परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 225, कुल 373 में से
संदर्भ में पढ़ें५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६५
नव्यमतेऽपि यथोद्देशपक्षाश्रयणेन अन्यथासिद्धोदाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समा- नाश्रयस्य नानेनासिद्धत्वमसिद्धत्वादिति 'असिद्धवत्' सूत्रे भाष्ये स्पष्टम् । एवं सिचि वृद्धेर्येन नाप्राप्तिन्यायेन अन्तरङ्गबाधकत्वमूलकं न सिच्यन्तरङ्गमस्तीति 'इको गुणे'ति सूत्रे भाष्ये स्पष्टम् ॥ ५० ॥
ननु भाष्यकारवचनप्रामाण्याविशेषात् 'एवं तर्ह्यन्तरङ्गे लुकी'त्यस्यैव कुतो नैकदेश्युक्तित्वमुररीक्रियत इति चेत् तत्राऽऽह—नव्यमतेऽपीति । दीक्षितादिमतेऽपीत्यर्थः । केचित्तु—'श्रियं मन्यमि'त्यत्र अम्विधिसामर्थ्याद् बाध्यसामान्यचिन्ताश्रयणेन स्वमोरिति लुको बाधः । 'एवं तर्ह्यन्तरङ्गे लुकी'ति भा