परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 222, कुल 373 में से
संदर्भ में पढ़ेंविशेषापेक्षस्य बहिरङ्गत्वम् । अत एव सुबन्तसामान्यापेक्षो बहुव्रीहि- स्तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये । न च अर्थकृतबहिरङ्गत्वस्य अनाश्रयणादिदमुक्तम् ; एकदेश्युक्तित्वेन अदोषात् । अत एवास्तिग्रहणं नोपाध्यर्थम्, किं त्वस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोर्नास्तीति प्रतिपाद्य, सिद्धान्तिना—'मत्वर्थे द्विगोः प्रतिषेधो वक्तव्य इति वचनेनैतत्सिद्धमि'त्युक्तम् । अत एव 'तदोः सः सावि'ति सूत्रेऽनन्त्ययोरिति चरितार्थम्, अन्यथा प्रत्ययसामान्यापेक्ष- त्वेनान्तरङ्गत्वात् अन्त्यस्यात्वेऽनन्त्यस्यैव सत्त्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव । 'पादः पदि'ति सूत्रे भाष्य-कैयटयोरपि एतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु । नन्वेवम् 'असुस्रुवदि'त्यत्र लघूपधगुणादुवङोऽल्पनिमित्तत्वाभावादुवङ् न क्रियेत इत्यर्थः । नोपाध्यर्थमिति । शब्दशक्तिस्वभावादेव बहुव्रीहिवन्मतुपोऽप्यस्त्यर्थ- विषयतासम्भवादिति भावः । तद्वैयर्थ्यं स्पष्टमेवेति । वस्तुतः—सत्वं प्रतिपदोक्ततरत्वेन त्यदाद्यत्वबाधकं स्यादतः आनन्त्यग्रहणमावश्यकमिति बोध्यम् । पादः पदिति सूत्रे भाष्यकैयटयोरिति । तत्र हि 'अरुदितमरुदिते'त्यत्र इडपेक्षयाऽन्त- 'रङ्गास्तांतंताम' इत्युक्तं भाष्ये । कैयटे च प्राग् लादेशेभ्यो धात्वधिकारात्तामादीना- मन्तरङ्गत्वमुक्तम् । एवंविधान्तरङ्ग-बहिरङ्गभावसत्त्वे तु तेषां विशेषापेक्षत्वेन बहिरङ्गत्वात् अन्तरङ्गत्वप्रतिपादनमसङ्गतं स्यादिति भावः । वस्तुतः—तामादीनां प्रत्ययविशेषापेक्षत्वेऽपीटः प्रकृतिविशेषापेक्षत्वेन समत्वान्न प्राचां 'पादः पदि'ति सूत्रस्थभाष्यविरोध इति बोध्यम् । अल्पनिमित्तकत्वाभावादिति । प्राचीनमतेनापि अन्तरङ्गत्वलाभ इति बोधनार्थं- प्राचीनमतेनापीति । अपिशब्दात् नवीनमतेनापि अन्तरङ्गत्वलाभ इति सूचितम् । तच्च न सङ्गच्छते ; पूर्वोक्तस्य घटकमात्रनिमित्तकत्वरूपान्तरङ्गत्वस्य उवङ्विधायके सत्त्वेन उभयमते- नापि 'नन्वेवमि'ति शङ्कापरग्रन्थोत्थापनासम्भवात् व्याख्याकृतमतेऽपि परिष्कृतस्यान्तरङ्गत्व- स्यैव "एवम् 'असुस्रुवदि'त्यत्रापि इदमेवान्तरङ्गत्वमि"त्यादिना ग्रन्थेन पूर्वं स्वीकृतत्वाच्चेति चेत्—सत्यम् । अत्रायमभिसन्धिः—पूर्वम् 'अन्तर्भूतानि निमित्तानि यस्य' इत्यादिना सामान्येन अन्तरङ्गत्वलक्षणमुक्तम्, ततः 'ऊनशब्दमाश्रित्येत्यादिभाष्येण' इत्यादि वदता ग्रन्थकृता परिभाषा- यामङ्गपदेन सामान्योक्त्या परिभाषाघटकबहिरङ्गान्तरङ्गोभयपदघटकाङ्गपदेन सप्तम्याद्यन्ततया उपात्तं शब्दरूपं निमित्तमेव गृह्यत इति विशेषरूपेण बोधनात् निमित्तपदेन षष्ठ्याद्यन्ततया उपात्तस्य ग्रहणं न भवति । एवञ्च 'असुस्रुवत्' इत्यादौ उवङोऽन्तरङ्गत्वं न स्यात् ( तथा हि, बहिरङ्गशास्त्रं 'पुगन्तलघूपधस्य च' इति, तदीयसप्तम्यन्तपदप्रयोज्या विषयता सार्वधातुकत्वा- वच्छिन्ना, तत्पर्याप्त्यधिकरणं तु इति, तद्घटकपर्याप्तविषयताप्रयोजक सप्तम्यन्त-पञ्चम्यन्यतर- पदघटितत्वम् उवङ्-विधेर्नास्ति । ) तथा च कथमन्तरङ्गत्वादुवङ् स्यात् । तदेतन्मनसि निधाय शङ्कते, मूले—नन्वेवमिति ।