परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 190, कुल 373 में से
संदर्भ में पढ़ें१६० परिभाषेन्दुशेखरः [२ प्रकरणे- अन्यथा स्यव्यवधाने नियमाप्रवृत्तौ सामान्यशास्त्रेणोभयसिद्धौ विकल्प- विधानं व्यर्थं स्यात् । अत्रार्थे ज्ञापिते तु स्य इति तत्र विषयसप्तमी बोध्येति ‘अनुदात्तङित’ इत्यत्र भाष्य-कैयटयोः स्पष्टम् । विकरणव्यवधानेऽपि नियमप्रवृत्तेरिदं ज्ञापकमिति ‘शदेः शित’ इत्यत्र भाष्ये ध्वनितम् । वस्तुतः अस्माज् ज्ञापकादनुदात्तङित इत्यादिप्रकरणं तिबादिविध्येक- वाक्यतया विधायकम् । तत्र ‘धातोरे’ति विहितपञ्चमी, तत्समानाधि- करणमनुदात्तङित’ इत्यादि विहितविशेषणमेव । एवञ्च लावस्थायां स्येऽपि तद्व्यवधाने तङ्सिद्धिः । शबादिभ्यस्तु पूर्वमेव नियमः । यद्वा लमात्रापेक्षत्वात् विकरणव्यवधान इति । शदेः शित इत्यत्र भाष्ये ध्वनितमिति । तत्र हि 'न्यविशते'त्यत्र वक्ष्यमाणमूलोक्तरीत्या अटोऽनित्यत्वेन नित्यत्वाद्विकरणे तदन्तस्याटि विश्धातोर्नैः परत्वाभावेन नियमो न प्राप्नोतीत्याशयेन 'उपसर्गनियमोऽड्व्यवाये उपसंख्यानमि'ति वार्तिककृतोक्तम् । तच्चोक्तार्थस्वीकारे एव सङ्गच्छते ; अन्यथाऽनेनाऽड्व्यवधाने 'नेर्विश' इत्यस्य प्रवृत्तिस्वीकारेऽपि विकरणव्यवधानेन तिबादीनां विशः परत्वाभावान्नियमा- प्राप्त्या तदसङ्गतिः स्पष्टैव । ननु 'तिप्-तस्-झी'ति सूत्रेण विहितानामनुदात्तङित इत्यादिनियमे तु जात- प्रत्ययानां निवृत्तिः ; तदनुरोधेन कल्पितप्रकृतीनां निवृत्तिर्भिन्नवाक्यत्वकल्पना चेति दूषणमित्याह—वस्तुत इति । तत्र = तिबादिविधायकसूत्रे । विहितविशेषणस्वीकारा- देव लिट् ‘लुनाती’त्यादौ न तिबाद्यादेशाः । इदं च विहितविशेषणं ‘स्यतासी’ इत्यत्र ‘आयादय’ इत्यत ‘आर्धधातुक’ इत्यनुवृत्त्या लावस्थायामेवान्तरङ्गत्वेन स्यादय इति भाष्यानुरोधेन । वस्तुतस्तु — स्यादिभ्यः परत्वादेव तिबादय इति दिग्योगलक्षणपञ्चम्यामपि न दोषः । न च स्यप्रत्ययो नित्यः ; शब्दान्तरे प्राप्नुवतो विधेरनित्यत्वात् । न च ‘विपराभ्यामि’त्यादीनामनेकपदसापेक्षत्वेन अन्तरङ्गत्वात् स्ये तद्व्यवधाने तिबादि- प्रवृत्त्यर्थं विहितविशेषणमिति वाच्यम् ; विपराभ्यां परत्वयोग्यात् जेरित्यर्थस्य शेखर एव सिद्धान्तितत्वेन तस्यान्तरङ्गत्वाभावात् । पूर्वमेवेति । तद्विधौ कर्त्रर्थसार्वधातुक- परत्वस्यापेक्षणादिति भावः । एकवाक्यतया विधानमिति पक्षे विहितविशेषणाश्रयण- प्रयुक्तं गौरवमत आह — यद्वेति । इदं प्राचामनुरोधेन । तदसङ्गतिः स्पष्टैवेति । एवञ्च अत्र कल्पे ‘तस्मिन्नि’ति परिभाषाया अबाध इति लाघवम् । नन्वेवमपि व्यवधानस्य शरणीकर्तव्यतया ‘तस्मादित्युत्तरस्य’ ‘इत्यस्य’ बाधा इति पूर्वसमत्वमिति चेत् — सत्यम् । अत्र कल्पे विप्रतिषेधशास्त्रस्याबाधात्, परिभाषाश्रयणे तु तद्बाध- कल्पनादिति पूर्वपक्षापेक्षयाऽत्र पक्षे लाघवमिति बोध्यम् ।