परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 233, कुल 373 में से
संदर्भ में पढ़ें५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०३ स्थानितावच्छेदकमूत्सर्गशास्त्रीयस्थानितायाः साक्षात्परम्परया वाऽवच्छेदकं तत्रो- त्सर्गसमानेति नियमस्यावश्यप्रवृत्तेः स्वीकारात्, प्रकृते च अपवादप्रत्योत्तरपदयोरित्ये- तच्छास्त्रीयस्थानितावच्छेदकस्य युष्मच्छब्दत्वस्य उत्सर्गशास्त्रीयस्थानितायाः परम्परया अवच्छेदकत्वेन उत्सर्गेति न्यायेन मपर्यन्तस्यैव आदेशसिद्धेस्तदनुवृत्तेर्ज्ञापकत्वस्य सुस्थत्वादिति--केचित्। यत्तु--मपर्यन्तानुवृत्त्यभावेऽपि 'प्रत्ययोत्तरपदयोश्चे'त्यस्य 'द्वन्द्वश्च प्राणी'- त्यस्य समाहारसिद्धैकत्वानुवादकत्ववत् लाघवात् 'त्वमावेकवचने' इत्येतदनुवादत्व- कल्पनेनास्यापि मपर्यन्त एव प्रवृत्त्या तद्वैयर्थ्येन एतत्परिभाषानुमानमिति । तन्न ; 'द्वन्द्वश्च प्राणी'त्यादेः समाहार एकत्वस्य सिद्धत्वेन इतरयोगेऽपूर्वतद्विधायकत्वकल्पना- पेक्षया लाघवात्तदनुवादकत्वकल्पनेऽप्यस्य कस्मिन्नप्यंशे अनुवादकत्वासम्भवेन त्वदुक्त- कल्पनया ज्ञापकत्वयोजनस्याशक्यत्वात् । अन्ये तु--उक्तसूत्रे तदनुवृत्तावन्तरङ्गत्वात् त्वादेशे मपर्यन्तासम्भवेनैतत्सामर्थ्येन उक्तपरिभाषा कल्प्यत इति वदन्ति । अन्ये तु--'प्रत्यय' इत्यधिकारे कर्तव्ये 'अङ्गस्ये'त्यधिकारकरणमस्यां ज्ञापकम्, तत्फलं 'पञ्चक्रोष्ट्री'ति । अत्र हि पञ्चभिः क्रोष्टृभिः क्रीतमित्यर्थे तद्धितस्त्रीप्रत्य- ययोर्लुक्यपि प्रत्ययलक्षणेनाङ्गसंज्ञायां 'स्त्रियां च'ति तृज्वत्त्वं भवति । 'प्रत्यय' इत्य- धिकारे तु 'न लुमताङ्गस्ये'ति प्रत्ययलक्षणनिषेधेन प्रत्ययपरत्वाभावात्तृज्वत्त्वानापत्तिः । एतत्परिभाषाभावे तु 'प्रत्यय' इत्यधिकारेऽप्यन्तरङ्गत्वात् पूर्वमेव तृज्वत्त्वे 'अङ्गस्ये'- त्यस्य वैयर्थ्यं स्पष्टमेवेति वदन्ति । केचित्तु--'त्वमावेकवचने' इति सूत्रे 'विभक्तौ' इत्यनुवृत्तिरेतज्ज्ञापिका । तत्फलन्तु इति केचिदिति । इदं चिन्त्यम्--'छन्दसि वनमेके' इत्यत्रायं नादेशापवादः, तेन 'उत्सर्गसमाने'ति न्यायात् तकारस्यैवेति शेखरग्रन्थविरोधात्, लक्ष्यासिद्धेश्च । तत्रापवादशास्त्रीय- स्थानितावच्छेदकम् असितशब्दत्वं तेनोत्सर्गशास्त्रीया स्थानिता कालत्रयेऽप्यनवच्छिन्नैव इति 'उत्सर्गसमाने'त्यस्याप्रवृत्तेः । वस्तुतस्तु--यथा इनमकजादिषु मित्त्वादिना न्यायबाधः, एवम् 'अजादेर्द्वितीयस्ये'त्यत्रापि द्वितीयग्रहणेन बाध एव वाच्यः 'उत्सर्गसमाने'ति न्यायस्य । एवञ्चास्य प्रवृत्तिः कुत्रेति चिन्ताया नैवावकाशः इति तत्त्वम् । यद्वा--अपवादशास्त्रीयोद्देश्यतापर्याप्त्यधिकरणवृत्त्युद्देश्यताकत्वं यत्रो- त्सर्गशास्त्रस्य, तत्रायं न्यायः प्रवर्तते । असितशब्दवृत्त्युद्देश्यता वर्णादानुदात्तेत्येतच्छास्त्रीयाऽस्त्येव, तस्य वर्णवाचकत्वात् । द्वितीयेकाजनिष्ठा च उद्देश्यता नैकाच इति शास्त्रीयेति न दोषः । अन्ये त्विति । वस्तुतः--इदं ज्ञापकं 'वार्तिकरीत्या' इत्यादिग्रन्थेन स्फुटीभविष्यति । अङ्गस्येत्यधिकारकरणमिति । ननु 'प्रत्यय' इत्यधिकारे मात्राधिक्येन गौरवात् कथमिदमुपपद्यत इति चेन्न । 'यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्' इति संज्ञासूत्रकरणेन लाघवात् 'निरुतं दुरुतम्' इत्यत्र च 'प्रत्यये' इत्यनेन आक्षिप्ततदादिघटकस्यैव हलो ग्रहणमिति न दोष इति बोध्यम् । विभक्तावित्यनुवृत्तिरिति । तदनुवृत्तौ च 'प्रत्ययोत्तरपदयोश्च' इति सूत्रमेव ज्ञापकम् ।