परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 172, कुल 373 में से
संदर्भ में पढ़ें१४२ परिभाषेन्दुशेखरः [ १ प्रकरणे- 'घटपटं घटपटावि'त्यादिसिद्धय आह— सर्वो द्वन्द्वो विभाषयैकवद्भवति ॥ ३४ ॥ —: 🌸 :— ‘द्वन्द्वश्च प्राणी'त्यादिप्रकरणाविषयः सर्वो द्वन्द्व इत्यर्थः । 'चार्थे द्वन्द्व' इति सूत्रेण समाहारेतरेतरयोगयोरविशेषेण द्वन्द्वविधानान्न्यायसिद्धेयम् । 'तिष्यपुनर्वस्वोरि'ति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम् । तद्धीदं ‘तिष्यपुनर्वस्वि’त्यत्र तद्द्व्यावृत्त्यर्थम् । न चैवमप्यत्र 'जातिरप्राणिनामि'ति नित्यैकवद्भावेन बहुवचनाभावा- दिदं सूत्रं व्यर्थमिति वाच्यम् ; तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात् । न चैते घटपटं घटपटावित्यादिसिद्धय इति । न च नवीनमते उद्भूतावयवभेदविवक्षाया- मितरेतरयोगद्वन्द्वेन तिरोहितावयवभेदविवक्षायां समाहारद्वन्द्वेन चोकरूपद्वयं सिद्ध्यतीति वाच्यम् ; सर्वनामातिरिक्तशब्देषु एकत्रोभयविवक्षाया अभावेन रूपद्वयानापत्तेः । अत एवानेकवृक्षतात्पर्येऽपि 'वृक्षा' इति 'वनमि'ति च व्यवस्थयैव प्रयोगो न तु 'वनानि, वृक्ष' इति । 'सर्वो लोकः, सर्वे लोका' इति द्विविधस्यापि लोके प्रयोगात् सर्वनामस्थले उभयविवक्षाऽपि । सर्वो द्वन्द्व इति । इयञ्च परिभाषा द्वन्द्वविषयेऽप्युभयविवक्षायां तात्पर्यग्राहिका । बहुवचनस्येति ग्रहणमिति । द्वन्द्वविषये उद्भूतावयवभेदविवक्षामात्रस्वीकारे सर्वत्र बहुवचन- स्यैव सत्त्वेन तद्ग्रहणं निष्फलम् ; तिरोहितावयवभेदविवक्षामात्रस्वीकारे सर्वत्र एकवचन- स्यैवोत्पत्त्या बहुवचनासंभवात्तद्व्यर्थमिति भावः । तद्वैकल्पिकत्वस्यापीति । जातिप्राधान्ये एकवद्भावो व्यक्तिप्राधान्ये तदभाव विवक्षिते इत्यर्थो न लभ्येत ; प्राग्दीव्यतीयघटकेऽचि विवक्षिते इत्यर्थे तु 'गर्ग्यरूप्यमि'त्यत्रापि दोषः स्यात् । न च प्राग्दीव्यतीयघटकत्वमचः सर्वत्रैवास्तीति सामर्थ्यात् अजादावित्यर्थलाभ इति वाच्यम् ; सामर्थ्यकल्पनापेक्षया अनेकत्रानेकक्लिष्टकल्पनापेक्षया च वरं परिभाषाश्रयणम् । 'येन विधिरि'त्यनेन प्राप्ततदन्तविधिं बाधित्वा वैयधिकरण्यान्वये प्रमाणाभावः, गौरवञ्चेत्यलमवि- स्तरेण ॥ ३३ ॥ पूर्वपरिभाषायां 'तीषसह' इत्यस्य 'ताद्यार्धधातुक' इत्यादिशेखरे निरूपितार्थस्य प्रदर्श- नाय उपन्यस्तत्वात् तत्र समाहारद्वन्द्वैकवद्भावस्य कृतत्वात्प्रसङ्गात् तदेकवद्भावस्य विकल्प- सम्बन्धिविचारणायामाह—घटपटं घटपटाविति । मूले—न्यायसिद्धेयमिति । ननु 'चार्थे द्वन्द्व' इत्यस्य क्वचल्लक्ष्यावच्छेदेन इतरेतरयोगस्य करणेन क्वचिच्च समाहारद्वन्द्वकरणेन च चारितार्थ्ये सम्भवति उभयविवक्षायां मानाभावेन कथं न्यायसिद्धत्वमित्यरुचेराह मूले—तिष्यपुनर्वस्वोरिति ।