परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 218, कुल 373 में से
संदर्भ में पढ़ें१८८ परिभाषेन्दुशेखरः [ २ प्रकरणे- अत एव 'ओमाङोश्चे'त्याङ्ग्रहणं चरितार्थम् । तद्धि 'खट्वा+आ+ ऊढे'त्यत्र परमपि सवर्णदीर्घं बाधित्वा अन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम् । साधनबोधकप्रत्ययोत्पत्त्यनन्तरं पूर्वं धातोरुपसर्गयोगे पश्चात् खट्वाशब्दस्य समुदायेन योगाद् गुणस्यान्तरङ्गत्वमिति 'सम्प्रसारणाच्चे'ति सूत्रे भाष्ये स्पष्टम् । 'एहो'त्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः, ज्ञापकपर'सम्प्रसारणाच्चे'ति सूत्रस्थभाष्यप्रामाण्येनानित्यं प्रकृति- वदनुकरणमित्यतिदेशमादाय लब्धाङ्गत्वे एतत्प्रवृत्तेः । यत्तु पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन उपसर्गेण तत्संज्ञकशब्देन साधनेन कारकेण तत्प्रयुक्तकार्येण च । अत एव 'अनुभूयत' इत्यादौ अत एव ओमाङोश्चेति । समकालप्राप्तबहिरङ्गस्य असिद्धत्वस्वीकारादेवेत्यर्थः । परमपि सवर्णदीर्घमिति । न च 'सित+आ+उष्णमि'त्यत्र गुणस्य अन्तरङ्गत्वाभावेन परत्वाद् दीर्घे प्राप्ते 'अनित्यान्नित्यं बलवदि'ति ज्ञापनार्थमाङ्ग्रहणमुपष्टम्भकं स्यात् । किञ्च 'खट्वा+आ+ऊढ' इत्यत्रापि नित्यत्वादेव गुणे कृते वृद्धिबाधनार्थ- माङ्ग्रहणं चरितार्थमिति कथमुक्तार्थे ज्ञापकमिति वाच्यम् ; उभयत्र गुणस्य नित्यत्वेऽप्यपवादस्य ततोऽपि बलवत्त्वेन पूर्वं गुणे वृद्धिबाधनार्थमाङ्ग्रहणं स्वांशे चरितार्थम् । एहीति । 'ए, ही'त्यनुकरणद्वयम्, न त्वेकमनुकरणमिति भावः । एतेन 'प्रकृतिवदि'ति न्यायेन प्रकृतिपर्याप्तिधर्मस्यैव अतिदेशेन एकार आङ्त्वातिदेशासम्भवात् अयुक्तोऽयं ग्रन्थ इत्यपास्तम् । केचित्तु- 'अस्य वामीयमि'त्यादौ अनुकरणैकदेशेऽपि सुप्त्वात् प्राप्तलुकः प्रकृति- वदनुकरणमित्यस्यानित्यत्वेन भाष्यकृता वारणादनेन न्यायेन प्रकृतिघटकवृत्ति- धर्मस्य अनुकरणैकदेशेऽपि अतिदेशकल्पनान्नात्र दोषः । अत एव 'जहिजोड' इत्यादौ समुदायानुकरणेऽप्यवयवस्य सुप्त्वात्तल्लोपः सिद्ध्यतीति वदन्ति । स्वांशे चरितार्थमिति । ननु 'आ+ऊढ' इत्यत्र गुणे ततः खट्वाशब्देन योगे 'खट्वा+ओढ' इति स्थिते, वृद्धिं बाधित्वा पररूपार्थमाङ्ग्रहणं चरितार्थमिति कथं परिभाषायां ज्ञापकमिति वाच्यम् ; 'युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इति सूत्रस्वारस्येन शास्त्रे वाक्यसंस्कारपक्षाश्रयणेन ज्ञापकपरभाष्यप्रामाण्यात् आङ्विषये वाक्यसंस्कारपक्षस्यैव आश्रयणेनादोषात् । मूले-एहीत्यनुकरणस्येति । अनुकार्य एव तु नोक्तम्, वाक्यसंस्कारपक्षाश्रयणेन तादृशस्थितेर्दुर्लभत्वात् ।