भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 230, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 230

२०० परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवं 'गोमत्प्रिय' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वा अन्तरङ्गत्वात् हल्ङ्यादिलोपे नुमादयः स्युरत आह— अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते ॥ ५२ ॥ —: ❀ :— अत्र च 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रं ज्ञापकम् । 'त्वत्कृतमि'त्यादौ लुगपेक्षया अन्तरङ्गत्वाद्विभक्तिनिमित्तेन 'त्वमावेकवचने' इत्यनेन सिद्ध इदं व्यर्थं सत्तज्ज्ञापकम् । हल्ङ्यादिलोपे नुमादयः स्युरिति । परत्वान्नित्यत्वाच्च दीर्घं बाधित्वेत्यर्थः । न च पूर्वं नुमि उपधायामचोऽभावात् सूत्रारम्भसामर्थ्येन पूर्वं दीर्घ एव स्यादिति वाच्यम् ; उपधाग्रहणस्य तत्र पूर्वमात्रोपलक्षकत्वेन सामर्थ्याभावात् पूर्वं दीर्घाप्रवृत्तेः । न चैव- मपि हल्ङ्यादिलोपं नुमं च तक्रन्यायेन दीर्घो बाधेतेति सर्वथाऽवतरणासङ्गतिरिति वाच्यम् ; हल्ङ्यादिलोपविषये तक्रन्यायाप्रवृत्तेर्वक्ष्यमाणत्वात् आपाद्यमानेऽर्थे न्याया- नादराच्चेत्याशयात् । अन्तरङ्गानपीति । अपिना परादिसङ्ग्रहः, तेन 'ह्यः श्वः' इत्याद्यव्ययेषु हल्- ङ्यादिलोपं परमपि बाधित्वा 'अव्ययादाप्सुप' इति लुक्सिद्धिः ; अन्यथा हल्ङ्यादि- लोपे असन्तत्वाद्दीर्घापत्तिरिति भावः । नन्वेवं 'त्वं कुलमि'त्यादौ 'ङेः प्रथमयोरि'त्यमं बाधित्वा 'स्वमोरि'ति लुक् स्यात्, 'भवतादि'त्यत्र तातङं बाधित्वा हेर्लुक् च स्यात्, 'तत्कुलमि'त्यत्र परमप्यत्वं बाधित्वा 'स्वमोरि'ति लुकि 'त्यदादिभ्यश्चे'ति वार्तिकासङ्गतिश्चेति चेन्न । आद्ये 'शिशीनुमुलुग्विधी'ति वार्तिकारम्भसामर्थ्येन एतदप्रवृत्तेर्युष्मदस्मदोरलिङ्गत्वेन लुकोऽप्राप्तेश्च । 'भवतादि'त्यत्र त्वस्या ज्ञापकसिद्धत्वेन असार्वत्रिकत्वादिति शेखरोक्त- समाधानस्य त्वयाऽप्याश्रयणीयत्वात् । अत्राऽपिशब्दाभावेऽपि तातङोऽनैमित्तिकत्वेन इति निषेधात् । 'नाजानन्तर्य' इति परिभाषाया अनित्यत्वाश्रयणे तु 'षत्वतुकोरसिद्धः' इति तुग्ग्रहणेन 'अन्तरङ्ग'परिभाषाया एव अनित्यत्वज्ञापनमुचितमिति चेन्न । 'अन्तरङ्ग'परिभाषा- खण्डनावसरे पूर्वोक्तदोषाणामुद्धृतत्वात् ॥ ५१ ॥ अपिना परादिसङ्ग्रह इति । अपिरत्र 'दण्डापूपिक'न्यायद्योतनार्थः, न तु 'कैमुतिक'- न्यायद्योतनार्थ इति भावः । कैमुतिकन्याये हि अन्यार्थे तात्पर्यं पर्यवसीयते, स्वार्थे निषेधश्च भवति । यथा 'दोषा वाच्या गुरोरपि' इत्यत्र गुरोस्तु दोषा नैव वाच्याः, तथा सति छात्रत्व- भङ्गापत्तेः, किन्तु अन्येषां सर्वेषामपि वाच्या इत्यर्थः । दण्डापूपिकन्यये तु 'केसरिणमपि हन्यात्' इत्यादौ केसरिहन्तृत्वम्, अन्येषामपि सत्वानाञ्च हन्तृत्वं लभ्यते । तथैव प्रकृते नित्यादपि बलीयान्, परादपि बलीयानित्यर्थः । एवञ्च परिभाषायां बहिरङ्गत्वमुपलक्षणमात्रमिति तत्त्वम् ।