परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 232, कुल 373 में से
संदर्भ में पढ़ेंसिद्धे तदनुवृत्तिर्व्यर्था सत्येतज्ज्ञापिकेति भावः । ननु मपर्यन्तानुवृत्त्यभावे सर्वादेश- विधानाय सूत्रस्य चरितार्थत्वेन वार्तिककारमते तक्रन्यायासत्त्वेन अपवादत्वाभावाद् भाष्यमते तक्रन्यायेनापवादत्वेऽपि उत्सर्गेति नियमाभावाज्ज्ञापकासम्भवः । अत एव द्वितीयद्विर्वचनेन प्रथमद्विर्वचनबाध इति चेन्न । भाष्यमते यत्रापवादशास्त्रीय- 'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्तेः । न च तवममादेशोत्तरं स्थानिवद्भावेन युष्मच्छब्दत्वमादाय तत्प्राप्तिरिति वाच्यम् ; तत्रापि मपर्यन्तस्यानुवृत्त्या तस्य चालुमात्रवृत्तिधर्मघटिततया स्थानिव- द्भावाप्राप्तेरिति चेत्--सत्यम् । 'उपसञ्जनिष्यमाण'न्यायेन तवाद्यादेशबाधकत्वसिद्धेः । यदि पूर्वं तवममौ न स्याताम्, तर्हि सामसिक्लुकि उत्तरपदपरत्वसम्भावनया तत्प्राप्तिसम्भावनायाः सत्त्वादिति भावः । ननु उत्सर्गशास्त्रप्रवृत्त्यसम्भावनायां द्वित्वोत्तरं 'दधती'त्यादौ एककालावच्छेदेन उत्सर्गाप- वादयोः प्राप्तौ सत्यां तदप्राप्तियोग्येऽचरितार्थ्यरूपबाधबीजसत्त्वेन तत्र 'उपसञ्जनिष्यमाण'न्यायेन बाधोऽस्तु । प्रकृते तु 'युष्मद् + ङस्, पुत्र + सु' इत्यस्यामवस्थायामुत्तरपदस्य ङसा व्यवधानात् 'प्रत्ययोत्तरपदयोश्च' इत्यस्याप्राप्त्या तदप्राप्तियोग्यस्थले अचरितार्थ्यरूपबाधबीजस्याभावात् कथं बाधकत्वमिति चेत्-सत्यम् । 'तदप्राप्तियोग्येऽचारितार्थ्यम्'त्यत्र प्राप्तिपदेन प्राप्ति-प्रवृत्त्येत- रन्यतरस्य ग्रहणात् । प्राप्तिश्च उद्देश्यतावच्छेदकक्रान्तिः, प्रवृत्तिश्च विधेयतावच्छेदकसम्बन्धेन विधेयवैशिष्ट्यम् । तथा च 'युष्मद् + ङस्, पुत्र + सु' इत्यत्र 'तवममौ ङसि' इत्यस्य प्राप्तिः, लुगु- त्तरञ्च 'प्रत्ययोत्तरपदयोश्च' इत्यस्य प्राप्तिरित्येकलक्ष्यावच्छेदेन उभयोः प्राप्तिरस्त्येव । 'उभयो- रेककालावच्छेदेन प्राप्तौ सत्यामेव बाधकता' इति नियमो नाङ्गीक्रियते । उत्सर्गशास्त्रीयप्राप्ति- प्रवृत्त्यन्यतरतानाक्रान्तेऽचारितार्थ्यमात्रमपेक्षितम् । 'त्वत्पुत्रः' इत्यादौ लुकः प्राक् 'तवममौ ङसि' इत्येतत्प्राप्तिसत्त्वात् न तदप्राप्तियोग्यता वर्तते तत्रेति बाधकत्वं युक्तमेवेति बोध्यम् । नन्वेवं सति अनडुह्-शब्दस्थकौमुदीग्रन्थो विरुध्येत, लक्ष्यासिद्धिश्च स्यात् । तथा हि- "आदित्यधिकारात् अवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते, अमा च नुम् न बाध्यते" इति तत्रोक्तम् । एतेन आम्-नुमोरेककालावच्छेदेन प्राप्तिर्वारिता, एककाले प्राप्तौ सत्यामेव बाध्यबाधकत्वमिति तदाशयात् । सम्प्रति आदित्यधिकारेऽपि समानकालिकप्राप्तावेव बाधकत्वमिति नियमाभावेन नुमा आम्बाधः स्यात् , 'अनड्वान्' इति च न स्यादिति चेत् , अत्राहुः--तत्र आदित्यधिकारसामर्थ्याद् बाधाभावः । उपजीव्यविरोधाच्च आकार- मुपजीव्य जायमानो नुम् कथं तद्बाधकः स्यात् । एवञ्च सामर्थ्यादत्र 'तक्रकौण्डिन्य'न्यायप्रवृत्त्या न विरोधो नापि लक्ष्यविसंवादश्चेति तत्त्वम् । वार्तिककारमत इति । तन्मते तदप्राप्तियोग्येऽचारितार्थ्ये सति कृतेऽप्यचारितार्थ्यरूप- सर्वथा निरवकाशत्वे एव बाधकत्वमिति भावः । उत्सर्गेति नियमाभावादिति । भाष्यमते कृते चारितार्थ्येऽपि विषयभेदेऽपि बाधसम्भवेन तत्र 'उत्सर्गे'ति न्यायाविषयत्वादिति भावः । तक्रन्यायाविषये 'उत्सर्गसमाने'ति न्यायः प्रवर्तते न वा ? आद्ये एकाचो द्विर्वचनस्य द्वितीय- द्विर्वचनेन बाधकत्वं भाष्ये उक्तं न सङ्गच्छेत । द्वितीये मपर्यन्तानुवृत्तिवैयर्थ्याभावात् ज्ञापकपर- भाष्यविरोधः । यस्मात् भाष्याविरोधाय ज्ञापकत्वघटनाय चास्य न्यायस्यानुगतरूपेण प्रवृत्ति- लक्ष्यमुच्यते--भाष्यमत इति । अत्र अपवादशास्त्रीयावच्छेदकता च पर्याप्त्या ग्राह्या, अन्यथा एकाच्त्वस्य उभयावच्छेदकत्वेन अनिष्टं स्यात् ।