परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 238, कुल 373 में से
संदर्भ में पढ़ें२०८ परिभाषेन्दुशेखरः [ २ प्रकरणे- रुक्तन्यायेन अन्त्यादेशत्वापत्तिः, अतस्तद्विधानम् ; इदमेव च तज्ज्ञापकम् । यद्यपि विरोधे बाधकत्वमिति वार्तिकमतेऽयं न्यायः, भाष्यकारस्तु विनाऽपि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छतीति 'अनभिहित'सूत्रस्थकैयटरीत्या नायं नियमः ; तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रियत एवेति प्रकृते न दोष । एतद्भाष्यमपि तत्स्वीकारे मानम् । एवं च मपर्यन्तानुवृत्तिः 'त्वत्कृतमि'त्यादौ मपर्यन्तस्याऽऽदेशविधा- नार्था । तत्र चान्तरङ्गत्वात् त्वमावित्येव सिद्धे व्यर्था सा एतज्ज्ञापिका । ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्त- स्यैवाऽऽदेशार्थं सा चरितार्थेति तदाशयः । अन्ये तु—उक्तज्ञापकेन तद्धितनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकरूपाव- च्छिन्नोद्देश्यताके कार्ये तद्धितपरत्वेन सम्भावितविभक्तेरविद्यमानवद्भाव इति कल्पनया प्रकृते तद्धितोद्देश्यतावच्छेदकयुष्मच्छब्दत्वावच्छिन्नोद्देश्यताक युवादेशे विभक्तेरविद्यमानत्वेन युवादेशाप्राप्त्या नोक्तज्ञापकताहानिरिति वदन्ति । विरोधे बाधकत्वमिति । उत्सर्गापवादयोः समानदेशत्व एव बाधकत्वमित्यर्थः । एतेन भाष्यकृन्नयेऽपि विरोधे एव बाधकत्वेनेदमयुक्तमित्यपास्तम् । वार्तिकमताद् भाष्यमते विशेषमाह—विनापि विरोधमिति । उत्सर्गापवादयोः समानदेशत्वाभावेऽपी- त्यर्थः । अत एव 'भवेदि'त्यादौ इयादेशेन दीर्घबाधसिद्धिः । सत्यपि सम्भव इति । कृते चारितार्थ्येऽपीत्यर्थः । अत एव 'सर्वेषामि'त्यत्र सुटा नुटो बाधः सिद्ध्यति । नायं नियम इति । उत्सर्गापवादयोः समानदेशत्वमिति नियमो नेत्यर्थः । उत्सर्गः स्वीक्रि- यत एवेति । प्रायिकोऽयमुत्सर्गसमानदेशा इत्यर्थोऽत्र 'अन्तरङ्गानि'ति परिभाषाज्ञापनाय स्वीक्रियते, 'भवेदि'त्यादिलक्ष्यसिद्धये परित्यज्यत इति भावः । एतद्भाष्यमिति । 'अन्तरङ्गानि'ति परिभाषाज्ञापनपरं भाष्यम् 'उत्सर्गे'ति वचनस्वीकारे मानम्, अपि- शब्दाद् युष्माकाद्यादेशविधानसङ्ग्रहः । उत्सर्गे'ति न्यायास्वीकारे मपर्यन्तानुवृत्ति- ज्ञापकतापरोक्तभाष्यासङ्गतिः स्पष्टैवेति भावः । त्वमावित्येव सिद्ध इति । अस्य 'त्वत्पुत्र' इत्यादौ तु त्वमाविति बाधित्वा प्राप्तस्य 'तवममौ ङसी'ति सूत्रस्य बाधनाय कृते 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रे त्वप- वादत्वादेवोक्तन्यायेन 'मपर्यन्तस्ये'त्यर्थस्य सिद्धेरिति शेषः । अत एव 'तवादीना- मप्राप्त्ये'त्याद्युत्तरग्रन्थसङ्गतिः । उत्सर्गेति न्यायस्वीकारमन्तरेव भाष्योक्तमपर्यन्तानुवृत्तेरुक्तपरिभाषाज्ञापकत्व- सम्भवे कथमेतद्भाष्यम् 'उत्सर्ग'ति न्यायस्वीकारे मानम् । अत एव भाष्य उत्सर्गेति अन्ये त्विति । अत्रापि कल्पे प्रथमकल्पवद् भाष्यविरोधो दुर्वार एवेति बोध्यम् ।