भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 231, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 231

ननु ‘तव पुत्रस्त्वत्पुत्र’ इत्यादौ तव-ममादिबाधनार्थं तदावश्यकमिति चेत्, एवं तर्ह्यत्रत्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः । अन्तरङ्गत्वाल्लुगापत्तिवारणे गत्यन्तराभावात्, ‘यश्चोभयोः समो दोषः परिहारस्तयोः सम’ इति न्यायेन अपिशब्दनिवेशे दोषदानस्यानुचितत्वाच्च । ‘तत्कुलम्’ इत्यत्र परिभाषा- यामपिशब्देन लुको ‘दण्डापूपिक’न्यायेन पराद्यन्तरङ्गान्तश्शास्त्रबाधकत्वबोधनेऽप्यपवाद- शास्त्रबाधकत्वे मानाभावात् ‘उपसञ्जनिष्यमाण’न्यायेन ‘अतोऽम्’त्यस्य विषये लुको- ऽप्रवृत्तेर्वार्तिकस्य अमादेशबाधनायाऽऽवश्यकत्वात् । केचित्तु— ‘भवतादि’त्यत्र लुकोऽप्रवृत्तये ‘तुह्योरि’ति सूत्रं तुहि इति पृथक् पदं लुप्तषष्ठ्यन्तम्, ओसिति पञ्चम्यन्तम् । ‘अश्च उश्चे’ति समाहारद्वन्द्वः ।