भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 170, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 170

विशेष्य-विशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते, तेन ‘ङः सि धुट्’त्यादौ सादेः पदस्येति नार्थः । ‘तीषसह, सेसिची’त्यादौ यथा तादेरित्याद्यर्थलाभस्तथा शब्देन्दु- शेखरे निरूपितम् ॥ ३३ ॥ अन्ये तु—'तस्मिन्नि'ति परिभाषया सप्तमीनिर्देशस्य निरवकाशत्वाद् वलाद्यार्ध- धातुकाव्यवहितपूर्वस्येडागमापत्त्या नैतद्युक्तमिति प्राहुः । नार्थ इति । समानाधिकरणविशेषणाभावात्, असंभवाच्च सान्तस्य पदस्येत्यपि नार्थं इति भावः । 'दिवस्पृथिव्योरि'त्यत्र तत्सम्भवेऽपि 'नैकमुदाहरणमि'ति न्यायेन सामान्यतः सूत्रस्य वैयर्थ्यमित्याशयः । शब्देन्दुशेखरे निरूपितमिति । तत्र हि तीति प्रथमार्थे सप्तमी, तस्य वलादिपदा- र्थैकदेशे वल्पदार्थेऽभेदेनान्वयः । तथा च 'तकाराभिन्नो यो वल् तदादेरि'त्यर्थं उक्तपरिभाषाप्रवृत्तिं विनाऽपि सिद्ध्यति । एवं 'सेसिची'त्यत्रापि बोध्यम् । वस्तुतः—तीत्यादिसप्तम्याऽव्यवहितपूर्वोपस्थित्या 'तकाराव्यवहितपूर्वेभ्य इषा- दिभ्यः परस्य वलादेरार्धधातुकस्येडि'त्याद्यर्थाश्रयणेनैव इष्टसिद्धिरिति शेखरकारोक्त- प्रयासो व्यर्थ एवेति बोध्यम् । नैतद्युक्तमिति प्राहुरिति । नन्वनुपदोक्तरीत्या युक्तमेवेति वाच्यम् ; 'नेड्बशी'त्यत्रापि द्वयोः सप्तम्यन्तत्वात्तत्रापि षष्ठीप्रकल्पकाभावेन 'आर्धधातुकस्ये'त्यनेन प्रकृतेरिडागमविधानं 'नेड्- वशी'त्यनेन निषेध इति प्राप्ति-निषेधयोः सूपपादत्वेन प्रकृतेरिडागमे महादोषापत्तेः । षष्ठ्यन्तत्वे तु निषेधस्यापि 'उत्सर्गसमानदेशा अपवादाः' इति न्यायेन षष्ठ्यन्तत्वेन विपरिमाणेऽदोषो बोध्यः । समानाधिकरणविशेषणाभावादिति । तत्र समानविभक्तिकत्वस्य तन्त्रत्वादिति भावः । यत्तु—'स्तोकं पचति, मृदु पचति, सोमेन यजेत, प्रकृत्या चारुः' इत्यत्र असमानविभक्ति- कयोरपि सामानाधिकरण्यदर्शनेन विरुद्धविभक्तिकयोरपि सामानाधिकरण्यं भवतीति । तन्न ; 'नीलस्य घटः' इत्यत्रापि भेदान्वयबोधापत्तेः, प्रातिपदिकार्थानुयोगिकाभेदसंसर्गकशाब्दबोधे एव समानविभक्तिकत्वस्य प्रयोजकत्वाङ्गीकारेण 'स्तोकं पचति' इत्यादावदोषाच्च । 'प्रकृत्या चारुः' इत्यत्र तु अभेदप्रकारक एव बोध इति न दोषः । विशेषणविभक्तेरभेदार्थकत्वपक्षेऽपि प्रकृत्यादि- शब्दोत्तरतृतीयातिरिक्ततृतीयायाऽभेदबोधने तृतीयान्तविशेष्यवाचकपदसमभिव्याहारस्य प्रयोज- कत्वाङ्गीकारेण 'प्रकृत्या चारुरि'त्यत्र न दोष इति बोध्यम् । असम्भवाच्च सान्तस्य पदस्येत्यपि नार्थ इति । समानविभक्तिकत्वाभावेऽपि 'ङ' इति पञ्चम्या सौति सप्तम्यन्तस्य षष्ठीप्रकल्पकतया समानाधिकरणविशेषणभावात् 'येन विधिरि'त्यस्य प्राप्तेः । 'असम्भवादि'ति हेतुकथनं न युक्तम् , सम्प्रति निरवकाशतया रुत्वापवा- दकत्वकल्पनेन सूत्रस्य चारितार्थ्यसम्भवात्, 'न लोपः ०' इति सूत्रेऽन्तग्रहणसामर्थ्यात् 'पदस्ये'- त्यधिकारे प्रकारद्वयस्य कॢप्तत्वेन प्रकृते वैयधिकरण्यान्वयेनादोषाच्च ।