परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 224, कुल 373 में से
संदर्भ में पढ़ेंयत्तु एवंरीत्या पूर्वस्थानिकमप्यन्तरङ्गममिति । तच्चिन्त्यम् ; 'स्रजिष्ठ' इत्यादौ विन्मतोर्लुकि टिलोपस्यापवादविन्मतोर्लुक्प्रवृत्त्या जातिपक्षाश्रयणेन वारणप्रयासस्य 'प्रकृत्यैकाजि'ति सूत्रप्रयोजनखण्डनावसरे भाष्यकृतकृतस्य नैष्फल्यापत्तेः, त्वदुक्तरीत्या विन्मतोर्लुको बहिरङ्गासिद्धत्वेन अनायासत- स्तद्वारणात्, भाष्ये ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च । परिभाषायामङ्गशब्दस्य निमित्तपरत्वाच्च । इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति 'इच एका- चोऽम्'ति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति, सा नाऽऽदर्तव्या । 'परन्तप' इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तेः । जातिपक्षाश्रयणेनेति । केचित्तु — विनो लोपस्य तक्रन्यायेन टिलोपापवादत्वात्तदुत्तरं [L11