भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 210, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 210

१८० | परिभाषेन्दुशेखरः | [ २ प्रकरणे-

केचित्तु — 'रियति, असुसुवदि'त्यादौ लघूपधगुणादन्तरङ्गत्वादियङादिसिद्धिः । 'अयजे इन्द्रमि'त्यादौ सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणः । 'ग्रामणिनी कुले' इत्यत्र नुमं बाधित्वाऽन्तरङ्गत्वात् ह्रस्वः । 'रुद्यादि'त्यादौ प्रकृतिप्रत्ययापेक्षाडीद्भ्यां प्रागन्तरङ्गत्वात् यासुट् । 'कश्च अश्च ईशश्चे'ति द्वन्द्वे नित्यमपि गुणं बाधित्वा अन्तरङ्गत्वात् सवर्णदीर्घे 'केशा' इति रूपसिद्धिः, अन्यथा 'कैशा' इति स्यादिति सम- कालप्राप्तिकबहिरङ्गासिद्धत्वस्योदाहरणान्याहुः । तन्न ; 'रियति, असुस्रुवदि'त्यादौ सत्यपि गुणे तस्य जातबहिरङ्गत्वेनासिद्धतया इकारादिबुद्ध्या इयङादिसिद्धे- र्निष्प्रत्यूहत्वात् । यत्तु —'येन नाव्यवधानमि'ति न्यायेन पुगन्तसा