'त्रा' इति जाते, ततो णिचि क्विपि 'प्रकृत्येकाजि'ति प्रकृतिभावे आदन्तत्वात् पुकि 'त्राप्' इति जाते 'कुत्सिता+स्त्राप् कत्त्राप्' इत्यत्र अजन्तोत्तरपदत्वाभावेन तेन कदादेशाप्राप्त्या तत्रादेशाय 'त्रौ चे'त्यस्य चारिवार्थ्यमिति वाच्यम् ; द्वितीयणिचः स्थानिवत्त्वेन तृतीयणिन्निमित्तक- पुकोऽप्राप्त्या अदोषात् । न चात्र द्वितीयणिन्निमित्तक एव पुक् कस्मान्न भवतीति वाच्यम् ; अल्लोपस्य स्थानिवत्त्वात् बहिर्भूतक्विब्निमित्तकयलोपस्य बहिरङ्गत्वेनासिद्धत्वाच्चेति वदन्ति । तन्न सम्यक् ; तस्यैव 'त्रा'शब्दस्य ऋशब्देन सह समासे 'ऋत्यक' इत्यनेन ह्रस्वसमुच्चिते प्रकृति- भावे ततो णिचि टिलोपे क्विपि णिलोपे च 'त्र' इति जाते ततो वृद्धौ पुकि च 'त्रा' इति जाते 'कत्त्राप्' इत्यत्र 'त्रौ चे'त्यस्य चारितार्थ्यसम्भवेन परिभाषाज्ञापकत्वासम्भवात् । पुकि टिलोपस्य स्थानिवद्भावस्तु न ऋ इति पदे परतः पूर्वस्य त्रेत्यस्य कार्यविधानेन 'न पदान्तेति' तन्निषेधात्, वृद्धेः प्राक् टिलोप-णिलोपयोः सत्त्वाद्दचः पूर्वत्वेन दृष्टत्वाभावाच्च । अचः पूर्वत्वेन दृष्टत्वं यथा स्थानिवद्भावेन नायाति, तथाऽन्यत्र प्रपञ्चितमिति दिक् । व्यर्थमेवेतीति । न चोभयोः सप्तम्यन्तत्वकरणे प्रकृतेरिट् स्यादिति वाच्यम् ; निषेधस्य प्राप्तिपूर्वकत्वात् 'नेड्वशीकृति०' इति प्रत्ययस्थेण्निषेधार्थकशास्त्रस्य चारितार्थ्याभावेन तत्सामर्थ्यादार्धधातुके इति षष्ठ्यर्थे सप्तमीं स्वीकृत्य 'आर्धधातुकस्येडि'त्यर्थकरणेन अदोषात् ।