परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 205, कुल 373 में से
संदर्भ में पढ़ें५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १७५ यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् 'पञ्चे'त्यत्र न षडिति निषेध इति । तच्चिन्त्यम् ; नलोपस्य हि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम् । परे तु—स्वप्रवृत्तौ निमित्तताप्रयोजकेन केनचिदेकेन पदेनाऽऽश्रीयमाणसमुदाय- विशिष्टो यच्छास्त्रीयसप्तम्यन्तपञ्चम्यन्तान्यतरपदेनाऽऽश्रीयते तत् स्वापेक्षयाऽन्तरङ्गम् ; वैशिष्ट्यञ्च—स्वघटकत्व-स्वघटकोत्तरत्वोभयसम्बन्धेन । 'यायावरो यातिरि'त्यत्र बहिरङ्गशास्त्रीयपदेन आश्रीयमाणो 'वर' इति 'ति' इति च, तद्वैशिष्ट्यं वकारस्य तकारस्य वा नास्तीति नान्तरङ्गत्वं वलिलोपस्य । एवं 'क्नोपयती'त्यत्र पुक् न केनापि निमित्तताप्रयोजकपदेनाऽऽश्रीयते, यश्चाऽऽश्रीयते आदन्तो न तद्घटकत्वं पुको विधा- नात् प्रागिति न दोषः । 'विश्वौह' इत्यत्र तथाभूतो ण्विः, स गुणशास्त्रीयसप्तम्यन्तपदेन गृह्यत इति गुणस्यान्तरङ्गत्वम् । एवम् 'अमुष्नुवदि'त्यादावपि इदमेवान्तरङ्गत्वम् । 'स्योन' इत्यत्र पूर्वपक्षे ऊन इति समुदायस्तथा, तद्घटकत्वं तद्घटकोत्तरत्वं नशब्द- स्येति स नशब्दो गुणशास्त्रीयसप्तम्यन्तेन गृह्यत इति गुणस्यान्तरङ्गत्वम् । यणस्तु न तथान्तरङ्गत्वम्, गुणशास्त्रीयाङ्गपदेन गृह्यमाणः 'सिऊ' इति समुदायस्तद्वैशिष्ट्यं यद्य- प्यूठोऽस्ति ; तथापि यणशास्त्रीयसप्तम्यन्तेन स न विवक्षितः, किन्तु 'ऊन' इति समु- दायः । सिद्धान्ते तु 'ऊ' इत्येवाच्पदेन विवक्षित इति यणोन्तरङ्गत्वं सिद्धम् । यद्वा—अन्तरङ्गत्वलक्षणे स्वघटकोत्तरत्वमनिवेश्य तादृशसमुदायघटको यच्छास्त्रीय- सप्तम्यन्तपदविशिष्टस्तदन्तरङ्गमिति वाच्यम् । वैशिष्ट्यञ्च—स्वप्रयोज्यविषयता- श्रयत्व-स्वप्रयोज्यविषयताश्रयघटकावधिकपूर्वत्वाभाववत्त्वोभयसम्बन्धेन । 'स्योन' इत्यत्र ऊठ् यण्शास्त्रीयसप्तम्यन्तपदप्रयोज्यविषयताश्रयोनशब्दघटकनशब्दावधिकपूर्व इति न यणोन्तरङ्गत्वम्, 'यायावर' इत्यत्र नाजानन्तर्ये इति द्वितीयार्थेन सिद्धम् । अथवा अस्मिन्नपि लक्षणे पूर्वोक्तसम्बन्धद्वयेन तादृशसमुदायविशिष्टो यच्छास्त्रीयेत्यादिवक्तव्य- मिति वलिलोप इति निषेधो निष्फल एवेति प्राहुः । षट्संज्ञायामसिद्धत्वादिति । बहिरङ्गपरिभाषयेत्यर्थः । न च परिभाषाया अप्रवृत्ता- वपि संज्ञापदेनाविशेषात् षट्संज्ञाया अपि नलोपेति सूत्रे ग्रहणेन तत्र कर्तव्यायां नलोपस्यासिद्धत्वं भवेदिति वाच्यम् ; 'नलोपः सुप्स्वरै'ति सूत्रे संज्ञापदेन घिसंज्ञाया एव ग्रहणात् । अत्र मानं च तत्सूत्रस्थं भाष्यमेव । तथा हि—"संज्ञाविधौ किमुदा- हरम् ? 'दण्डिदत्तो, दसदण्डिनौ' । नात्र घित्वाद्दण्डिन एव पूर्वनिपातः । ननु च यदा घित्वं तदा पूर्वनिपातः, यदा पूर्वनिपातस्तदा नलोपे घित्वमितीदमयुक्तम् । संज्ञा- ग्रहणसामर्थ्येन यस्य पूर्वपदत्वे घित्वं भावि तस्य पूर्वनिपातः" इत्युक्तम् । यदि 'पञ्चे'त्यत्र स्त्रीप्रत्ययाभावाय संज्ञाग्रहणस्य चारितार्थ्यम्, तदा संज्ञाग्रहणसामर्थ्योप- पादनं भाष्योक्तमसङ्गतं स्यात् । एतदर्थफलं 'धूलिहावि'ति । एतेन—'इकोऽची'त्यत्र अज्ग्रहणस्य 'हे वारिषु शय' इत्यत्र गुरुसंज्ञायां नलोपस्या- सिद्धत्वेन प्लुतः स्यादिति चारितार्थ्यमित्यपास्तम् ; अज्ग्रहणज्ञापकतापरभाष्यस्यापि अत्रार्थे ज्ञापकत्वस्य सुवचत्वात् ।