परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 236, कुल 373 में से
संदर्भ में पढ़ेंननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था । न च ‘उत्सर्गसमानदेशा अपवादा’ इति न्यायेन असिद्धवत्सूत्रस्थभाष्यसम्मतेन मपर्यन्तस्यैवाऽऽदेशे सिद्धे तदनुवृत्तिर्व्यर्थेति वाच्यम् ; तस्य इनमकजादौ व्यभिचारादिति चेन्न । इनमि मित्त्वेन बहुचि पुरस्ताद् ग्रहणेनाकचि प्राक् टेर्ग्रहणेन तस्य बाधेऽपि अत्रोत्सर्गस्य त्यागे मानाभावात् । अत एव ‘तस्मिन्नणि चे’त्यनेन युष्माकाद्यादेशविधानं चरितार्थम्, अन्यथा आकङादेशमेव विदध्यात् । आकङि तवकाद्यादेशयोरेतदपवादयो- वस्तुतस्तु—‘त्वमावेकवचने’ इति योगविभागसामर्थ्येन ‘प्रत्ययोत्तरपदे’ति सूत्रे सिद्धान्तेऽपि विभक्तावित्यस्यानुवृत्त्याऽत्र प्रत्ययपरकविभक्त्यभावादेव एतदप्राप्तेर्णिजादे- रनभिधाने न मानम् । असिद्धवत्सूत्रस्थभाष्येति । तत्र हि भाष्ये ‘एधी’त्यस्य तत्सूत्रोदाहरणत्वखण्डना- वसरे उक्तम्—‘‘एत्वं लोपापवादो विज्ञास्यते, न च सकारस्य लोपः प्राप्नोती’’त्युक्तम् । उक्तन्यायानाश्रयणे एत्वस्य लोपस्थान्यकारस्थानिकत्वासम्भवेन तदसङ्गतिरेवेति भावः । अन्यथा आकङादेशमेवेति । ननु युष्माकाद्यादेशस्य साकच्कापहारकत्वेन