भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 223, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 223

५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १९३ स्यादिति चेन्न । तत्र अन्तःकार्यत्वरूपान्तरङ्गत्वसत्त्वात् । अन्तःकार्यत्वं च पूर्वोपस्थितनिमित्तकत्वम्, अङ्गशब्दस्य निमित्तपरत्वात् । इदमन्तरङ्गत्वं लोकन्यायसिद्धमिति 'मनुष्योऽयं प्रातरुत्थाय शरीर- कार्याणि करोति, ततः सुहृदाम्, ततः सम्बन्धिनाम् ।' अर्थानाम् जाति- व्यक्तिलिङ्गसङ्ख्याकारकाणां बोधक्रमः शास्त्रकृत्कल्पितः, तत्क्रमेणैव च तद्- बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणैव तत्कार्याणीति 'पट्व्ये'त्यादौ अन्तरङ्गत्वात् पूर्वं पूर्वयणादेशः परयणादेशस्य बहिरङ्गतयाऽसिद्धत्वादित्य- नेन 'अचः परस्मिन्नि'ति सूत्रे भाष्ये स्पष्टम् । तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव । यथा 'पट्व्ये'त्यत्र पदस्य विभज्यान्वाख्याने, न तु जातस्य बहिरङ्गस्य तादृशेऽन्तरङ्गेऽसिद्धतानिय- मकम्, प्रागुक्तलोकन्यायेन तथैव लाभादिति 'वाह ऊठ्'सूत्रे कैयटे स्पष्टम् । अत एव 'वाय्वोरि'त्यादौ वलिलोपो यणः स्थानिवत्त्वेन वारितः 'अचः परस्मिन्नि'त्यत्र भाष्यकृता । क्रमेणान्वाख्याने तु उक्तोदाहरणे पूर्वप्रवृत्तिकत्व- मन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्ताभावादप्राप्तिरूपं बोध्यम् । मिदमिति भावः । अन्तःकार्यत्वरूपेति । यदीयसम्बन्धिनिमित्तात्पूर्वं यदीयसम्बन्धि तदन्तरङ्गमित्यर्थः । नन्वत्र सार्वेति गुणात्पूर्वं नित्यत्वाच्चङि 'सुअदि'ति स्थिते 'द्विर्व- चनेऽची'ति निषेधादुवङोऽप्राप्तौ द्वित्वात्परत्वात् ओणेर्ऋदित्वकरणेन उपधाकार्यमात्रस्य प्राबल्यबोधनाच्च पुगन्तेति गुणो दुर्वार इति चेन्न । द्वित्वस्य पूर्वोक्तपारिष्कृतान्तरङ्ग- त्वेन गुणात्पूर्वं प्रवृत्त्या दोषाभावात्, ज्ञापकसाजात्यादृदित्करणेनापि चङ्निमित्तकोपधा- कार्यस्यैव प्राबल्यबोधनेनात्र तद्विषयाभावाच्च । 'पट्व्या, मृद्व्ये'त्यत्रापि परयण्निमित्तात् पूर्वं पूर्वयण्निमित्तस्य सत्त्वेनान्तरङ्गत्वमूह्यम् । ईदृशान्तरङ्गत्वस्य असिद्धतानियामकत्वे मानं च प्रकृतलोकन्यायादिकं बोध्यमित्यन्यत्र विस्तरः । अन्तःकार्यत्वं चानेकविधम्, तत्र प्रकृते कीदृशं तद् गृह्यत इत्यत आह— पूर्वोपस्थितेति । अनुपदमेवास्यार्थ उक्तः । तदपीति । अन्तःकार्यत्वरूपान्तरङ्गत्वं चेत्यर्थः । अत एवेति । अन्तःकार्यत्वरूपा- न्तरङ्गत्वस्य समकालप्राप्तबहिरङ्गासिद्धत्वनियामकत्वादेवेत्यर्थः । पदसंस्कारपक्षे उक्तमन्तरङ्गत्वमुपपाद्य क्रमिकान्वाख्याने तत्सङ्गमयति—क्रमेणेति । अत्र पक्षे बहि- रङ्गत्वमप्युपपादयति—अप्राप्तिरूपमिति । तत्र “अन्तःकार्यत्वरूपान्तरङ्गत्वादि”त्युत्तरम् । अस्यायमाशयः—अन्तःकार्यत्वरूप- मन्तरङ्गत्वं द्विविधम्—दैशिकम्, कालिकञ्चेति भेदात् । तयोर्मध्ये दैशिकं ज्ञापकपरभाष्यप्रमापितं घटकमात्रनिमित्तकत्वरूपम्, तदेव 'असुस्रूवत्' इत्यादौ द्रष्टव्यम् । सम्प्रति कालिकमन्तरङ्गत्वं प्रपञ्चयति मूले—अन्तःकार्यत्वञ्च पूर्वोपस्थितनिमित्तकत्वमित्यादिना ॥ ५० ॥ २५