भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 220, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 220

१६० परिभाषेन्दुशेखरः [ २ प्रकरणे- अत एव 'प्रणिदापयती'त्यादौ णत्वं 'यदागमा' इति न्यायेन समा- हितं भाष्ये । अत एव प्रत्येति प्रत्यय इत्यादिसिद्धिः ; अन्यथाऽन्तरङ्गत्वात् सवर्ण- दीर्घे रूपासिद्धिः । यदुपसर्गनिमित्तकं कार्यमुपसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तत्वात्तद् अन्तरङ्गम् । यत्तु न तथा, तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम् । अत एव 'न धात्वि'ति सूत्रे 'प्रेद्ध' इत्यत्र गुणो बहिरङ्ग इति भाष्ये उक्तम् । किञ्च 'पूर्वमुपसर्गयोगे धातूपसर्गयोः समासे ऐकस्वर्याद्यापत्तिरि'ति 'उपपदमतिङि'ति सूत्रे भाष्ये स्पष्टम् । भावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः । अत एव 'णेरध्ययने' इति निर्देशः सङ्गच्छते । इदं च सामान्यापेक्षाज्ञापकम्, भावतिङोऽपि पूर्वमुत्पत्तेः ; अन्यथा तत्र समासापत्तिः । तिङि तु अतिङिति निषेधान्न तत्र दोषो यदि भावतिङ्युपसर्गयोगोऽस्तोत्यलम् । यत्तु विशेषापेक्षात् सामान्यापेक्षमन्तरङ्गम्, विशेषापेक्षे विशेषधर्मस्य अधिकस्य निमित्तत्वात् । यथा 'रुदादिभ्यः सार्वधातुक' इत्यत्र रुदादित्वं णत्वमिति । पूर्वमुपसर्गयोगेऽपि असिद्धशास्त्रेति न्यायेन त्रैपादिकस्याप्रवृत्तेः, दीक्षितमतेऽपि 'अकृते'ति परिभाषया पूर्वं णत्वं युक्तमेवेति प्रागुक्तमनुसन्धेयम् । प्रत्यय इति । वार्णपरिभाषया सवर्णदीर्घं बाधित्वा पूर्वमेव गुणप्रवृत्तेरिदं मन्दप्रयोजनम् । किञ्च पूर्वमुपसर्गयोग इति । उपसर्गसंज्ञकशब्देन प्रत्ययोत्पत्तेः प्राक् सम्बन्धे इत्यर्थः । ऐकस्वर्याद्यापत्तिरिति । आदिना 'अन्वभवदि'त्यादौ अभीष्टस्य शाकलप्रकृति- भावस्य 'न समासे' इति निषेधापत्तिसङ्ग्रहः । सिद्धान्ते तु पूर्वं तिङुत्पत्त्या 'अतिङि'ति निषेधेन समासाप्राप्त्या उक्तनिषेधानवसरः । अतिङ्ग्रहणसामर्थ्याच्च लान्तेन तद्घटकेन वा न समास इति दिक् । भावार्थप्रत्ययस्यापीति । तस्य साधनत्वाभावेऽपि उपसर्गप्रादुर्भावनििमित्तात् पूर्वमेव तन्निमित्तस्योपस्थित्या भावार्थकप्रत्ययस्यापि पूर्वं प्रादुर्भावः । अत्र वोपोद्वलक- माह—अत एवेति । यदीति । 'विक्रियत' इत्यादौ भावतिङ्स्थलेऽपि विकाररूपार्थ- बोधनाय उपसर्गसम्बन्धस्याऽऽवश्यकत्वाद् बहुशस्तादृशप्रयोगाणामुपलम्भाच्च इदमयुक्त- मिति बोध्यम् । यत्त्विति । यत्र कार्ये विशेषधर्मस्तत्सामान्यधर्मश्चेत्युभयं निमित्तम्, तदपेक्षया तत्सामान्यधर्ममात्रनिमित्तकमल्पापेक्षत्वादन्तरङ्गम् । अत एव 'रुद्यादि'त्यादौ इडादिविधौ सार्वधातुकत्वज्ञानाय धातुत्वज्ञानाय धातुत्वरूपसामान्यज्ञानस्य आवश्यकत्वेन तत्सामान्य-विशेषोभयनिमित्तकत्वेन इटो बहिरङ्गत्वम् । यासुटो धात्वधिकारोयतया