भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 239, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 239

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०९ यत्तु हरदत्तेन अन्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिः व्यर्था सती ज्ञापिकेत्युक्तम् । तन्न ; अन्तरङ्गाणामप्यपवाद- बाध्यत्वेन तद्विषये तदप्रवृत्तेः । वस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः । इयं 'सुपो धातुत्वि'ति लुग्विषयैवेति केचित् । 'एङ ह्रस्वात् सम्बुद्धेः, न यासयोरि'ति सूत्रस्थाऽऽकरप्रामाण्येन लुग्मात्रविषया । आद्ये 'हे त्रपु' इत्यादौ अनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्ये न्यायो नोक्त इत्याक्षिपतो हरदत्तस्य मतं खण्डयितुमनुवदति—यत्त्विति । मपर्यन्ता- सम्भवेति । न च 'मदीय' इत्यत्र ममादेशे तत्सम्भव

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 239, कुल 373 में से · BharatKosha