भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 219, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 219

सकर्मकत्वात् कर्मणि लकारसिद्धिरिति । तन्न ; क्रियायाः साध्यत्वेन बोधात् साध्यस्य च साधनाकाङ्क्षतया तत्सम्बन्धोत्तरमेव निश्चितक्रियाबोधेन साधनकार्यप्रवृत्त्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात् । अत एव 'सुट्कात्पूर्व' इति सूत्रे 'पूर्वं धातुरुपसर्गेण'त्युक्त्वा 'नैतत्सारम् ; पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे'त्युक्त्वा उक्तयुक्त्याऽस्यैव युक्तत्व- मुक्तम्— 'साधनं हि क्रियां निर्वर्तयती'त्यादिना भाष्ये । उपसर्गद्योत्यार्था- न्तर्भाविण धातुनैवार्थाभिधानादुकेषु कर्मणि लकारादिसिद्धिः । पश्चाच्छ्रोतृ- बोधाय द्योतकोपसर्गसम्बन्धः । एवं च अन्तरङ्गतरार्थकोपसर्गनिमित्तः सुट् संकृतीत्यवस्थायां द्वित्वा- दितः पूर्वं प्रवर्तते, ततो द्वित्वादि ।


क्रियायाः साध्यत्वेनेति । अयम्भावः—साध्यत्वेन क्रिया