परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 191, कुल 373 में से
संदर्भ में पढ़ें४१ पृ० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६१ अन्तरङ्गा आदेशा लकारविशेषापेक्षत्वात् स्यादयो बहिरङ्गा इति दिग्योग- लक्षणपञ्चम्यामपि न दोषः । अत्र पक्षे 'वृद्भ्यः स्ये'ति सूत्रं स्वविषय इति व्याख्येयम् । आत्मनेपदशब्दादौ भाविसंज्ञा आश्रयणीयेति तत्त्वम् । भिन्नवाक्यतया सामान्यशास्त्रविदितानां नियमे तु लुगादिनेव निय- मेन जातनिवृत्तिरङ्गीकार्या । 'भुक्तवन्तं प्रति मा भुङ्क्था इति ब्रूयात् ; किं तेन कृतं स्यादि'ति न्यायस्तु नात्र शास्त्र आश्रयितुं युक्तः, नियमादि- शास्त्राणां वैयर्थ्यापत्तेः । ननु नियमविधानमिति पक्षे लादेशाभावेन परस्मैपदादिसंज्ञाभावात् तद्विधानानु- पपत्तिरत आह—भाविसंज्ञेति । किं तेन कृतं स्यादिति । तथा च वाक्यानर्थक्यमिति भावः । न च बलवदनिष्टा- ननुबन्धित्वविशिष्टेष्टसाधनत्वरूपलिङाद्यर्थस्य नञादिनाऽभावो बोध्यते, तेन तत्सत्त्वे बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावो लिङादिभिर्गम्यते । तथा च 'भुक्त- वन्तमि'त्यत्र 'त्वत्कर्तृकं भोजनं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववदि'ति बोधनस्य सम्भवात् कथं तदानर्थक्यमिति वाच्यम् ; विध्यर्थे लिङो विधानात् प्रवृत्ति- जनकत्वेन तात्पर्यविषयत्वं तदर्थः । नञादिसत्त्वे च निवृत्तिजनकत्वेन तात्पर्यविष- यत्वं भासते । तथा च कृतभोजने निवृत्त्यप्रयोजकत्वेन तन्नैरर्थक्यस्य स्पष्टत्वात् । नात्र शास्त्र इति । वस्तुतस्तु—एतच्छास्त्रे तदाश्रयणेऽपि न दोषः, शास्त्रे प्रवृत्ते- र्ज्ञानरूपतया तिबादिशास्त्रेण जनितस्य 'इदं साध्वि'ति ज्ञानस्य नियमशास्त्रेण निवृत्ति- तद्विधानानुपपत्तिरिति । एकवाक्यताकरणे 'लस्य स्थाने आत्मनेपदं भवति' इत्यर्थः स्यात्, स चानुपपन्नः ; तदानीमात्मनेपदज्ञानाभावात् । तज्ज्ञानञ्च 'तङानावात्मनेपदम्' इत्येत- ज्ज्ञानाधीनम् । तज्ज्ञानञ्च लस्थानिकत्वापेक्षणेन 'तिप्-तस्-झी'त्यादिवाक्यार्थनिश्चयानन्तरमित्य- न्योन्याश्रयेण विधानानुपपत्तिरिति भावः । अथ 'तङानावि'त्यस्य 'तङानौ आत्मनेपदसंज्ञौ स्तः' इत्येवास्त्वर्थः, मास्तु लस्थानिकौ तङानावेति वाच्यम् ; शाननः चानशश्च प्राप्तात्मनेपदसंज्ञावारणार्थं तस्याऽऽवश्यकत्वात् । किञ्च अस्याः परस्मैपदसंज्ञापवादकत्वेन 'उत्सर्गसमानदेशा' इति न्यायेन तस्यापि लस्थानिकत्वस्य आवश्यकत्वात् । ननु 'अनुदात्तङित आत्मनेपदम्' इत्यादीनां नियमार्थत्वात् अनुदात्तेङ्ङिद्धातोरेवाऽऽत्मने- पदमिति नियमात् अन्येभ्यः परस्मैपदे सिद्धे तद्विधानार्थं कृतस्य शेषात्कर्तरि परस्मैपदम्' इति सूत्रस्य वैयर्थ्यमिति चेत्—सत्यम् । अनुदात्तेङ्ङिद्धातोः सामान्यशास्त्रतः प्राप्तपरस्मैपदवारणार्थं तस्याऽऽवश्यकत्वात् । कृते तु तस्मिन् शेषादेव परस्मैपदमिति नियमात् अनुदात्तेदादीनां धातूनां शेषत्वाभावात् परस्मैपदाप्राप्तेरदोषात् । न च 'वृद्भ्यः स्यसनोः' इति सूत्रस्य नियमार्थत्वेन उभयं भवति तर्हि एषामेवेति नियमेन अन्येषामुभयपदव्यावृत्तेरदोष इति वाच्यम् ; नियमस्य सजातीया- २१