भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 237, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 237

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०७ इत्यादी ‘अक’ इत्यस्य निर्दिश्यमानावयवत्वमुपलक्षणमित्यत्र तात्पर्यग्राहकत्वेन इदकम्- शब्दावयवेऽद्भागस्याकचः प्राङ् निर्दिश्यमानावयवत्वेन प्राप्तत्तदादेशवारणाय चरि- तार्थत्वेन अकज्विशिष्टे निर्दिश्यमानत्वाभावेन युष्मकच्छब्दे फलभेदाभावात् । तस्मि- न्नणि च मादाक इति न्यासेन युष्मदाद्यवयवमवर्णादवशिष्टयुष्मदाद्यवयवस्याकादेश इत्यर्थकेन साकचि फलभेदाभावेनेष्टसिद्धेः युष्माकाद्यादेशस्य उक्तार्थज्ञापकत्वे बाधका- भावाच्च । नन्वेवमपि ‘अन्तरङ्गानपि’ति न्यायसत्त्व एव युष्माकाद्यादेशानां वैयर्थ्यम्, अन्यथा युवयोरयमित्यर्थे खञि ‘युष्मद् + ओस् + ईन’ इति स्थितेऽन्तरङ्गत्वाद् युवादेशे लुकि आकङि ‘यौवाकीन’ इति युवद्-शब्दस्य युष्मकाद्यादेशे तु ‘य