परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 211, कुल 373 में से
संदर्भ में पढ़ेंव्रश्चादिषु पदसंस्कारपक्षे समानकालत्वमेव द्वयोरिति बोध्यम् । एतेन अन्तरङ्गं बहिरङ्गाद् बलीय इति परिभाषान्तरमित्यपास्तम् ; एनामाश्रित्य विप्रतिषेधसूत्रे भाष्ये तस्याः प्रत्याख्यानाच्च । केचित्तु—‘इ उ आ’ इत्येतेषां समासेऽत्र पूर्वं परयणादेशे पूर्वस्येकारस्य यणा- देशानापत्तिः । स्थानिवद्भावेन तु न निर्वाहः, ‘न पदान्ते’ति निषेधात् । ननु परयणा- देशस्य जातबहिरङ्गासिद्धत्वेन पूर्वयणादेशेष्टयुक्तरूपसिद्धिः । न च ‘नाजानन्तर्य’ इति निषेधः ; यत्र बहिरङ्गशास्त्रप्राप्त्युत्तरकालमेव अन्तरङ्गप्राप्तिस्तत्रैव तन्निषेधप्रवृत्तेः, अत्र तु द्वयोरपि यणोः समकालेऽपि प्राप्तिसत्त्वेन ‘नाजानन्तर्य’ इत्यस्य विषया- भावात् । अत एव ‘ओमाङोश्चे’त्याङ्ग्रहणं चरितार्थमिति चेन्न । परयणउत्तरं पूर्वस्य यण्यपि तस्य वलिलोपेन निवृत्तेर्दुर्वारत्वात् । ‘अचः परस्मिन्नि’ति स्थानिवत्त्वेन तु न निस्तारः ; पूर्वयणः स्थानिभूतादचः पूर्वत्वेन दृष्टत्वाभावात् । निरुक्तान्तरङ्ग- परिभाषास्वीकारे तु पूर्वयणउत्तरं परयण्प्रवृत्त्या पूर्वयणः स्थानिभूतादचः पूर्वत्वेन दृष्टत्वात् स्थानिवद्भावेन वल्परत्वाभावान्न वलिलोपः । तथा च ‘य्वा’ इति रूप- सिद्धिरेतदन्तरङ्गपरिभाषाफलं बोध्यम् । न च जातबहिरङ्गासिद्धत्वेन परयणो- ऽसिद्धत्वाद्वल्परत्वाभावेन वलिलोपो नेति वाच्यम् ; अज्निष्ठान्यानन्तर्यनिमित्तक- पूर्वयण्रूपान्तरङ्गकार्यप्रवृत्त्युत्तरप्रवर्त्तमान-पूर्वलोपकार्यस्य सत्त्वेन द्वितीयार्थक- ‘नाजानन्तर्य’ इति निषेधेन जातबहिरङ्गासिद्धत्वायोगात् । अत एव ‘अक्षद्यूरि’त्यत्र वलिलोपो नेति प्राहुः । अन्ये तु—‘अबिभयमि’त्यत्र ‘भी+अम्’ इत्यवस्थायां परमपि गुणं बाधित्वा श्लुनिमित्तकद्वित्वस्यान्तरङ्गत्वात्पूर्वं प्रवृत्त्याऽभ्यासे इकारश्रवणसिद्धिः । एवं ‘जन्+ अतो’त्यवस्थायां परमप्युपधालोपं बाधित्वाऽन्तरङ्गत्वात् ‘श्लावि’ति द्वित्वे ‘जज्ञती’ति रूपसिद्धिः । अन्यथा परत्वात् पूर्वमुपधालोपे धात्ववयवैकाच्त्वाभावेन द्वित्वानापत्त्या उक्तरूपासिद्धिः स्यादिति तत्फलमाहुः । नन्वेवं ‘वृश्चती’त्यादौ वलोपे कर्तव्ये सम्प्रसारणस्य तत्कालप्राप्तत्वाभावेन जातत्वाभावेन चोक्तपरिभाषाऽप्राप्त्या अनया वलोपवारणपरभाष्यासङ्गतिरत आह— पदसंस्कारपक्ष इति । तथा चैतत्पक्षाभिप्रायकं भाष्यमिति न तद्विरोध इति भावः । आदिना ‘पट्व्या, मृद्व्ये’त्यस्य सङ्ग्रहः । एतेनेति । एतत्परिभाषयैव जातसमकालप्राप्तिक-बहिरङ्गयोरसिद्धत्वबोधनात् ‘वृश्चती’त्यादौ वारणेनेत्यर्थः । आद्यांशे ऊठ्ग्रहणं द्वितीयांशे चाङ्ग्रहणं मानम्, परि- भाषा तु अंशद्वयवत्येकैव, न तु समकालप्राप्तिकबहिरङ्गस्यासिद्धत्वबोधकम् ‘अन्तरङ्गं रङ्गकनिमित्तके शत्वे कर्तव्ये बहिरङ्ग-णिज्निमित्तक-टिलोपस्यासिद्धत्वात् । स्थानिवद्भावस्तु अज्झलादेशत्वात्, को विधि प्रति तन्निषेधाच्च न भवतीत्यलं पल्लवितेन ।