परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 192, कुल 373 में से
संदर्भ में पढ़ें१६२ परिभाषेन्दुशेखरः [ २ प्रकरणे- ध्वनितं चेदं 'स्थानेऽन्तरतम' इति सूत्रे भाष्ये । शास्त्रानर्थक्यन्तु वृद्धिसंज्ञासूत्रे तिरस्कृतम् । सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्थकैयट- रीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृतिकल्पनया कार्या, प्रत्यय- निवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र विस्तरः ॥ ४१ ॥ परान्नित्यं बलवत् ॥ ४२ ॥ — : ० : — कृताकृतप्रसङ्गित्वात् । तत्र अक्लृप्ताभावकस्य अभावकल्पनापेक्षया सम्भवात् । निवृत्तिश्च तज्ज्ञानधर्मिकभ्रमत्वप्रकारकज्ञानरूपा । तत्साधुत्वे पुण्यजनकता- वच्छेदकत्वाभावप्रकारकज्ञानरूपा वा । पूर्वशास्त्रेण तादृशसाधुत्वबोधनस्य फलन्तु साधुष्वेव शास्त्रं प्रवर्तते इति नियमानुसारेण उत्तरशास्त्रप्रवृत्तये तदीयोद्देश्यतावच्छे- दकसम्पादनमेव, तेन भाष्यीय-गगर्यादिशब्देषु न शास्त्रप्रवृत्तिरिति दिक् । ध्वनितमिति । तत्र हि तस्य सूत्रस्य जातानामान्तरतमादेशानां निवर्तकत्व- मुक्तम् ॥ ४१ ॥ परान्नित्यं बलवत् । 'नित्यं परशास्त्रावधिकबलवत्, कृताकृतप्रसङ्गित्वादित्यनुमान- प्रयोगः । ननु उत्सर्गबहिरङ्गयोर्नित्यत्वेऽपि तदपेक्षयाऽनित्यापवादान्तरङ्गयोर्बलवत्त्वेन हेतोर्व्यभिचार इति चेन्न । साध्यदलीयपरपदार्थे अन्तरङ्गापवादभिन्नत्वरूपविशेषण- दानेनादोषात् । न चैवमपि अनित्यपरशास्त्रस्यैव 'विप्रतिषेध' इति शास्त्रेण प्राबल्य- बोधनाद्धेतोर्बाधितत्वमिति वाच्यम् ; अनेन नित्यस्य प्राबल्यबोधनेन विप्रतिषेधाभावात् तत्सूत्राप्राप्त्या बाधासम्भवात् । न च श्रुतत्वाद्धिप्रतिषेधसूत्रसहकृतेन पूर्वानुभावेन पूर्वं- मनित्यपरशास्त्रस्य बलवत्त्वे प्रमाणनिश्चिते बाधितत्वादेतस्य अनुमानस्यासम्भव इति वाच्यम् ; विप्रतिषेध इत्येतच्छब्दोच्चारणसामर्थ्यादेव पूर्वमेतत्प्रवृत्तेर्ज्ञापनेनादोषात् । 'परानित्यमि'त्यत्र परपदमनित्यपरम्, तेन अनित्यपूर्वशास्त्रस्य नित्यशास्त्रावधिक- परत्वाभावेऽपि तद्बाधकत्वं नित्यपरशास्त्रस्य सिद्धयति । अत एव च 'परत्वान्नित्यत्वा- च्चे'ति भाष्यादिग्रन्थाः सङ्गच्छन्ते । अत्र हेतुदले त्रैपादिकभिन्नत्वे सतीति निवेशनीयम्, तेन नित्यत्रैपादिकस्य सापादिकाऽनित्यापेक्षया बलवत्त्वविरहेऽपि न क्षतिः । एवं 'पूर्वात् परं बलवदि'ति पूर्वोक्तानुमानेऽपि पूर्वपदार्थे नित्यान्तरङ्गापवादभिन्नत्वं हेतुदले त्रैपा- दिकभिन्नत्वं च निवेशनीयमित्यन्यत्र विस्तरः । ननु पक्षतावच्छेदकस्यैव हेतुत्वेन अन्वयदृष्टान्ताभावेन हेतोरप्रयोजकत्वशङ्का तदवस्थैवेत्यत आह—तत्राक्लृप्तेति । बाधद्वयकल्पनापेक्षया एकस्य बाधस्य कल्पने पेक्षतया समुच्चितोभयपदव्यावृत्तेरपि एकपदस्य प्राप्तस्य व्यावत्याभावात् । अनुदात्तेङिद्धातो- रात्मनेपदमेवेति नियमेन सिद्धेरेतत्सूत्रं व्यर्थमिति तु वक्तुमशक्यम् ; आत्मनेपदनिमित्तहीनाद् धातोरुभयपदप्राप्तेः ॥ ४१ ॥