भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 212, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 212

अन्तरङ्गशास्त्रत्वमस्या लिङ्गम् । इयं च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात् । अस्याञ्च ‘वाह ऊठ्’ सूत्रस्थमूड्ग्रहणं ज्ञापकमित्येषा सपादसप्ताध्यायीस्था । अन्यथा सम्प्र- बहिरङ्गाद् बलीय' इति परिभाषान्तरमिति भावः । अन्तरङ्गशास्त्रत्वमस्या लिङ्गमिति । तथा चान्तरङ्गशास्त्रत्वेन रूपेण त्रैपादिकान्त- रङ्गस्य 'पूर्वत्रासिद्धमि'त्यनेन एतत्परिभाषादृष्ट्या असिद्धत्वबोधनादनया बहिरङ्गस्य त्रैपादिकान्तरङ्गशास्त्रदृष्ट्या नासिद्धत्वम् । अन्तरङ्गत्वस्यैतदुद्देश्यतावच्छेदकत्वे तु 'पूर्वत्रासिद्धमि'त्यनेन शास्त्रत्वेन रूपेण असिद्धत्वप्रतिपादनेऽपि अन्तरङ्गत्वेनासिद्धत्वा- भावेन एतत्परिभाषायास्त्रिपाद्यां प्रवृत्तेर्दुर्वारत्वापत्तिः । अत एव 'रोरी'त्यस्य शास्त्रस्य रेफलोपविधायकत्वेन रूपेण 'पूर्वत्रे'त्यनेन असिद्धत्वबोधनेऽपि तत्तच्छब्दत्वादिना असिद्धत्वाभावात् 'हशि चे'त्यादिशास्त्रप्रवृत्तिरिति भावः । बहिरङ्गशास्त्रत्वं तु नास्या लिङ्गमिति 'अतो रोरी'ति सूत्रे शब्देन्दुशेखरे स्पष्टम् । यत्तु प्राञ्चः—अन्तरङ्गत्वमेवास्या लिङ्गम्, त्रिपाद्यामेतत्प्रवृत्तिरस्त्येव । अत एव भाष्ये 'नार्कुटः, कार्तिः, सुदध्युपास्यः नार्मंत' इत्यादौ बहिरङ्गपरिभाषयैव समा- हितम् । एवञ्च 'विसर्जनीयोऽनुत्तरपदे, निष्ठानत्वमवृद्धेः', 'यणः प्रतिषेधः', 'नृमतौ वत्त्वप्रतिषेध' इति वार्तिकचतुष्टयं नाऽऽरम्भणीयमिति महालाघवम् । एवं 'तस्य दोष' इति वार्तिकमपि व्यर्थमेव, 'चक्रयत्र, निगाल्यते, माषवपनी'त्यादौ संयोगादिलोपा- दीनां बहिरङ्गपरिभाषयाऽपि वारणसम्भवात् । अत एव 'दौष्कुलिरि'त्यत्र बहिरङ्गत्वेन वृद्धेरसिद्धतया उदुपधत्वेन षत्वसिद्धिरिति । तन्न ; तथा सति 'अभिषेणयत्यभिषुणोती'- त्यत्र षत्वस्य बहिरङ्गतयाऽसिद्धत्वे णत्वानापत्तेः, 'सर्वेषामि'त्यादौ प्रकृतिप्रत्यय- सापेक्षत्वेन सुटो बहिरङ्गासिद्धत्वेन षत्वानापत्तेः, 'राज्ञ' इत्यत्र अल्लोपस्यासिद्धत्वेन श्चुत्वानापत्तेश्च । न च प्रत्ययावयवस्य कार्ये बहिरङ्गपरिभाषानित्या, अत एव 'करिष्यती'त्यत्र स्यविकरणस्य अनयाऽसिद्धत्वाभावेन इट्सिद्धिरिति वाच्यम् ; 'कार्ति- नार्मंत' इत्यादावपि प्रत्ययावयवकार्यत्वेनैतदप्रवृत्त्यापत्त्या वार्तिकारम्भस्य तव मते- बहिरङ्गशास्त्रत्वं तु नास्या लिङ्गमिति । तथा सति सपादसप्ताध्यायीस्थान्तरङ्ग- दृष्ट्या त्रिपादीस्थबहिरङ्गस्य अनयाऽसिद्धत्वं न स्यात् । न च 'पूर्वत्रासिद्धमि'त्यनेनैवासिद्धत्वे सिद्धे तदर्थोऽयं प्रयासो व्यर्थ इति वाच्यम् ; यत्र ज्ञापकादिना त्रिपादिस्यस्यासिद्धत्वाभावस्तदर्थत्वात् । यथा 'आगच्छ पयोद'इत्यत्रोत्वदृष्ट्या प्लुतस्य बहिरङ्गत्वेनानयाऽसिद्धत्वम् । अप्लुतग्रहणसामर्थ्यात् 'पूर्वत्रासिद्धमि'त्यनेनासिद्धत्वं तु न भवति । बहिरङ्गशास्त्रत्वस्य लिङ्गत्वे तु अस्याः षष्ठाध्यायस्थत्वेन तद्दृष्ट्या प्लुतस्यासिद्धत्वेन स्वीयप्रवृत्तौ निमित्तभूतस्य बहिरङ्गशास्त्रत्वेन रूपेण ज्ञानस्याभावादस्या अप्रवृत्तौ परत्वात् प्लुते अनिष्टरूपापत्तिः । अन्तरङ्गशास्त्रत्वमित्युक्तौ तु अन्तरङ्गस्य उत्वस्य ज्ञानेन तदपेक्षया यद् बहिरङ्गं तत्सर्वम् 'असिद्धमि'त्यनया बोधनेन तस्यासिद्धत्वात् पूर्वमुत्वे पश्चात् प्लुते च इष्टरूपसिद्धिरिति । तदेतत्सर्वं शब्देन्दुशेखरे स्पष्टम् ; तदाह—शब्देन्दुशेखरे स्पष्टमिति ।

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 212, कुल 373 में से · BharatKosha