परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
५० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६५
नव्यमतेऽपि यथोद्देशपक्षाश्रयणेन अन्यथासिद्धोदाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समा- नाश्रयस्य नानेनासिद्धत्वमसिद्धत्वादिति 'असिद्धवत्' सूत्रे भाष्ये स्पष्टम् । एवं सिचि वृद्धेर्येन नाप्राप्तिन्यायेन अन्तरङ्गबाधकत्वमूलकं न सिच्यन्तरङ्गमस्तीति 'इको गुणे'ति सूत्रे भाष्ये स्पष्टम् ॥ ५० ॥
ननु भाष्यकारवचनप्रामाण्याविशेषात् 'एवं तर्ह्यन्तरङ्गे लुकी'त्यस्यैव कुतो नैकदेश्युक्तित्वमुररीक्रियत इति चेत् तत्राऽऽह—नव्यमतेऽपीति । दीक्षितादिमतेऽपीत्यर्थः । केचित्तु—'श्रियं मन्यमि'त्यत्र अम्विधिसामर्थ्याद् बाध्यसामान्यचिन्ताश्रयणेन स्वमोरिति लुको बाधः । 'एवं तर्ह्यन्तरङ्गे लुकी'ति भा
१९६ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवम् 'अक्षद्यूरि'त्यादौ बहिरङ्गस्योठोऽसिद्धत्वात् अन्तरङ्गो यण् न स्यादत आह— नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिः ॥ ५१ ॥ —: ❖ :— अत्र 'षत्वतुकोरि'ति सूत्रस्थं तुग्ग्रहणं ज्ञापकम् ; अन्यथा 'अधीत्य, प्रेत्ये'त्यादौ समासोत्तरं ल्यप्प्रवृत्त्या पूर्वं समासे जाते तत्र संहिताया नित्य- त्वाद् ल्यबुत्पत्तिपर्यन्तमपि असंहिताऽवस्थानासम्भवेन एकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षैकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तद्वै- यर्थ्यं स्पष्टमेव । पदद्वयसम्बन्धिवर्णद्वयापेक्षं बहिरङ्गमिति 'प्रेद्ध' इत्यादौ गुणो बहिरङ्ग इति ग्रन्थेन 'न धातुलोप' इति सूत्रे 'संयोगान्तस्य लोप' इति सूत्रे च भाष्ये स्पष्टम् । नन्वेव
अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये : एकादेशस्यासिद्धत्वाय षत्वग्रहणं चरितार्थम्, तत्र षत्वविधौ तदायंशोपस्थित्या अस्यैव बहि- : रङ्गत्वं बोध्यम् ।
Let's double-check lines 29, 30, 31: Line 29: "अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये" Wait, 'ह्रस्वात्तादौ तद्धिते' (८।३।१०१): Panini sutra 8.3.101 is "ह्रस्वात्तादौ तद्धिते"! So "इति षत्वसिद्धये" or "षत्वसिद्धये"? Look at L29: अनुनासिकत्वे विसर्गे 'विसर्जनीयस्य सः' इति सत्वे तस्य 'ह्रस्वात्तादौ तद्धिते' इति षत्वसिद्धये Wait, is it "षत्वसिद्धये" or "षत्वसिद्धौ"? It has 'ये' at the end: ष त्व सि द्ध ये (षत्वसिद्धये).
Line 30: "एकादेशस्यासिद्धत्वाय षत्वग्रहणं चर
१९८ परिभाषेन्दुशेखरः [२ प्रकरणे- परिभाषार्थस्तु—अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रक्लृप्तिः । बहिष्पदेन बहिरङ्गम्, तस्य भावो बहि- रङ्गत्वम्। तत्प्रयुक्तासिद्धत्वस्य न प्रक्लृप्तिः, न प्राप्तिरिति। असिद्धं बहिरङ्ग- मित्युकत्वा 'नाजानन्तर्य' इति वक्ष्यामीति भाष्योक्त्या तत्रत्यस्य अन्तरङ्ग इत्यस्यानुवृत्तिसूचनात् । तेन 'पचावेदम'ित्यादौ न दोषः । अन्तरङ्गस्याच्- स्थानिककार्यस्यैतवस्य अन्यानन्तर्यनिमित्तकत्वाभावात् । जातस्य बहिरङ्गस्येत्युक्त्या 'अयजे इन्द्रं धियती'त्यादौ बहिरङ्गदीर्घ- गुणादेरसिद्धत्वं सिद्धम् । अत एव 'इण्ङिःशीनामाद्गुणः सवर्णदीर्घत्वाच्छ- च्छन्दस्य अन्तरङ्गलक्षणत्वादी'त्यादि सङ्गच्छते । अत एव 'ओमाङोश्चे'- त्याङ्ग्रहणं चरितार्थम् । तद्धि 'शिव+आ+इही'ति स्थिते परमपि सवर्ण- दीर्घं बाधित्वा धातूपसर्गकार्यत्वेन अन्तरङ्गत्वाद् गुणे वृद्धिबाधनार्थम् । न च 'अक्षद्यूरि'त्यत्र यणि कृते ऊठोऽसिद्धत्वाद्वलिलोपापत्तिरिति वाच्यम्; अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये कृते च तस्मिन् यदन्त- रङ्गं प्राप्नोति तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात् । असिद्धपरिभाषाया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यं तेनैव सिद्धेः । अत एव 'नलोपः सुपि'ति सूत्रे कृति तुग्ग्रहणं चरितार्थम् ; अन्यथा अन्तरङ्गे बहिरङ्गे वा यत्र अचोरानन्तर्यं तत्रानेन निषेध इति प्राचीनव्याख्यां खण्डयन्नाह—परिभाषार्थस्त्विति । अनुवृत्तिसूचनादिति । अन्तरङ्गपरिभाषाया 'वाह ऊठ्'- सूत्रदेशस्थत्वेन 'नाजानन्तर्यं' इति वचनस्य 'षत्वतुकोर'िति देशस्थत्वेन अनुवृत्त्यसम्भव इति प्राञ्चः । वस्तुतस्तु—अनुवृत्तौ पूर्वपाठस्य निमित्तत्वम्, न तु पूर्वदेशीयत्वस्य । अत एव कार्यकालपक्षे संज्ञापरिभाषयोर्विधिदेशीयत्वेऽपि तत्तत्पूर्वपठितसूत्रीयपदानां तत्र तत्रानु- वृत्तिः सिद्धयति । यद्वा—बहिष्ट्वपदार्थस्य नित्यसाकाङ्क्षतया उपस्थितत्वात्तादृशाजा- नन्तर्यनिरूपितस्यैव तस्य ग्रहणेनान्तरङ्गत्वस्य लाभसम्भवात् । अत एवेति । जातबहि- रङ्गस्थले एव निषेधस्वीकारादित्यर्थः । एवमेवोत्तरत्रात एवेत्यस्यार्थो बोध्यः । नासिद्धत्वमितीति । प्राङ्नये तु 'वलिलोपे' इति निषेधेन तत्सिद्धिः । खण्डयन्निति । 'अन्तरङ्गे बहिरङ्गे वा' इत्युभयोरुपादाने 'पचावेदम्' इति लक्ष्या- सिद्धिः, 'अचोरानन्तर्यम्'त्युक्तौ धर्मिग्राहकमानविरोधश्चेति भावः । मूले—अचोऽन्यानन्तर्यमिति । अज्निष्ठमन्यनिरूपितमानन्तर्यमिति तदर्थः । अन्यश्च सप्तम्यन्ततया पञ्चम्यन्ततया वा उपात्तपदबोध्यो ग्राह्यः । मूले—अभावादिति । 'धातोरि'त्यनुवृत्तस्य विहितविशेषणत्वादिति भावः ।
'वृत्रहभ्यामि'त्यादौ बहिर्भूतभ्याम्निमित्तकपत्वाश्रयत्वेन बहिरङ्गतया नलोपस्यासिद्धत्वेन सिद्धेस्तद्वैयर्थ्यं स्पष्टमेव । मम तु तुक्यजानन्तर्यसत्त्वा- न्न दोषः । न चैवं सति 'ह्रस्वस्य पिती'ति सूत्रस्थभाष्यविरोधः, तत्र हि 'ग्रामणिपुत्र' इत्यत्र 'इको ह्रस्वोऽङ्च' इति ह्रस्वे कृते तुकमाशङ्क्य ह्रस्वस्य बहिरङ्गासिद्धत्वेन समाहितम्, 'नाजानन्तर्य' इत्यस्य सत्त्वे तत्र तदप्राप्ते- रसङ्गतिः स्पष्टैवेति वाच्यम् ; तेन भाष्येणास्या अनित्यत्वबोधनात् । एत- ज्ज्ञापकेन अन्तरङ्गपरिभाषाया अनित्यबोधनस्यैव न्याय्यत्वात् । अत एव 'अचः परस्मिन्नि'ति सूत्रे भाष्ये 'पटु+ई+आ' इत्यत्र पर- यणादेशस्यानयाऽसिद्धत्वात् पूर्वयणदेशः साधितः । अत एवैषा भाष्ये पुनः क्वापि नोल्लिखिता । अत एवान्तरङ्गपरिभाषामुपक्रम्य "विप्रतिषेध- सूत्रेऽस्या बहूनि प्रयोजनानि सन्ति, तदर्थमेषा परिभाषा कर्तव्या, प्रति- विधेयं च दोषेष्वि"त्युक्तं 'सम्प्रसारणाच्चे'ति सूत्रे भाष्ये । प्रतिविधानं च परिभाषाविषयेऽनित्यत्वाश्रयणमेवेति ध्वनितमित्यलम् ॥ ५१ ॥ साधित इति । न चात्र जातस्येति निवेशात् एतदप्राप्तिरिति वाच्यम् ; तन्निवेश- स्याप्यनित्यत्वमूलकत्वेन अदोषात् । पुन क्वापीति । सिद्धान्तिनेति शेषः । यद्वा—'षत्व- तुकोर'त्यस्याग्रे पुनः क्वापि नोक्तेत्यर्थः । एतेन—विप्रतिषेधसूत्रे पूर्वपक्षिणा भाष्य- कृताऽस्याः कण्ठत उक्तत्वेन एतच्चिन्त्यमित्यपास्तम् । ध्वनितमिति । तत्र 'नाजानन्तर्यं' इत्यादिना पृथक् प्रतिविधानमनुक्त्वा तथाकथनात् प्रतिविधेयशब्दस्यैकवचनान्तत्वात् दोषशब्दस्य बहुवचनान्तत्वाच्च बहूनां दोषाणां परिभाषाऽनित्यत्वरूपमेकं प्रतिविधान- मिति भाष्यकारो मन्यते । किञ्च 'नाजानन्तर्य' इति प्रतिविधानं विप्रतिषेधसूत्रप्रति- पादितं सिद्धान्ती यद्यावश्यकत्वेनाभिप्रेष्यत्, तदा तत्र प्रतिविधानमप्युक्तमित्येवावक्ष्यत् । अलमिति । वस्तुतः—अननुगतानित्यत्वकल्पनापेक्षया वचनारम्भ एव साधीयान् । किञ्च एवं वक्ष्यमाणपरिभाषाणामप्यनावश्यकत्वापत्तिः, अन्तरङ्गपरिभाषाया अनित्यत्व- कल्पनया तत्तज्ज्ञापकोपपत्तेरिति दिक् ॥ ५१ ॥ वचनारम्भ एव साधीयानिति । 'ह्रस्वस्य पिति कृति तुक्' इति सूत्रस्थभाष्य- विरोधस्तु न, सन्निपातपरिभाषायां स्वेनैव तस्यैकदेश्युक्तित्वोपवर्णनात् । ननु 'एधस्वेदम्' इत्यत्र 'सवाभ्यां वामौ' इत्यमादेशापत्तिः, तत्सूत्रे अचोऽन्यानन्तर्यसत्त्वेन 'नाजानन्तर्य' इति निषेधात् अन्तरङ्गपरिभाषाया अप्राप्तेः । एवं 'औजिढत्' इत्यत्र 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घापत्तिः, 'अम्बाऽत्र' इत्यत्र ह्रस्वापत्तिश्च । आद्ये द्वित्वासिद्धस्य अन्त्ये च दीर्घासिद्धत्वस्य 'नाजानन्तर्य'
२०० परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवं 'गोमत्प्रिय' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वा अन्तरङ्गत्वात् हल्ङ्यादिलोपे नुमादयः स्युरत आह— अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते ॥ ५२ ॥ —: ❀ :— अत्र च 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रं ज्ञापकम् । 'त्वत्कृतमि'त्यादौ लुगपेक्षया अन्तरङ्गत्वाद्विभक्तिनिमित्तेन 'त्वमावेकवचने' इत्यनेन सिद्ध इदं व्यर्थं सत्तज्ज्ञापकम् । हल्ङ्यादिलोपे नुमादयः स्युरिति । परत्वान्नित्यत्वाच्च दीर्घं बाधित्वेत्यर्थः । न च पूर्वं नुमि उपधायामचोऽभावात् सूत्रारम्भसामर्थ्येन पूर्वं दीर्घ एव स्यादिति वाच्यम् ; उपधाग्रहणस्य तत्र पूर्वमात्रोपलक्षकत्वेन सामर्थ्याभावात् पूर्वं दीर्घाप्रवृत्तेः । न चैव- मपि हल्ङ्यादिलोपं नुमं च तक्रन्यायेन दीर्घो बाधेतेति सर्वथाऽवतरणासङ्गतिरिति वाच्यम् ; हल्ङ्यादिलोपविषये तक्रन्यायाप्रवृत्तेर्वक्ष्यमाणत्वात् आपाद्यमानेऽर्थे न्याया- नादराच्चेत्याशयात् । अन्तरङ्गानपीति । अपिना परादिसङ्ग्रहः, तेन 'ह्यः श्वः' इत्याद्यव्ययेषु हल्- ङ्यादिलोपं परमपि बाधित्वा 'अव्ययादाप्सुप' इति लुक्सिद्धिः ; अन्यथा हल्ङ्यादि- लोपे असन्तत्वाद्दीर्घापत्तिरिति भावः । नन्वेवं 'त्वं कुलमि'त्यादौ 'ङेः प्रथमयोरि'त्यमं बाधित्वा 'स्वमोरि'ति लुक् स्यात्, 'भवतादि'त्यत्र तातङं बाधित्वा हेर्लुक् च स्यात्, 'तत्कुलमि'त्यत्र परमप्यत्वं बाधित्वा 'स्वमोरि'ति लुकि 'त्यदादिभ्यश्चे'ति वार्तिकासङ्गतिश्चेति चेन्न । आद्ये 'शिशीनुमुलुग्विधी'ति वार्तिकारम्भसामर्थ्येन एतदप्रवृत्तेर्युष्मदस्मदोरलिङ्गत्वेन लुकोऽप्राप्तेश्च । 'भवतादि'त्यत्र त्वस्या ज्ञापकसिद्धत्वेन असार्वत्रिकत्वादिति शेखरोक्त- समाधानस्य त्वयाऽप्याश्रयणीयत्वात् । अत्राऽपिशब्दाभावेऽपि तातङोऽनैमित्तिकत्वेन इति निषेधात् । 'नाजानन्तर्य' इति परिभाषाया अनित्यत्वाश्रयणे तु 'षत्वतुकोरसिद्धः' इति तुग्ग्रहणेन 'अन्तरङ्ग'परिभाषाया एव अनित्यत्वज्ञापनमुचितमिति चेन्न । 'अन्तरङ्ग'परिभाषा- खण्डनावसरे पूर्वोक्तदोषाणामुद्धृतत्वात् ॥ ५१ ॥ अपिना परादिसङ्ग्रह इति । अपिरत्र 'दण्डापूपिक'न्यायद्योतनार्थः, न तु 'कैमुतिक'- न्यायद्योतनार्थ इति भावः । कैमुतिकन्याये हि अन्यार्थे तात्पर्यं पर्यवसीयते, स्वार्थे निषेधश्च भवति । यथा 'दोषा वाच्या गुरोरपि' इत्यत्र गुरोस्तु दोषा नैव वाच्याः, तथा सति छात्रत्व- भङ्गापत्तेः, किन्तु अन्येषां सर्वेषामपि वाच्या इत्यर्थः । दण्डापूपिकन्यये तु 'केसरिणमपि हन्यात्' इत्यादौ केसरिहन्तृत्वम्, अन्येषामपि सत्वानाञ्च हन्तृत्वं लभ्यते । तथैव प्रकृते नित्यादपि बलीयान्, परादपि बलीयानित्यर्थः । एवञ्च परिभाषायां बहिरङ्गत्वमुपलक्षणमात्रमिति तत्त्वम् ।
ननु ‘तव पुत्रस्त्वत्पुत्र’ इत्यादौ तव-ममादिबाधनार्थं तदावश्यकमिति चेत्, एवं तर्ह्यत्रत्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः । अन्तरङ्गत्वाल्लुगापत्तिवारणे गत्यन्तराभावात्, ‘यश्चोभयोः समो दोषः परिहारस्तयोः सम’ इति न्यायेन अपिशब्दनिवेशे दोषदानस्यानुचितत्वाच्च । ‘तत्कुलम्’ इत्यत्र परिभाषा- यामपिशब्देन लुको ‘दण्डापूपिक’न्यायेन पराद्यन्तरङ्गान्तश्शास्त्रबाधकत्वबोधनेऽप्यपवाद- शास्त्रबाधकत्वे मानाभावात् ‘उपसञ्जनिष्यमाण’न्यायेन ‘अतोऽम्’त्यस्य विषये लुको- ऽप्रवृत्तेर्वार्तिकस्य अमादेशबाधनायाऽऽवश्यकत्वात् । केचित्तु— ‘भवतादि’त्यत्र लुकोऽप्रवृत्तये ‘तुह्योरि’ति सूत्रं तुहि इति पृथक् पदं लुप्तषष्ठ्यन्तम्, ओसिति पञ्चम्यन्तम् । ‘अश्च उश्चे’ति समाहारद्वन्द्वः ।
सिद्धे तदनुवृत्तिर्व्यर्था सत्येतज्ज्ञापिकेति भावः । ननु मपर्यन्तानुवृत्त्यभावे सर्वादेश- विधानाय सूत्रस्य चरितार्थत्वेन वार्तिककारमते तक्रन्यायासत्त्वेन अपवादत्वाभावाद् भाष्यमते तक्रन्यायेनापवादत्वेऽपि उत्सर्गेति नियमाभावाज्ज्ञापकासम्भवः । अत एव द्वितीयद्विर्वचनेन प्रथमद्विर्वचनबाध इति चेन्न । भाष्यमते यत्रापवादशास्त्रीय- 'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्तेः । न च तवममादेशोत्तरं स्थानिवद्भावेन युष्मच्छब्दत्वमादाय तत्प्राप्तिरिति वाच्यम् ; तत्रापि मपर्यन्तस्यानुवृत्त्या तस्य चालुमात्रवृत्तिधर्मघटिततया स्थानिव- द्भावाप्राप्तेरिति चेत्--सत्यम् । 'उपसञ्जनिष्यमाण'न्यायेन तवाद्यादेशबाधकत्वसिद्धेः । यदि पूर्वं तवममौ न स्याताम्, तर्हि सामसिक्लुकि उत्तरपदपरत्वसम्भावनया तत्प्राप्तिसम्भावनायाः सत्त्वादिति भावः । ननु उत्सर्गशास्त्रप्रवृत्त्यसम्भावनायां द्वित्वोत्तरं 'दधती'त्यादौ एककालावच्छेदेन उत्सर्गाप- वादयोः प्राप्तौ सत्यां तदप्राप्तियोग्येऽचरितार्थ्यरूपबाधबीजसत्त्वेन तत्र 'उपसञ्जनिष्यमाण'न्यायेन बाधोऽस्तु । प्रकृते तु 'युष्मद् + ङस्, पुत्र + सु' इत्यस्यामवस्थायामुत्तरपदस्य ङसा व्यवधानात् 'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्त्या तदप्राप्तियोग्यस्थले अचरितार्थ्यरूपबाधबीजस्याभावात् कथं बाधकत्वमिति चेत्-सत्यम् । 'तदप्राप्तियोग्येऽचारितार्थ्यम्'त्यत्र प्राप्तिपदेन प्राप्ति-प्रवृत्त्येत- रन्यतरस्य ग्रहणात् । प्राप्तिश्च उद्देश्यतावच्छेदकक्रान्तिः, प्रवृत्तिश्च विधेयतावच्छेदकसम्बन्धेन विधेयवैशिष्ट्यम् । तथा च 'युष्मद् + ङस्, पुत्र + सु' इत्यत्र 'तवममौ ङसि' इत्यस्य प्राप्तिः, लुगु- त्तरञ्च 'प्रत्ययोत्तरपदयोश्च' इत्यस्य प्राप्तिरित्येकलक्ष्यावच्छेदेन उभयोः प्राप्तिरस्त्येव । 'उभयो- रेककालावच्छेदेन प्राप्तौ सत्यामेव बाधकता' इति नियमो नाङ्गीक्रियते । उत्सर्गशास्त्रीयप्राप्ति- प्रवृत्त्यन्यतरतानाक्रान्तेऽचारितार्थ्यमात्रमपेक्षितम् । 'त्वत्पुत्रः' इत्यादौ लुकः प्राक् 'तवममौ ङसि' इत्येतत्प्राप्तिसत्त्वात् न तदप्राप्तियोग्यता वर्तते तत्रेति बाधकत्वं युक्तमेवेति बोध्यम् । नन्वेवं सति अनडुह्-शब्दस्थकौमुदीग्रन्थो विरुध्येत, लक्ष्यासिद्धिश्च स्यात् । तथा हि- "आदित्यधिकारात् अवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते, अमा च नुम् न बाध्यते" इति तत्रोक्तम् । एतेन आम्-नुमोरेककालावच्छेदेन प्राप्तिर्वारिता, एककाले प्राप्तौ सत्यामेव बाध्यबाधकत्वमिति तदाशयात् । सम्प्रति आदित्यधिकारेऽपि समानकालिकप्राप्तावेव बाधकत्वमिति नियमाभावेन नुमा आम्बाधः स्यात् , 'अनड्वान्' इति च न स्यादिति चेत् , अत्राहुः--तत्र आदित्यधिकारसामर्थ्याद् बाधाभावः । उपजीव्यविरोधाच्च आकार- मुपजीव्य जायमानो नुम् कथं तद्बाधकः स्यात् । एवञ्च सामर्थ्यादत्र 'तक्रकौण्डिन्य'न्यायप्रवृत्त्या न विरोधो नापि लक्ष्यविसंवादश्चेति तत्त्वम् । वार्तिककारमत इति । तन्मते तदप्राप्तियोग्येऽचारितार्थ्ये सति कृतेऽप्यचारितार्थ्यरूप- सर्वथा निरवकाशत्वे एव बाधकत्वमिति भावः । उत्सर्गेति नियमाभावादिति । भाष्यमते कृते चारितार्थ्येऽपि विषयभेदेऽपि बाधसम्भवेन तत्र 'उत्सर्गे'ति न्यायाविषयत्वादिति भावः । तक्रन्यायाविषये 'उत्सर्गसमाने'ति न्यायः प्रवर्तते न वा ? आद्ये एकाचो द्विर्वचनस्य द्वितीय- द्विर्वचनेन बाधकत्वं भाष्ये उक्तं न सङ्गच्छेत । द्वितीये मपर्यन्तानुवृत्तिवैयर्थ्याभावात् ज्ञापकपर- भाष्यविरोधः । यस्मात् भाष्याविरोधाय ज्ञापकत्वघटनाय चास्य न्यायस्यानुगतरूपेण प्रवृत्ति- लक्ष्यमुच्यते--भाष्यमत इति । अत्र अपवादशास्त्रीयावच्छेदकता च पर्याप्त्या ग्राह्या, अन्यथा एकाच्त्वस्य उभयावच्छेदकत्वेन अनिष्टं स्यात् ।
५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०३ स्थानितावच्छेदकमूत्सर्गशास्त्रीयस्थानितायाः साक्षात्परम्परया वाऽवच्छेदकं तत्रो- त्सर्गसमानेति नियमस्यावश्यप्रवृत्तेः स्वीकारात्, प्रकृते च अपवादप्रत्योत्तरपदयोरित्ये- तच्छास्त्रीयस्थानितावच्छेदकस्य युष्मच्छब्दत्वस्य उत्सर्गशास्त्रीयस्थानितायाः परम्परया अवच्छेदकत्वेन उत्सर्गेति न्यायेन मपर्यन्तस्यैव आदेशसिद्धेस्तदनुवृत्तेर्ज्ञापकत्वस्य सुस्थत्वादिति--केचित्। यत्तु--मपर्यन्तानुवृत्त्यभावेऽपि 'प्रत्ययोत्तरपदयोश्चे'त्यस्य 'द्वन्द्वश्च प्राणी'- त्यस्य समाहारसिद्धैकत्वानुवादकत्ववत् लाघवात् 'त्वमावेकवचने' इत्येतदनुवादत्व- कल्पनेनास्यापि मपर्यन्त एव प्रवृत्त्या तद्वैयर्थ्येन एतत्परिभाषानुमानमिति । तन्न ; 'द्वन्द्वश्च प्राणी'त्यादेः समाहार एकत्वस्य सिद्धत्वेन इतरयोगेऽपूर्वतद्विधायकत्वकल्पना- पेक्षया लाघवात्तदनुवादकत्वकल्पनेऽप्यस्य कस्मिन्नप्यंशे अनुवादकत्वासम्भवेन त्वदुक्त- कल्पनया ज्ञापकत्वयोजनस्याशक्यत्वात् । अन्ये तु--उक्तसूत्रे तदनुवृत्तावन्तरङ्गत्वात् त्वादेशे मपर्यन्तासम्भवेनैतत्सामर्थ्येन उक्तपरिभाषा कल्प्यत इति वदन्ति । अन्ये तु--'प्रत्यय' इत्यधिकारे कर्तव्ये 'अङ्गस्ये'त्यधिकारकरणमस्यां ज्ञापकम्, तत्फलं 'पञ्चक्रोष्ट्री'ति । अत्र हि पञ्चभिः क्रोष्टृभिः क्रीतमित्यर्थे तद्धितस्त्रीप्रत्य- ययोर्लुक्यपि प्रत्ययलक्षणेनाङ्गसंज्ञायां 'स्त्रियां च'ति तृज्वत्त्वं भवति । 'प्रत्यय' इत्य- धिकारे तु 'न लुमताङ्गस्ये'ति प्रत्ययलक्षणनिषेधेन प्रत्ययपरत्वाभावात्तृज्वत्त्वानापत्तिः । एतत्परिभाषाभावे तु 'प्रत्यय' इत्यधिकारेऽप्यन्तरङ्गत्वात् पूर्वमेव तृज्वत्त्वे 'अङ्गस्ये'- त्यस्य वैयर्थ्यं स्पष्टमेवेति वदन्ति । केचित्तु--'त्वमावेकवचने' इति सूत्रे 'विभक्तौ' इत्यनुवृत्तिरेतज्ज्ञापिका । तत्फलन्तु इति केचिदिति । इदं चिन्त्यम्--'छन्दसि वनमेके' इत्यत्रायं नादेशापवादः, तेन 'उत्सर्गसमाने'ति न्यायात् तकारस्यैवेति शेखरग्रन्थविरोधात्, लक्ष्यासिद्धेश्च । तत्रापवादशास्त्रीय- स्थानितावच्छेदकम् असितशब्दत्वं तेनोत्सर्गशास्त्रीया स्थानिता कालत्रयेऽप्यनवच्छिन्नैव इति 'उत्सर्गसमाने'त्यस्याप्रवृत्तेः । वस्तुतस्तु--यथा इनमकजादिषु मित्त्वादिना न्यायबाधः, एवम् 'अजादेर्द्वितीयस्ये'त्यत्रापि द्वितीयग्रहणेन बाध एव वाच्यः 'उत्सर्गसमाने'ति न्यायस्य । एवञ्चास्य प्रवृत्तिः कुत्रेति चिन्ताया नैवावकाशः इति तत्त्वम् । यद्वा--अपवादशास्त्रीयोद्देश्यतापर्याप्त्यधिकरणवृत्त्युद्देश्यताकत्वं यत्रो- त्सर्गशास्त्रस्य, तत्रायं न्यायः प्रवर्तते । असितशब्दवृत्त्युद्देश्यता वर्णादानुदात्तेत्येतच्छास्त्रीयाऽस्त्येव, तस्य वर्णवाचकत्वात् । द्वितीयेकाजनिष्ठा च उद्देश्यता नैकाच इति शास्त्रीयेति न दोषः । अन्ये त्विति । वस्तुतः--इदं ज्ञापकं 'वार्तिकरीत्या' इत्यादिग्रन्थेन स्फुटीभविष्यति । अङ्गस्येत्यधिकारकरणमिति । ननु 'प्रत्यय' इत्यधिकारे मात्राधिक्येन गौरवात् कथमिदमुपपद्यत इति चेन्न । 'यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्' इति संज्ञासूत्रकरणेन लाघवात् 'निरुतं दुरुतम्' इत्यत्र च 'प्रत्यये' इत्यनेन आक्षिप्ततदादिघटकस्यैव हलो ग्रहणमिति न दोष इति बोध्यम् । विभक्तावित्यनुवृत्तिरिति । तदनुवृत्तौ च 'प्रत्ययोत्तरपदयोश्च' इति सूत्रमेव ज्ञापकम् ।
२०४ परिभाषेन्दुशेखरः [ २ प्रकरणे- युष्मदादिभ्य आचारक्विप् तु न सम्पूर्णसूत्रस्य ज्ञापकतापरभाष्य- प्रामाण्यात् ‘ह्रस्वनद्याप’ इति नुड्विधायकसूत्रस्थभाष्यप्रामाण्येन हलन्तेभ्य ‘युष्मत्सुन्दरपुत्र’ इत्यत्रैतदप्रवृत्तिरेव । एतत्परिभाषासत्त्वे तु विभक्तिपदानुवृत्तेः सत्त्वासत्त्वयोरपि त्वमयोर्दुर्व्वारतया तदसङ्गतिः स्पष्टैवेति प्राहुः । अन्ये तु—त्वमेति सिद्धे ‘प्रत्ययोत्तरपदयोश्चे’त्यस्य वैयर्थ्येन सामर्थ्यात्त्व- ममादिशास्त्रबाधककल्पनापेक्षया अन्तरङ्गपरिभाषाप्रवृत्तिबोधकैतत्परिभाषाज्ञापकत्व- स्यैवौचित्यमिति वदन्ति । परे तु—त्वममौ ङ्स्यलुकीति न्यासेन अलुकीत्यस्य ‘तुभ्यमह्यौवि’त्यत्र सम्ब- न्धेन च ‘त्वत्पुत्र’ इत्यादौ त्वममादिव्यावृत्त्या ‘तव पुत्र’ इत्यादावलुक्समासे व्यासे च तवादिसिद्ध्या प्रत्ययोत्तरेति सूत्रमेवोक्तार्थे ज्ञापकम् । ज्ञापिते त्वस्मिन्वचने ‘त्वदीयस्त्वत्पुत्र’ इत्यादौ ‘त्वमावेकवचने’ इत्यस्य विभक्तिपरत्वाभावेनाप्राप्त्या त्वा- द्यादेशार्थं सूत्रं तच्चरितार्थमिति प्राहुः । ‘ह्रस्वनद्याप’ इति नुड्विधायकसूत्रस्थभाष्येति । तत्र हि ‘अथास्य कस्मान्न भवती’- त्यादिना ‘कास्प्रत्यया’दिति विहितस्यामो नुटमाशङ्क्य, ‘सानुबन्धकत्वेन समाधा- योक्तम्—‘स तर्ह्यर्थमर्थमनुबन्धः कर्तव्यः । ननु चावश्यमित्संज्ञापरित्राणार्थमनुबन्धः कर्तव्यः । नार्थ इत्संज्ञापरित्राणार्थेन । इत्संज्ञाकार्याभावादित्संज्ञा न भविष्यति । इदमस्तीत्कार्यं ‘मिदचोऽन्त्यात्पर’ इति । प्रत्ययान्तादयं विधीयते तत्र नास्ति विशेषः, ‘मिदचोऽन्त्यात्पर’ इति वा परत्वे परश्चेति वे”ति । अत्र कैयटः—‘‘हलन्तेभ्य आचारक्विबन्तेभ्य आम्स्यस्त्येव विशेषः । नैतदस्ति, ज्ञापकत्वस्यैवौचित्यमितीति । वस्तुतस्तु—अनैयायिकबाधकल्पनापेक्षया नैयायिकबाध- कल्पनाया एवौचित्येन प्रकृते ‘येन नाप्राप्ति’न्यायमूलकनैयायिक-त्वममादिबाधककल्पनामनादृत्य परिभाषाकल्पनाद्वारा त्वममादिबाधककल्पनाया अनैयायिक्या अनीचित्यमेव । अत एव ‘अकः सवर्णे दीर्घः’ इत्यनेन निरवकाशमूलक-‘येन नाप्राप्ति’न्यायेन ‘इको यणचि, आद्गुणः’ इत्यनयो- र्बाधसिद्धिः । अन्यथा ‘अकः सवर्णे दीर्घः’ इत्यनेन शास्त्रद्वयबाधकल्पनापेक्षया सामर्थ्यात् ‘तस्मि- न्निति’ परिभाषापोपस्थिताब्यवहितांशत्यागकल्पनेनैव ‘देवदत्तः’ इत्यादौ दकारेण व्यवधानेऽपि वकाराकार-दकाराकारयोर्दीर्घविधानेन चारितार्थ्ये ‘इको यणचि, आद्गुणः’ इत्यनयोर्बाधो न स्यात् । प्राहुरिति । न च ‘तव पुत्रः प्रियो यस्य’ इति त्रिपदबहुव्रीहौ मध्यमपदेन व्यवधानात् उत्तरपदपरत्वाभावेन ‘सूत्राप्राप्त्या परिभाषाया इदानीमभावेन तवादेशप्रवृत्तिः, अलुकि तु नेति फलभेदापत्तिरिति वाच्यम्; व्यधिकरणपदबहुव्रीहिकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैवौचितत्वा- दिति भावः । ननु युष्मदस्मच्छब्दाभ्यामाचारक्विपि विभक्तिपरकत्वाभावेन ‘त्वमावेकवचने’ इत्यस्य प्राप्त्यभावेन ‘प्रत्ययोत्तरपदयोश्च’ इत्यस्य चारितार्थ्यसद्भावेन ‘त्वममादिबाधनार्थमि’त्युक्ति- रसङ्गतैव, सति फलान्तरे बाधकबाधनार्थत्वोक्तेरयुक्तत्वादत आह मूले—युष्मदादिभ्य आचारेति । अत्र कैयट इति । अस्य ‘इत्याह’ इत्यग्रिमेण साकमन्वयः ।
त्तित्त्वेन"? Look at: इ - त्य - नु - वृ - त्ति - त्वे - न. It has 'त्ति' and 'त्वे' (single त in त्वे). So "इत्यनुवृत्तित्वेन".
Line 27: "णिजुत्पत्तेर्विभक्तिपरत्वाभावात् इति शेखरमतम् ।" Wait, is it "णिजुत्पत्तेर्विभक्तिपरत्वाभावादिति" or "णिजुत्पत्तेर्विभक्तिपरत्वाभावात् इति"? Looking at line 27: "णिजुत्पत्तेर्विभक्तिपरत्वाभावादिति" -> wait: णि जु त्प त्ते र्कि [र्वि] भ क्ति प र त्वा भा वा दि ति Look at the syllable before 'ति': 'दि'! 'भा' 'वा' 'दि' 'ति' -> भावादिति! Yes, भावादिति शेखरमतम् । Not भावात् इति!
Line 28: "अस्मद्गुरुचरणास्तु--अनभिधानं नाभिधेयमिति प्राहुः । तथा हि, 'प्रत्ययोत्तरपदयोश्च'" Yes!
Line 29: "इत्यत्र 'विभक्तौ' इत्यनुवर्तते न वा ? स्वीकृते सम्बन्धे प्रत्ययोत्तरपदाव्यवहितपूर्वत्वविशिष्टविभक्त्य-" Yes!
Line 30:
ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था । न च ‘उत्सर्गसमानदेशा अपवादा’ इति न्यायेन असिद्धवत्सूत्रस्थभाष्यसम्मतेन मपर्यन्तस्यैवाऽऽदेशे सिद्धे तदनुवृत्तिर्व्यर्थेति वाच्यम् ; तस्य इनमकजादौ व्यभिचारादिति चेन्न । इनमि मित्त्वेन बहुचि पुरस्ताद् ग्रहणेनाकचि प्राक् टेर्ग्रहणेन तस्य बाधेऽपि अत्रोत्सर्गस्य त्यागे मानाभावात् । अत एव ‘तस्मिन्नणि चे’त्यनेन युष्माकाद्यादेशविधानं चरितार्थम्, अन्यथा आकङादेशमेव विदध्यात् । आकङि तवकाद्यादेशयोरेतदपवादयो- वस्तुतस्तु—‘त्वमावेकवचने’ इति योगविभागसामर्थ्येन ‘प्रत्ययोत्तरपदे’ति सूत्रे सिद्धान्तेऽपि विभक्तावित्यस्यानुवृत्त्याऽत्र प्रत्ययपरकविभक्त्यभावादेव एतदप्राप्तेर्णिजादे- रनभिधाने न मानम् । असिद्धवत्सूत्रस्थभाष्येति । तत्र हि भाष्ये ‘एधी’त्यस्य तत्सूत्रोदाहरणत्वखण्डना- वसरे उक्तम्—‘‘एत्वं लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोती’’त्युक्तम् । उक्तन्यायानाश्रयणे एत्वस्य लोपस्थान्यकारस्थानिकत्वासम्भवेन तदसङ्गतिरेवेति भावः । अन्यथा आकङादेशमेवेति । ननु युष्माकाद्यादेशस्य साकच्कापहारकत्वेन
५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०७ इत्यादी ‘अक’ इत्यस्य निर्दिश्यमानावयवत्वमुपलक्षणमित्यत्र तात्पर्यग्राहकत्वेन इदकम्- शब्दावयवेऽद्भागस्याकचः प्राङ् निर्दिश्यमानावयवत्वेन प्राप्तत्तदादेशवारणाय चरि- तार्थत्वेन अकज्विशिष्टे निर्दिश्यमानत्वाभावेन युष्मकच्छब्दे फलभेदाभावात् । तस्मि- न्नणि च मादाक इति न्यासेन युष्मदाद्यवयवमवर्णादवशिष्टयुष्मदाद्यवयवस्याकादेश इत्यर्थकेन साकचि फलभेदाभावेनेष्टसिद्धेः युष्माकाद्यादेशस्य उक्तार्थज्ञापकत्वे बाधका- भावाच्च । नन्वेवमपि ‘अन्तरङ्गानपि’ति न्यायसत्त्व एव युष्माकाद्यादेशानां वैयर्थ्यम्, अन्यथा युवयोरयमित्यर्थे खञि ‘युष्मद् + ओस् + ईन’ इति स्थितेऽन्तरङ्गत्वाद् युवादेशे लुकि आकङि ‘यौवाकीन’ इति युवद्-शब्दस्य युष्मकाद्यादेशे तु ‘य
२०८ परिभाषेन्दुशेखरः [ २ प्रकरणे- रुक्तन्यायेन अन्त्यादेशत्वापत्तिः, अतस्तद्विधानम् ; इदमेव च तज्ज्ञापकम् । यद्यपि विरोधे बाधकत्वमिति वार्तिकमतेऽयं न्यायः, भाष्यकारस्तु विनाऽपि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छतीति 'अनभिहित'सूत्रस्थकैयटरीत्या नायं नियमः ; तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रियत एवेति प्रकृते न दोष । एतद्भाष्यमपि तत्स्वीकारे मानम् । एवं च मपर्यन्तानुवृत्तिः 'त्वत्कृतमि'त्यादौ मपर्यन्तस्याऽऽदेशविधा- नार्था । तत्र चान्तरङ्गत्वात् त्वमावित्येव सिद्धे व्यर्था सा एतज्ज्ञापिका । ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्त- स्यैवाऽऽदेशार्थं सा चरितार्थेति तदाशयः । अन्ये तु—उक्तज्ञापकेन तद्धितनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकरूपाव- च्छिन्नोद्देश्यताके कार्ये तद्धितपरत्वेन सम्भावितविभक्तेरविद्यमानवद्भाव इति कल्पनया प्रकृते तद्धितोद्देश्यतावच्छेदकयुष्मच्छब्दत्वावच्छिन्नोद्देश्यताक युवादेशे विभक्तेरविद्यमानत्वेन युवादेशाप्राप्त्या नोक्तज्ञापकताहानिरिति वदन्ति । विरोधे बाधकत्वमिति । उत्सर्गापवादयोः समानदेशत्व एव बाधकत्वमित्यर्थः । एतेन भाष्यकृन्नयेऽपि विरोधे एव बाधकत्वेनेदमयुक्तमित्यपास्तम् । वार्तिकमताद् भाष्यमते विशेषमाह—विनापि विरोधमिति । उत्सर्गापवादयोः समानदेशत्वाभावेऽपी- त्यर्थः । अत एव 'भवेदि'त्यादौ इयादेशेन दीर्घबाधसिद्धिः । सत्यपि सम्भव इति । कृते चारितार्थ्येऽपीत्यर्थः । अत एव 'सर्वेषामि'त्यत्र सुटा नुटो बाधः सिद्ध्यति । नायं नियम इति । उत्सर्गापवादयोः समानदेशत्वमिति नियमो नेत्यर्थः । उत्सर्गः स्वीक्रि- यत एवेति । प्रायिकोऽयमुत्सर्गसमानदेशा इत्यर्थोऽत्र 'अन्तरङ्गानि'ति परिभाषाज्ञापनाय स्वीक्रियते, 'भवेदि'त्यादिलक्ष्यसिद्धये परित्यज्यत इति भावः । एतद्भाष्यमिति । 'अन्तरङ्गानि'ति परिभाषाज्ञापनपरं भाष्यम् 'उत्सर्गे'ति वचनस्वीकारे मानम्, अपि- शब्दाद् युष्माकाद्यादेशविधानसङ्ग्रहः । उत्सर्गे'ति न्यायास्वीकारे मपर्यन्तानुवृत्ति- ज्ञापकतापरोक्तभाष्यासङ्गतिः स्पष्टैवेति भावः । त्वमावित्येव सिद्ध इति । अस्य 'त्वत्पुत्र' इत्यादौ तु त्वमाविति बाधित्वा प्राप्तस्य 'तवममौ ङसी'ति सूत्रस्य बाधनाय कृते 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रे त्वप- वादत्वादेवोक्तन्यायेन 'मपर्यन्तस्ये'त्यर्थस्य सिद्धेरिति शेषः । अत एव 'तवादीना- मप्राप्त्ये'त्याद्युत्तरग्रन्थसङ्गतिः । उत्सर्गेति न्यायस्वीकारमन्तरेव भाष्योक्तमपर्यन्तानुवृत्तेरुक्तपरिभाषाज्ञापकत्व- सम्भवे कथमेतद्भाष्यम् 'उत्सर्ग'ति न्यायस्वीकारे मानम् । अत एव भाष्य उत्सर्गेति अन्ये त्विति । अत्रापि कल्पे प्रथमकल्पवद् भाष्यविरोधो दुर्वार एवेति बोध्यम् ।
५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०९ यत्तु हरदत्तेन अन्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिः व्यर्था सती ज्ञापिकेत्युक्तम् । तन्न ; अन्तरङ्गाणामप्यपवाद- बाध्यत्वेन तद्विषये तदप्रवृत्तेः । वस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः । इयं 'सुपो धातुत्वि'ति लुग्विषयैवेति केचित् । 'एङ ह्रस्वात् सम्बुद्धेः, न यासयोरि'ति सूत्रस्थाऽऽकरप्रामाण्येन लुग्मात्रविषया । आद्ये 'हे त्रपु' इत्यादौ अनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्ये न्यायो नोक्त इत्याक्षिपतो हरदत्तस्य मतं खण्डयितुमनुवदति—यत्त्विति । मपर्यन्ता- सम्भवेति । न च 'मदीय' इत्यत्र ममादेशे तत्सम्भव
२१० परिभाषेन्दुशेखरः [ २ प्रकरणे- अन्तरङ्गांश्च विधीन् सर्वोऽपि लुग्बाधते, न तु सुब्लुगेव । अत एव 'सनीस्रंस' इत्यादौ नलोपो न भवति । 'पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व' इत्यादौ एकादेशात्प्रागेव टापो लुक् । अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कैयटे उक्तम् । एतद्विरोधात् 'यत्तद्राजस्ये'ति सूत्रे कैयटेनोक्तम् ‘अङ्गानतिक्रान्तोऽत्यङ्ग’ इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्रा- जस्ये'ति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरे 'अन्तरङ्गानपी'ति न्यायेनायं लुक् सुब्लुको बाधकः स्यादि'त्याशङ्क्य "सुब्लुक् एवानेन बलवत्त्वं बोध्यत" इति, तत्प्रौढेयेति द्रष्टव्यम् । लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम् । प्रवृत्तिस्वीकारे बाधकाभावेन भाष्यविरोधस्य दुष्परिहरत्वात् । अपिशब्दघटितपाठे एतद्भाष्यमपि मानम् । अपिनाऽत्र लाक्षणिकस्य सङ्ग्रहः । लुग् न स्यादिति । तद्राज- सूत्रे बहुष्वित्यस्य बहुवचने परे इत्यर्थः । 'अति + अंग् + अ + अस् + स्' इत्यव- स्थायां सामासिकशसो लुकि 'न लुमते'ति निषेधात् प्रत्ययलक्षणाभावेन बहुवचन- परत्वाभाव इति शङ्काशयः । केचित्तु—'आशङ्क्ये'त्यस्याग्रे 'लुगपेक्षयेत्यादि वक्तुं युक्तमि'त्यन्तं ग्रन्थं संयोज्य, 'परं तदनुक्त्वा यदि'ति शेषं प्रपूर्य, 'सुब्लुक्' इति योजयन्ति । तथा च इत्याशङ्क्य लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम्, परं तदनुक्त्वा यद् सुब्लुक एवानेन बलवत्त्वं बोध्यत इत्युक्तं तत्प्रौढ्येति द्रष्टव्यमिति योजना । तत्र बीजमाह—अनेनेति । तथा चात्र सुब्लुक एवान्तरङ्गनिमित्त- विनाशकत्वेन प्राबल्यम्, न तु तद्राजलुकः, तस्यान्तरङ्गनिमित्तविनाशकत्वाभावादिति ग्रन्थरहस्यमाहुः । एतत्फलमप्यूर्णुहीति । 'उतश्चे'ति लुकोन्तरङ्गगुणनिमित्तविनाशकत्वाभावेन बलवत्त्वाभावात् अन्तरङ्गत्वात् लघूपधगुणे संयोगपूर्वकोकारात् परत्वेन न हेर्लुक् । मूले—सनीस्रंस इत्यादाविति । स्रंसेर्यङ्लुगन्ताद्विचि सनीस्रंस् इत्यस्मात् जसि रूपमिदम्, न तु यङन्तात् पचाद्यचि यङो लुकि रूपम् । एतेन 'न धातुलोपः' इति सूत्रस्य आरम्भ-प्रत्याख्यानयोः फलभेदाभावाय तादृशलक्ष्याणामनभिधानात् कैयटश्चिन्त्य एवेति परास्तम् । नहेर्लुगिति । नन्वत्र 'उपसञ्जनिष्यमाण'न्यायेन लुकोऽप्राप्तिः । अस्ति चात्र सम्भा- वना—"यदि पूर्वं लुक् न स्यात्, तर्हि गुणे कृते 'असंयोगादि'ति निषेधः प्रवर्तेत" इत्याकारिका । अवश्यञ्चैतादृशनिषेधस्थलेऽपि उक्तन्यायप्रवृत्तिरभ्युपेया । अन्यथा 'ऋदुपधेभ्यः' इति वार्तिकं व्यर्थ- मेव स्यात् । तद्धि 'ववृके' इत्यत्र परत्वात् प्राप्तस्य गुणस्य निषेधाय । तत्र "यद्यत्र गुणो न स्यात् तर्हि कित्त्वं स्यादि"ति सम्भावनया पूर्वं गुणाभावेन तद् व्यर्थं स्यात् । मम तु "यद्यत्र गुणो न
५३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २११ अनेन न्यायेन अन्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः ॥ ५२ ॥ नन्वेवं सौमेन्द्रेऽन्तरङ्गत्वात् आद्गुणे पूर्वपदात्परेन्द्रशब्दाभावेन ‘नेन्द्रस्य परस्ये’ति वृद्धिनिषेधो व्यर्थः । अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः । किञ्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि पूर्वान्त- वत्त्वेनैकादेशविशिष्टे पूर्वपदत्वेन इन्द्रशब्दस्य एकदेशविकृतन्यायेन ‘उभयत आश्रयणे नान्तादिवत्’ इत्यस्याभावेन तदाश्रयेण वा उत्तरपदत्वेऽपि तस्यानच्कत्वात् एकस्यैकादेशेन परस्य नित्येन यस्येति लोपेनापहारात् । तथा सर्वस्तोमादिबहुव्रीहौ ‘सर्वस्य सुपी’त्याद्युदात्तं बाधित्वा सामासिके लुकि सर्व- शब्दस्य उञ्छादित्वादन्तोदात्ते बहुव्रीहौ प्रकृत्येत्यन्तोदात्तपूर्वपदकत्वापत्तिर्न । किन्तु सौवरीणां सप्तानां तदन्तसप्तमीत्वेन कृतेऽपि सामासिके लुकि ‘सर्वस्य सुपी’त्यस्य प्रवृत्तिसम्भवेन तस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पूर्वमप्रवृत्त्या ‘सर्वस्य सुपी’- त्याद्युदात्ते कृते ‘बहुव्रीहौ’ इति प्रकृतिस्वरे आद्युदात्तपूर्वपदकत्वमेव सिद्ध्यति । तत्प्रयोजकसमासेति । आदिना प्रातिपदिकसंज्ञादिसङ्ग्रहः । अत एव ‘राजपुत्री’- त्यत्र लुकः समासस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पुत्रशब्दात् ङीनि नित्त्वादा- द्युदात्ते कृते ततः समासे समासस्येत्यन्तोदात्तत्वं सिद्धयति । अन्यथा पूर्वं समासे ङीनि नित्स्वर-समासस्वरयोः प्राप्तौ अन्तरङ्गत्वात्समासस्वरं बाधित्वा नित्स्वरेऽनिष्ट- स्वरापत्तिरिति दिक् ॥ ५२ ॥ अन्तादिवत्त्वोभयाभावेऽपीति । केचित्तु — अपिस्त्वर्थे । तथा च अन्तादिवत्त्वोभया- भावे तु ‘उभयत आश्रयणे नान्तादिवदि’ति निषेधाभावेन पूर्वान्तवत्त्वेनैकादेश- विशिष्टे पूर्वपदत्वेन एकदेशविकृतन्यायेन तदाश्रयणेन उत्तरपदत्वातिदेशेन इन्द्र- शब्दस्य चोत्तरपदत्वेऽपि तस्यानच्कत्वात् वृद्धिरप्यत्र न प्राप्नोतीत्येतदन्वयमाहुः । अन्ये तु—उभयत आश्रयणे नान्तादिवदित्यस्य निषेधस्याभावेन वस्तुतो- ऽस्वीकारेणेत्यर्थः । प्रकारान्तरमाह—तदाश्रयणेन वेति । उभयत आश्रयणे इति वचनस्य आश्रयणेन वा अन्तादिवत्त्वोभयाभावेऽपि अन्तादिवत्त्वोभयस्य अतिदेशा- भावेऽपीत्यर्थः । ततो यथाश्रुतमन्वयमाहुः । वस्तुतस्तु — ‘उभयत आश्रयणे नान्तादिवदित्यस्याभावेन तदाश्रयणेन वा’ इत्यन्तग्रन्थोऽत्र प्रक्षिप्तो बोध्यः । स्यात्तर्हि कित्त्वं स्यात्, यदि च कित्त्वं न स्यात्तर्हि गुणे कृते “असंयोगादि'ति निषेधः स्यादि”ति परस्परं सम्भावनाद्वयसत्त्वेन 'सुन्दोपसुन्द'न्यायेन 'उपसञ्जनिष्यमाण'न्यायाप्रवृत्त्या परत्वात् गुण प्राप्ते तदावश्यकमिति नेदं फलमित्यत आह—तथा सर्वस्तोमेति ॥ ५२ ॥
२१२ परिभाषेन्दुशेखरः [ २ प्रकरणं- न च परादिवद्भावेन एकादेशविशिष्टस्य उत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम् ; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्ते- स्ताद्रूप्यानतिदेशात् । अन्यथा 'खट्वाभिर्'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम् । अत एव 'पूर्वेषुकामशम' इत्यादौ अन्तरङ्गत्वाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम् । तदेकदेशमात्रस्य विकारा- भावाच्च । ताद्रूप्यानतिदेशादिति । ननु 'क्षीरपेणे'त्येत्र एकाजुत्तरपदत्वस्यातिदेशाय स्ववृत्तित्व- स्वस्थानिकादेशावृत्तित्वोभयसम्बन्धेन अन्तादिवर्णविशिष्टस्यैव अल्मात्रवृत्तिधर्मस्य ताद्रूप्यपदेन ग्राह्यतया सोमेन्द्रेऽतिदेष्टव्यस्य अच्त्वरूपस्य अल्मात्रवृत्तिधर्मस्य स्व- स्थानिकैकाररूपादेशवृत्तित्वेन तत्त्वाभावान्निषेधाप्रवृत्तिः । किञ्च एन्द्रघटक एकारे अच्त्वस्य सिद्धतया उत्तरपदत्वस्यातिदेष्टव्यस्य च निषेधाविषयत्वेन उक्तसमाधेरसम्भ- वश्चेति चेन्न । 'अन्तादिवच्चे'त्यनेन शास्त्रीयधर्मस्यैवातिदेशेन उत्तरपदत्वमात्रधर्मस्या- शास्त्रीयत्वेन अतिदेशासम्भवात् । ताद्रूप्यपरिष्कारे निरुक्तसम्बन्धद्वयेन स्वविशिष्टा- ल्मात्रवृत्तिधर्मस्य विशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितस्यैव ग्रहणादच्त्वस्य उक्त- ताद्रूप्याभावेऽपि उत्तरपदादित्वरूपविशेषणदलप्रविष्टधर्मेण सङ्कुचितस्य तादृशस्य उत्तरपदाद्यच्त्वस्य स्वस्थानिकादेशावृत्तित्वेन स्ववृत्तित्वेन चोक्तरूपतया न वा ताद्रूप्या- दिति निषेधविषयत्वस्य सुवचत्वात् । उत्तरपदाद्यच्त्वरूपशास्त्रीयधर्मघटितत्वेन शास्त्री- यत्वाक्षतेः । अत एव 'प्रपठ्ये'त्यत्र वल्त्वरूपशास्त्रीयधर्मघटितत्वेन वलादित्वस्य शास्त्रीयतया स्थानिवत्त्वेन अतिदेशमाशङ्क्य विशेषणतया अलाश्रयणादनल्विधाविति निषेध इत्युक्तमाकरे । अत एवेति । ताद्रूप्यस्यानतिदेशादेवेत्यर्थः । पूर्वेषुकामशम इति । पूर्वा चासौ इषुकामशमी च तस्यां भवेत्यर्थेऽणि प्राचां ग्रामनगराणामिति वृद्धिर्बहिरङ्गतयाऽन्त- रङ्गतवादाद्गुणे उत्तरपदाद्यच्त्वाभावाद् वृद्धिर्न स्यादिति भावः । ननु ऐन्द्रशब्दस्य एक- देशविकृतन्यायेनोत्तरपदत्वं तेनैव सोमिति मान्ते इत्येकारान्ते च पूर्वपदत्वं चास्तु, तावता च न पूर्वोक्तदोषावकाश इति शङ्कां मनसि निधायाऽऽह — तदेकदेशेति । अस्य न्यायस्य लौकिकत्वेन लोके तत्रैव प्रवृत्तिदर्शनेनात्र तद्विषयाभावात् । ग्रन्थरहस्यविदस्तु—किञ्च 'वृद्धिप्रप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि'- त्यन्तमेकं वाक्यम् । अत्रापिश्चार्थे । यथा उभयत आश्रयणेऽन्तादिवद्भावनिषेधाद् वृद्धिनिषेधो न प्राप्नोति, एवम् अन्तवत्त्वादिवत्त्वोभयस्यातिदेशाभावे वृद्धिर्पि न प्राप्नोतीत्यस्यार्थः । वृद्धिप्राप्तिं प्रकारद्वयेनोद्भावयति—पूर्वान्तवत्त्वेनेति । पूर्वान्त- वत्त्वेनैकादेशविशिष्टे सोमे शब्दे पूर्वपदत्वे इन्द्रशब्दस्यैकदेशविकृतन्यायेन उत्तर- पदत्वे उभयत आश्रयणेति निषेधाभावेन वृद्धिं प्राप्नोतीति सम्बन्धः । द्वितीयं वृद्धिप्राप्तिप्रकारमाह—तदाश्रयणेति । तदाश्रयणेन = एकदेशविकृतन्यायाश्रयणेन सोमिति मान्ते पूर्वपदत्वे ऐन्द्रशब्दे उत्तरपदत्वे उभयत आश्रयणे नान्तादिवदित्यस्याभावेन
५३-५४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१३ तदुक्तं भाष्ये—'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोऽपर एका- देशेन ततोऽनच्क इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धे'रिति । मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह— पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ ५३ ॥ —: ✤ :— अत्र च नेन्द्रस्येति निषेध एव ज्ञापक इति 'अन्तादिवच्च' विप्रतिषेधे परमि'ति सूत्रयोर्भाष्ये स्पष्टम् ॥ ५३ ॥ नन्वेवमपि 'प्रधाय, प्रस्थाये'त्यादौ अन्तरङ्गत्वाद्वित्त्वादिषु कृतेषु ल्यप् स्यादत आह— अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ॥ ५४ ॥ —: ✤ :— 'अदो जग्धिर्'िति सूत्रे ति कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञापक- मिति 'अदो जग्धिर्'ित्यत्र भाष्ये स्पष्टम् ॥ ५४ ॥ ────────────────── वृद्धिनं प्राप्नोतीति सम्बन्धः । आद्यस्योत्तरमाह—तस्यानच्कत्वादिति । द्वितीयस्योत्तर- माह—तदेकदेशमात्रस्येति । पूर्वकल्पेषु एतद्विषयकशङ्कामकृत्वैव समादधानस्य ग्रन्थकर्तुः शून्यहृदयत्वमापद्येतेत्याहुः । मरुदादिभिरिति । न च विष्ण्वादिशब्दैरिन्द्रशब्दस्य समासे निषेधस्य चारिता- र्थ्यम् । न च 'अभ्यर्हितं चे'त्यपेक्षयाऽजाद्यदन्तमित्यस्य प्राबल्यमिति वाच्यम्, तथा सति 'वासुदेवार्जुनाभ्यां वुञि'ति सौत्रनिर्देशानुपपत्तेरिति वाच्यम्; ज्ञापकपरोक्त- भाष्यप्रामाण्येन प्रसिद्धसाहचर्यक-देवताद्वन्द्वे एव विधि-निषेधयोः प्रवृत्तिकल्पनेना- दोषात्, विष्णोरिन्द्रावरजत्वेन इन्द्रस्यैवाभ्यर्हितत्वाच्च । सोमस्य तु अमृतरूपान्नदातृ- त्वेन पितृसमत्वात् महाप्रलयपर्यन्तस्थायित्वात् शिवशिरोधृतत्वाच्च अभ्यर्हितत्वेन पूर्वनिपातः । पूर्वोत्तरपदनिमित्तकार्यादिति । अत्र पूर्वोत्तरपदयोर्निमित्तता च पूर्वपदत्वेनोत्तर- पदत्वेनेति नाग्रहः । अत एव 'परमाहमि'त्यादौ सवर्णदीर्घात्पूर्वमनया परिभाषया मपर्यन्तस्य आदेशसमर्थनपरम् 'अदस औ सुलोपश्चे'ति सूत्रस्थं भाष्यं सङ्गच्छते ; अन्यथा 'त्वाद्दौसावि'त्यादौ पूर्वोत्तरपदत्वयोरनिमित्तत्वेन तदसङ्गतिरेव स्यादिति बोध्यम् । एकादेशो नेति । अयं सन्धिकार्यस्योपलक्षणम्, तेन 'रात्रिमट' इत्यादौ रात्रेः कृती'ति मुमः पूर्वमन्तरङ्गो यणादेशो नेति सिद्धम् । ल्यब्ग्रहणमस्या ज्ञापकमिति । ननु ल्यब्ग्रहणेन प्रकृतिप्रत्ययोभयमात्रनिमित्तका- न्तरङ्गकार्याणां ल्यब्विषये अप्रवृत्तिरित्येव ज्ञाप्यतां 'नल्यपी'ति सूत्रं च न
२१४ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवम् ‘अपीयाये’त्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात् सवर्णदीर्घत्वे तद- सिद्धिरत आह— वार्णादाङ्गं बलीयो भवति ॥ ५५ ॥ —: ✤ :— तेन अन्तरङ्गमपि सवर्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः । ‘अभ्यासस्यासवर्णे’ इतीयङ्विधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्, तद्धि ‘ईषतुरि’त्यादौ इयङादिव्यावृत्त्यर्थम् । एतत्परिभाषाभावे तु ‘ईष- तुरि’त्यादौ अन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम् । इयडुवङौ ह्यभ्यास- कार्यमिति चेन्न । ‘अधीत्ये’त्यादौ तुकादेरप्रवृत्तिप्रसङ्गात् क्त्वाश्रयानुबन्धकार्याणां ल्यब्विषये प्रवृत्त्यभावस्तु उक्तज्ञापकेन कल्पयितुमशक्यः, ‘प्रलय्ये’त्यादौ गुणनिषेधा- नापत्तेः, ‘प्रोह्य गत’ इत्यत्र सम्प्रसारणस्य, ‘प्रमथ्ये’त्यादौ नलोपादेश्चानापत्तेरित्यत्र विस्तरः ॥ ५४ ॥ सवर्णदीर्घत्व इति । ननु द्वित्वस्यापि बहिरङ्गत्वेन असिद्धत्वादीर्घाप्राप्तिः । न च नाजानन्तर्य इति निषेधः, तस्या असत्त्वादिति चेन्न । तदसत्त्वेऽपि तद्विषये बहि- रङ्गपरिभाषायाः प्रमाणसत्त्व एव प्रवृत्त्याऽत्र प्रवृत्तौ प्रमाणाभावात् । अत एव ‘ऊखतु- रि’त्यत्र दीर्घसिद्धिः, प्रकृतपरिभाषाज्ञापनपरभाष्यञ्च सङ्गच्छते । अभ्याससम्बन्धनिमित्त- कत्वादिति । द्वित्वप्रयोज्यसंज्ञावन्निमित्तककार्यविधायके द्वित्वप्रयोजक इत्यस्याध्या- हारादित्यर्थः । अत्र च ‘ह्वः सम्प्रसारणमि’ति सूत्रमेव मानम्, अन्यथा ‘अजूहवदि’त्यत्र ‘अभ्यस्तस्य चे’त्यनेनैव सम्प्रसारणसिद्धौ तद्वैयर्थ्यापत्तिः । मम तु ‘अभ्यस्तस्य चे’- त्यत्र द्वित्वप्रयोजक इत्यस्य सत्त्वेन ‘अजूहवदि’त्यत्र णिचा व्यवधानात्तदप्राप्त्या ‘ह्वः सम्प्रसारणमि’त्यस्य सार्थक्यं स्पष्टमेव । अत एव ‘प्रजिह्वायकीयषती’त्यत्र ‘अभ्यस्तस्य मूले—अन्तरङ्गत्वादिति । वृद्धयपेक्षयेति भावः । ननु द्वित्वस्यापि बहिरङ्ग- त्वेनेति । इदं चिन्त्यम्—अन्तरङ्गशास्त्रस्य सवर्णदीर्घस्य प्रवृत्तौ निमित्तत्वेनाऽऽश्रीयमाण- समुदायस्य ‘इ इ’ इत्यस्य द्वित्वविधौ निमित्तत्वेनाऽऽश्रयणाभावात् द्वित्वशास्त्रस्य अन्तरङ्ग- शास्त्रीयनिमित्तसमुदायनिमित्तकत्वे सति तदितरनिमित्तकत्वरूपबहिरङ्गत्वाभावात् । नापि स्थानिद्वारा घटकमात्रनिमित्तकत्वमन्तरङ्गत्वम्, दीर्घविधेः षाष्ठद्वित्वस्य स्थाने द्विर्वचनाभावमभ्यु- पगमात् । नापि च बहिरङ्गशास्त्रीयेण येन केनचित् प्रथमान्तभिन्नेन पदेन ‘धातोरि’त्यनेनाऽऽश्रीय- यमाणैकारपर्याप्तनिमित्तताप्रयोजक सप्तम्यन्तपदघटितत्वरूपमन्तरङ्गत्वं सवर्णदीर्घस्य, अन्ते सन्नि- विष्टस्याऽऽगन्तुकस्य ‘धातोः’ इत्यनेनाऽऽश्रयणाभावात् । नापि यदीयसप्तम्यन्तनिमित्तात् पूर्वं यदीयसप्तम्यन्तनिमित्तं तदन्तरङ्गमिति अन्तःकार्यत्व रूपान्तरङ्गत्वं दीर्घस्य, तादृशान्तरङ्गत्व- सत्त्वेऽपि तस्य समकालप्राप्तबहिरङ्गसिद्धत्वनियामकत्वेन अकिञ्चित्करत्वात् ।