भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

५२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २०९ यत्तु हरदत्तेन अन्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिः व्यर्था सती ज्ञापिकेत्युक्तम् । तन्न ; अन्तरङ्गाणामप्यपवाद- बाध्यत्वेन तद्विषये तदप्रवृत्तेः । वस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः । इयं 'सुपो धातुत्वि'ति लुग्विषयैवेति केचित् । 'एङ ह्रस्वात् सम्बुद्धेः, न यासयोरि'ति सूत्रस्थाऽऽकरप्रामाण्येन लुग्मात्रविषया । आद्ये 'हे त्रपु' इत्यादौ अनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम् । अन्त्ये न्यायो नोक्त इत्याक्षिपतो हरदत्तस्य मतं खण्डयितुमनुवदति—यत्त्विति । मपर्यन्ता- सम्भवेति । न च 'मदीय' इत्यत्र ममादेशे तत्सम्भव

२१० परिभाषेन्दुशेखरः [ २ प्रकरणे- अन्तरङ्गांश्च विधीन् सर्वोऽपि लुग्बाधते, न तु सुब्लुगेव । अत एव 'सनीस्रंस' इत्यादौ नलोपो न भवति । 'पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व' इत्यादौ एकादेशात्प्रागेव टापो लुक् । अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कैयटे उक्तम् । एतद्विरोधात् 'यत्तद्राजस्ये'ति सूत्रे कैयटेनोक्तम् ‘अङ्गानतिक्रान्तोऽत्यङ्ग’ इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्रा- जस्ये'ति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरे 'अन्तरङ्गानपी'ति न्यायेनायं लुक् सुब्लुको बाधकः स्यादि'त्याशङ्क्य "सुब्लुक् एवानेन बलवत्त्वं बोध्यत" इति, तत्प्रौढेयेति द्रष्टव्यम् । लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम् । प्रवृत्तिस्वीकारे बाधकाभावेन भाष्यविरोधस्य दुष्परिहरत्वात् । अपिशब्दघटितपाठे एतद्भाष्यमपि मानम् । अपिनाऽत्र लाक्षणिकस्य सङ्ग्रहः । लुग् न स्यादिति । तद्राज- सूत्रे बहुष्वित्यस्य बहुवचने परे इत्यर्थः । 'अति + अंग् + अ + अस् + स्' इत्यव- स्थायां सामासिकशसो लुकि 'न लुमते'ति निषेधात् प्रत्ययलक्षणाभावेन बहुवचन- परत्वाभाव इति शङ्काशयः । केचित्तु—'आशङ्क्ये'त्यस्याग्रे 'लुगपेक्षयेत्यादि वक्तुं युक्तमि'त्यन्तं ग्रन्थं संयोज्य, 'परं तदनुक्त्वा यदि'ति शेषं प्रपूर्य, 'सुब्लुक्' इति योजयन्ति । तथा च इत्याशङ्क्य लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम्, परं तदनुक्त्वा यद् सुब्लुक एवानेन बलवत्त्वं बोध्यत इत्युक्तं तत्प्रौढ्येति द्रष्टव्यमिति योजना । तत्र बीजमाह—अनेनेति । तथा चात्र सुब्लुक एवान्तरङ्गनिमित्त- विनाशकत्वेन प्राबल्यम्, न तु तद्राजलुकः, तस्यान्तरङ्गनिमित्तविनाशकत्वाभावादिति ग्रन्थरहस्यमाहुः । एतत्फलमप्यूर्णुहीति । 'उतश्चे'ति लुकोन्तरङ्गगुणनिमित्तविनाशकत्वाभावेन बलवत्त्वाभावात् अन्तरङ्गत्वात् लघूपधगुणे संयोगपूर्वकोकारात् परत्वेन न हेर्लुक् । मूले—सनीस्रंस इत्यादाविति । स्रंसेर्यङ्लुगन्ताद्विचि सनीस्रंस् इत्यस्मात् जसि रूपमिदम्, न तु यङन्तात् पचाद्यचि यङो लुकि रूपम् । एतेन 'न धातुलोपः' इति सूत्रस्य आरम्भ-प्रत्याख्यानयोः फलभेदाभावाय तादृशलक्ष्याणामनभिधानात् कैयटश्चिन्त्य एवेति परास्तम् । नहेर्लुगिति । नन्वत्र 'उपसञ्जनिष्यमाण'न्यायेन लुकोऽप्राप्तिः । अस्ति चात्र सम्भा- वना—"यदि पूर्वं लुक् न स्यात्, तर्हि गुणे कृते 'असंयोगादि'ति निषेधः प्रवर्तेत" इत्याकारिका । अवश्यञ्चैतादृशनिषेधस्थलेऽपि उक्तन्यायप्रवृत्तिरभ्युपेया । अन्यथा 'ऋदुपधेभ्यः' इति वार्तिकं व्यर्थ- मेव स्यात् । तद्धि 'ववृके' इत्यत्र परत्वात् प्राप्तस्य गुणस्य निषेधाय । तत्र "यद्यत्र गुणो न स्यात् तर्हि कित्त्वं स्यादि"ति सम्भावनया पूर्वं गुणाभावेन तद् व्यर्थं स्यात् । मम तु "यद्यत्र गुणो न

५३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २११ अनेन न्यायेन अन्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः ॥ ५२ ॥ नन्वेवं सौमेन्द्रेऽन्तरङ्गत्वात् आद्गुणे पूर्वपदात्परेन्द्रशब्दाभावेन ‘नेन्द्रस्य परस्ये’ति वृद्धिनिषेधो व्यर्थः । अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः । किञ्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि पूर्वान्त- वत्त्वेनैकादेशविशिष्टे पूर्वपदत्वेन इन्द्रशब्दस्य एकदेशविकृतन्यायेन ‘उभयत आश्रयणे नान्तादिवत्’ इत्यस्याभावेन तदाश्रयेण वा उत्तरपदत्वेऽपि तस्यानच्कत्वात् एकस्यैकादेशेन परस्य नित्येन यस्येति लोपेनापहारात् । तथा सर्वस्तोमादिबहुव्रीहौ ‘सर्वस्य सुपी’त्याद्युदात्तं बाधित्वा सामासिके लुकि सर्व- शब्दस्य उञ्छादित्वादन्तोदात्ते बहुव्रीहौ प्रकृत्येत्यन्तोदात्तपूर्वपदकत्वापत्तिर्न । किन्तु सौवरीणां सप्तानां तदन्तसप्तमीत्वेन कृतेऽपि सामासिके लुकि ‘सर्वस्य सुपी’त्यस्य प्रवृत्तिसम्भवेन तस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पूर्वमप्रवृत्त्या ‘सर्वस्य सुपी’- त्याद्युदात्ते कृते ‘बहुव्रीहौ’ इति प्रकृतिस्वरे आद्युदात्तपूर्वपदकत्वमेव सिद्ध्यति । तत्प्रयोजकसमासेति । आदिना प्रातिपदिकसंज्ञादिसङ्ग्रहः । अत एव ‘राजपुत्री’- त्यत्र लुकः समासस्यान्तरङ्गनिमित्तविनाशकत्वाभावेन पुत्रशब्दात् ङीनि नित्त्वादा- द्युदात्ते कृते ततः समासे समासस्येत्यन्तोदात्तत्वं सिद्धयति । अन्यथा पूर्वं समासे ङीनि नित्स्वर-समासस्वरयोः प्राप्तौ अन्तरङ्गत्वात्समासस्वरं बाधित्वा नित्स्वरेऽनिष्ट- स्वरापत्तिरिति दिक् ॥ ५२ ॥ अन्तादिवत्त्वोभयाभावेऽपीति । केचित्तु — अपिस्त्वर्थे । तथा च अन्तादिवत्त्वोभया- भावे तु ‘उभयत आश्रयणे नान्तादिवदि’ति निषेधाभावेन पूर्वान्तवत्त्वेनैकादेश- विशिष्टे पूर्वपदत्वेन एकदेशविकृतन्यायेन तदाश्रयणेन उत्तरपदत्वातिदेशेन इन्द्र- शब्दस्य चोत्तरपदत्वेऽपि तस्यानच्कत्वात् वृद्धिरप्यत्र न प्राप्नोतीत्येतदन्वयमाहुः । अन्ये तु—उभयत आश्रयणे नान्तादिवदित्यस्य निषेधस्याभावेन वस्तुतो- ऽस्वीकारेणेत्यर्थः । प्रकारान्तरमाह—तदाश्रयणेन वेति । उभयत आश्रयणे इति वचनस्य आश्रयणेन वा अन्तादिवत्त्वोभयाभावेऽपि अन्तादिवत्त्वोभयस्य अतिदेशा- भावेऽपीत्यर्थः । ततो यथाश्रुतमन्वयमाहुः । वस्तुतस्तु — ‘उभयत आश्रयणे नान्तादिवदित्यस्याभावेन तदाश्रयणेन वा’ इत्यन्तग्रन्थोऽत्र प्रक्षिप्तो बोध्यः । स्यात्तर्हि कित्त्वं स्यात्, यदि च कित्त्वं न स्यात्तर्हि गुणे कृते “असंयोगादि'ति निषेधः स्यादि”ति परस्परं सम्भावनाद्वयसत्त्वेन 'सुन्दोपसुन्द'न्यायेन 'उपसञ्जनिष्यमाण'न्यायाप्रवृत्त्या परत्वात् गुण प्राप्ते तदावश्यकमिति नेदं फलमित्यत आह—तथा सर्वस्तोमेति ॥ ५२ ॥

२१२ परिभाषेन्दुशेखरः [ २ प्रकरणं- न च परादिवद्भावेन एकादेशविशिष्टस्य उत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम् ; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्ते- स्ताद्रूप्यानतिदेशात् । अन्यथा 'खट्वाभिर्'त्यादावपि पूर्वान्तवत्त्वेनादन्तत्वे भिस ऐसापत्तिरिति भाष्ये स्पष्टम् । अत एव 'पूर्वेषुकामशम' इत्यादौ अन्तरङ्गत्वाद् गुणे वृद्धिर्न स्यादित्याशङ्कितम् । तदेकदेशमात्रस्य विकारा- भावाच्च । ताद्रूप्यानतिदेशादिति । ननु 'क्षीरपेणे'त्येत्र एकाजुत्तरपदत्वस्यातिदेशाय स्ववृत्तित्व- स्वस्थानिकादेशावृत्तित्वोभयसम्बन्धेन अन्तादिवर्णविशिष्टस्यैव अल्मात्रवृत्तिधर्मस्य ताद्रूप्यपदेन ग्राह्यतया सोमेन्द्रेऽतिदेष्टव्यस्य अच्त्वरूपस्य अल्मात्रवृत्तिधर्मस्य स्व- स्थानिकैकाररूपादेशवृत्तित्वेन तत्त्वाभावान्निषेधाप्रवृत्तिः । किञ्च एन्द्रघटक एकारे अच्त्वस्य सिद्धतया उत्तरपदत्वस्यातिदेष्टव्यस्य च निषेधाविषयत्वेन उक्तसमाधेरसम्भ- वश्चेति चेन्न । 'अन्तादिवच्चे'त्यनेन शास्त्रीयधर्मस्यैवातिदेशेन उत्तरपदत्वमात्रधर्मस्या- शास्त्रीयत्वेन अतिदेशासम्भवात् । ताद्रूप्यपरिष्कारे निरुक्तसम्बन्धद्वयेन स्वविशिष्टा- ल्मात्रवृत्तिधर्मस्य विशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितस्यैव ग्रहणादच्त्वस्य उक्त- ताद्रूप्याभावेऽपि उत्तरपदादित्वरूपविशेषणदलप्रविष्टधर्मेण सङ्कुचितस्य तादृशस्य उत्तरपदाद्यच्त्वस्य स्वस्थानिकादेशावृत्तित्वेन स्ववृत्तित्वेन चोक्तरूपतया न वा ताद्रूप्या- दिति निषेधविषयत्वस्य सुवचत्वात् । उत्तरपदाद्यच्त्वरूपशास्त्रीयधर्मघटितत्वेन शास्त्री- यत्वाक्षतेः । अत एव 'प्रपठ्ये'त्यत्र वल्त्वरूपशास्त्रीयधर्मघटितत्वेन वलादित्वस्य शास्त्रीयतया स्थानिवत्त्वेन अतिदेशमाशङ्क्य विशेषणतया अलाश्रयणादनल्विधाविति निषेध इत्युक्तमाकरे । अत एवेति । ताद्रूप्यस्यानतिदेशादेवेत्यर्थः । पूर्वेषुकामशम इति । पूर्वा चासौ इषुकामशमी च तस्यां भवेत्यर्थेऽणि प्राचां ग्रामनगराणामिति वृद्धिर्बहिरङ्गतयाऽन्त- रङ्गतवादाद्गुणे उत्तरपदाद्यच्त्वाभावाद् वृद्धिर्न स्यादिति भावः । ननु ऐन्द्रशब्दस्य एक- देशविकृतन्यायेनोत्तरपदत्वं तेनैव सोमिति मान्ते इत्येकारान्ते च पूर्वपदत्वं चास्तु, तावता च न पूर्वोक्तदोषावकाश इति शङ्कां मनसि निधायाऽऽह — तदेकदेशेति । अस्य न्यायस्य लौकिकत्वेन लोके तत्रैव प्रवृत्तिदर्शनेनात्र तद्विषयाभावात् । ग्रन्थरहस्यविदस्तु—किञ्च 'वृद्धिप्रप्यत्र न प्राप्नोति, अन्तादिवत्त्वोभयाभावेऽपि'- त्यन्तमेकं वाक्यम् । अत्रापिश्चार्थे । यथा उभयत आश्रयणेऽन्तादिवद्भावनिषेधाद् वृद्धिनिषेधो न प्राप्नोति, एवम् अन्तवत्त्वादिवत्त्वोभयस्यातिदेशाभावे वृद्धिर्पि न प्राप्नोतीत्यस्यार्थः । वृद्धिप्राप्तिं प्रकारद्वयेनोद्भावयति—पूर्वान्तवत्त्वेनेति । पूर्वान्त- वत्त्वेनैकादेशविशिष्टे सोमे शब्दे पूर्वपदत्वे इन्द्रशब्दस्यैकदेशविकृतन्यायेन उत्तर- पदत्वे उभयत आश्रयणेति निषेधाभावेन वृद्धिं प्राप्नोतीति सम्बन्धः । द्वितीयं वृद्धिप्राप्तिप्रकारमाह—तदाश्रयणेति । तदाश्रयणेन = एकदेशविकृतन्यायाश्रयणेन सोमिति मान्ते पूर्वपदत्वे ऐन्द्रशब्दे उत्तरपदत्वे उभयत आश्रयणे नान्तादिवदित्यस्याभावेन

५३-५४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१३ तदुक्तं भाष्ये—'इन्द्रे द्वावचावेको यस्येति लोपेनापहृतोऽपर एका- देशेन ततोऽनच्क इन्द्रशब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धे'रिति । मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्वनिपातोऽत आह— पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ ५३ ॥ —: ✤ :— अत्र च नेन्द्रस्येति निषेध एव ज्ञापक इति 'अन्तादिवच्च' विप्रतिषेधे परमि'ति सूत्रयोर्भाष्ये स्पष्टम् ॥ ५३ ॥ नन्वेवमपि 'प्रधाय, प्रस्थाये'त्यादौ अन्तरङ्गत्वाद्वित्त्वादिषु कृतेषु ल्यप् स्यादत आह— अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ॥ ५४ ॥ —: ✤ :— 'अदो जग्धिर्'िति सूत्रे ति कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञापक- मिति 'अदो जग्धिर्'ित्यत्र भाष्ये स्पष्टम् ॥ ५४ ॥ ────────────────── वृद्धिनं प्राप्नोतीति सम्बन्धः । आद्यस्योत्तरमाह—तस्यानच्कत्वादिति । द्वितीयस्योत्तर- माह—तदेकदेशमात्रस्येति । पूर्वकल्पेषु एतद्विषयकशङ्कामकृत्वैव समादधानस्य ग्रन्थकर्तुः शून्यहृदयत्वमापद्येतेत्याहुः । मरुदादिभिरिति । न च विष्ण्वादिशब्दैरिन्द्रशब्दस्य समासे निषेधस्य चारिता- र्थ्यम् । न च 'अभ्यर्हितं चे'त्यपेक्षयाऽजाद्यदन्तमित्यस्य प्राबल्यमिति वाच्यम्, तथा सति 'वासुदेवार्जुनाभ्यां वुञि'ति सौत्रनिर्देशानुपपत्तेरिति वाच्यम्; ज्ञापकपरोक्त- भाष्यप्रामाण्येन प्रसिद्धसाहचर्यक-देवताद्वन्द्वे एव विधि-निषेधयोः प्रवृत्तिकल्पनेना- दोषात्, विष्णोरिन्द्रावरजत्वेन इन्द्रस्यैवाभ्यर्हितत्वाच्च । सोमस्य तु अमृतरूपान्नदातृ- त्वेन पितृसमत्वात् महाप्रलयपर्यन्तस्थायित्वात् शिवशिरोधृतत्वाच्च अभ्यर्हितत्वेन पूर्वनिपातः । पूर्वोत्तरपदनिमित्तकार्यादिति । अत्र पूर्वोत्तरपदयोर्निमित्तता च पूर्वपदत्वेनोत्तर- पदत्वेनेति नाग्रहः । अत एव 'परमाहमि'त्यादौ सवर्णदीर्घात्पूर्वमनया परिभाषया मपर्यन्तस्य आदेशसमर्थनपरम् 'अदस औ सुलोपश्चे'ति सूत्रस्थं भाष्यं सङ्गच्छते ; अन्यथा 'त्वाद्दौसावि'त्यादौ पूर्वोत्तरपदत्वयोरनिमित्तत्वेन तदसङ्गतिरेव स्यादिति बोध्यम् । एकादेशो नेति । अयं सन्धिकार्यस्योपलक्षणम्, तेन 'रात्रिमट' इत्यादौ रात्रेः कृती'ति मुमः पूर्वमन्तरङ्गो यणादेशो नेति सिद्धम् । ल्यब्ग्रहणमस्या ज्ञापकमिति । ननु ल्यब्ग्रहणेन प्रकृतिप्रत्ययोभयमात्रनिमित्तका- न्तरङ्गकार्याणां ल्यब्विषये अप्रवृत्तिरित्येव ज्ञाप्यतां 'नल्यपी'ति सूत्रं च न

२१४ परिभाषेन्दुशेखरः [ २ प्रकरणे- नन्वेवम् ‘अपीयाये’त्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात् सवर्णदीर्घत्वे तद- सिद्धिरत आह— वार्णादाङ्गं बलीयो भवति ॥ ५५ ॥ —: ✤ :— तेन अन्तरङ्गमपि सवर्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः । ‘अभ्यासस्यासवर्णे’ इतीयङ्‌विधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्, तद्धि ‘ईषतुरि’त्यादौ इयङादिव्यावृत्त्यर्थम् । एतत्परिभाषाभावे तु ‘ईष- तुरि’त्यादौ अन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम् । इयडुवङौ ह्यभ्यास- कार्यमिति चेन्न । ‘अधीत्ये’त्यादौ तुकादेरप्रवृत्तिप्रसङ्गात् क्त्वाश्रयानुबन्धकार्याणां ल्यब्विषये प्रवृत्त्यभावस्तु उक्तज्ञापकेन कल्पयितुमशक्यः, ‘प्रलय्ये’त्यादौ गुणनिषेधा- नापत्तेः, ‘प्रोह्य गत’ इत्यत्र सम्प्रसारणस्य, ‘प्रमथ्ये’त्यादौ नलोपादेश्चानापत्तेरित्यत्र विस्तरः ॥ ५४ ॥ सवर्णदीर्घत्व इति । ननु द्वित्वस्यापि बहिरङ्गत्वेन असिद्धत्वादीर्घाप्राप्तिः । न च नाजानन्तर्य इति निषेधः, तस्या असत्त्वादिति चेन्न । तदसत्त्वेऽपि तद्विषये बहि- रङ्गपरिभाषायाः प्रमाणसत्त्व एव प्रवृत्त्याऽत्र प्रवृत्तौ प्रमाणाभावात् । अत एव ‘ऊखतु- रि’त्यत्र दीर्घसिद्धिः, प्रकृतपरिभाषाज्ञापनपरभाष्यञ्च सङ्गच्छते । अभ्याससम्बन्धनिमित्त- कत्वादिति । द्वित्वप्रयोज्यसंज्ञावन्निमित्तककार्यविधायके द्वित्वप्रयोजक इत्यस्याध्या- हारादित्यर्थः । अत्र च ‘ह्वः सम्प्रसारणमि’ति सूत्रमेव मानम्, अन्यथा ‘अजूहवदि’त्यत्र ‘अभ्यस्तस्य चे’त्यनेनैव सम्प्रसारणसिद्धौ तद्वैयर्थ्यापत्तिः । मम तु ‘अभ्यस्तस्य चे’- त्यत्र द्वित्वप्रयोजक इत्यस्य सत्त्वेन ‘अजूहवदि’त्यत्र णिचा व्यवधानात्तदप्राप्त्या ‘ह्वः सम्प्रसारणमि’त्यस्य सार्थक्यं स्पष्टमेव । अत एव ‘प्रजिह्वायकीयषती’त्यत्र ‘अभ्यस्तस्य मूले—अन्तरङ्गत्वादिति । वृद्धयपेक्षयेति भावः । ननु द्वित्वस्यापि बहिरङ्ग- त्वेनेति । इदं चिन्त्यम्—अन्तरङ्गशास्त्रस्य सवर्णदीर्घस्य प्रवृत्तौ निमित्तत्वेनाऽऽश्रीयमाण- समुदायस्य ‘इ इ’ इत्यस्य द्वित्वविधौ निमित्तत्वेनाऽऽश्रयणाभावात् द्वित्वशास्त्रस्य अन्तरङ्ग- शास्त्रीयनिमित्तसमुदायनिमित्तकत्वे सति तदितरनिमित्तकत्वरूपबहिरङ्गत्वाभावात् । नापि स्थानिद्वारा घटकमात्रनिमित्तकत्वमन्तरङ्गत्वम्, दीर्घविधेः षाष्ठद्वित्वस्य स्थाने द्विर्वचनाभावमभ्यु- पगमात् । नापि च बहिरङ्गशास्त्रीयेण येन केनचित् प्रथमान्तभिन्नेन पदेन ‘धातोरि’त्यनेनाऽऽश्रीय- यमाणैकारपर्याप्तनिमित्तताप्रयोजक सप्तम्यन्तपदघटितत्वरूपमन्तरङ्गत्वं सवर्णदीर्घस्य, अन्ते सन्नि- विष्टस्याऽऽगन्तुकस्य ‘धातोः’ इत्यनेनाऽऽश्रयणाभावात् । नापि यदीयसप्तम्यन्तनिमित्तात् पूर्वं यदीयसप्तम्यन्तनिमित्तं तदन्तरङ्गमिति अन्तःकार्यत्व रूपान्तरङ्गत्वं दीर्घस्य, तादृशान्तरङ्गत्व- सत्त्वेऽपि तस्य समकालप्राप्तबहिरङ्गसिद्धत्वनियामकत्वेन अकिञ्चित्करत्वात् ।

Here is the line-by-line transcription of the Sanskrit text from the image:

५५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१५ सम्बन्धनिमित्तकत्वाद् बहिरङ्गो । न च इयङादिरपवादः, 'येन नाप्राप्ति'- न्यायेन 'इयर्ती' त्यादिसकललक्ष्यप्राप्तयणपवादत्वस्यैव निर्णयादिति प्राञ्चः । परे तु एतत्परिभाषाभावे 'अभ्यासस्ये'ति सूत्रमेव व्यर्थम् । न च 'इयाय, इयेषे' त्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवृद्धेश्च 'द्विर्वचनेऽची'ति रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुणवृद्धी बाधित्वा चे'ति सम्प्रसारणं न । अत एव 'चोरदि'त्यत्र प्रत्यय इत्यस्याध्याहाराद् 'वव्रश्चे'- त्यस्य सिद्धिरिति मूल एव स्पष्टम् । सकललक्ष्यप्राप्तेति । न च तक्रन्यायेन इत्वेन यणो बाधादित्त्वोत्तरं यणप्राप्त्या कथं तस्य सकललक्ष्यप्राप्तत्वमिति वाच्यम् ; अभ्यासविकारेषु बाध्यानां पूर्वं प्रवृत्ते- रित्वं बाधित्वाेरदत्वे हलादिः शेषे इत्वे च यण्प्राप्त्या इत्वस्य यणपवादत्वासम्भवेन सकललक्ष्यप्राप्तत्वस्य सूपपादत्वं त् । नन्वेवं सति ऋ + ऋ + ति' इत्यवस्थायां 'सार्वधातुके'ति गुणं बाधित्वा लघु- पधगुणः प्राप्तः, तं च बाधित्वाऽपवादत्वादीर्घः प्राप्तः, तं बाधित्वेत्वं प्राप्तम्, तच्च 'अभ्यासविकार' इत्यनेन बाधित्वाेरदत्वं प्राप्तम्, तद् बाधित्वा ह्रस्वः प्राप्तः, तं च बाधित्वा पूर्वोपस्थितनिमित्तकत्वेनान्तरङ्गत्वात् 'सार्वधातुके'ति गुणः प्राप्त इति चक्रकापत्तिरिति चेन्न । पूर्वोपस्थितनिमित्तकत्वेन अन्तरङ्गत्वान् द्वित्वादेः पूर्वमेव सार्वेति गुणप्राप्त्या चक्रकासम्भवात् । नन्वेवमिकारांशे यणः सकललक्ष्यप्राप्तत्वेऽपि उकारांशे तत्त्वाभावाद् 'ऊखतुरि'त्यादौ अपवादत्वात् सवर्णदीर्घं बाधित्वा प्राप्तस्यो- वङो वारणाय असवर्णग्रहणस्य चारितार्थ्यमिति वाच्यम् ; उकारांशमात्रफलकत्वे अनावि Parse error: check original context [अनादित्येव / अनाचित्येव?] वक्तव्येऽसवर्णग्रहणस्य उक्तार्थज्ञापकत्वे बाधकाभावात् । सूपपादत्वादिति । न च अन्यतरत्वेन व्यापकतामादाय यण्-दीर्घयोरुभयोरप्यपवादत्व- मिति वाच्यम् ; अन्यतरस्य व्यापकत्वेऽन्यतरत्वेन व्यापकतां ग्रहीतुमशक्यत्वात् । निरूपयिष्यते चेदं 'येन नाप्राप्ति'न्यायनिरूपणावसरे । द्वित्वादेः पूर्वमिति । अन्ये तु— 'ऋ + ति' इति स्थिते शब्-गुणयोः प्राप्तौ नित्यत्वस्यो- भययोस्तुल्यत्वेन परत्वाद् गुणे पश्चाच्छपि तस्य श्लौ ततो द्वित्वमिति रीत्या चक्रकापत्तिं वारयन्ति । तन्न सम्यक् ; शब्दमात्रनिमित्तकत्वेन गुणात् पूर्वं शब्निमित्तकस्य कर्तृरूपार्थस्य उपस्थित्याऽन्त- रङ्गत्वान् गुणात् पूर्वं शपि तस्य प्रतिपदोक्तत्वात् पूर्वं श्लौ ततोऽन्तर्भूतनिमित्तकत्वेनान्तरङ्गत्वान् द्वित्वे प्राप्ते पूर्वोपस्थितनिमित्तकत्वेन च गुणे प्राप्ते उभयोरन्तरङ्गत्वात् परत्वाद् गुणे ततः 'अरि'- त्यस्य द्वित्वमित्येतस्य न्याय्यत्वात् । यत्तु--प्रतिपदोक्तत्वाद् द्वित्वोत्तरं सङ्गतः पूर्वमपरनिमित्तकत्वेनान्तरङ्गत्वात् पूर्वमुरदत्व- मिति । तन्न ; उरदत्वस्य अभ्याससम्बन्धनिमित्तकत्वेन तस्य द्वित्वप्रयोजकप्रत्ययनिमित्तत्वात्, अपरनिमित्तकत्वरूपान्तरङ्गत्वाभावात्, 'श्लौ' इत्यस्य प्रतिपदोक्तत्वाभावाच्च ।

with aa-matra and repha) Letter 3: वि (va with hrasva ikāra) Letter 4: ति (ta with hrasva ikāra) Wait, what about the top? Is there a repha on वि? No! It's just the 'i' matra of वि! Wait, what about between र्ता and वि? Is there a repha? No, it is literally: स्यार्ताविति! Wait, let's check the sandhi: अभ्यासस्य + आर्तौ + इति = अभ्यासस्यार्ताविति! (आर्तौ + इति -> आर्तौ इति -> आर्ताविति by 'वान्तो यि प्रत्यये' or 'लोपः शाकल्यस्य' or 'एचोऽयवायावः' -> आर्ताविति!) YES! "अभ्यासस्यार्ताविति अभ्यासस्यार्तेरिति वा गुरुत्वान्न युक्तम् ।" Because: 1. अभ्यासस्यार्तौ इति -> अभ्यासस्यार्ताविति (making it saptami of आर्ति). 2. अभ्यासस्यार्तेः इति -> अभ्यासस्यार्तेरिति (making it shashthi/panchami of आर्ति). BOTH are heavier (गुरुत्वात् - having more syllables/mātrās) than the actual sutra, hence neither is accepted! What a brilliant, completely clear resolution! So it is: `स्यार्ताविति

५५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१७ तेषामनभिधानात् । अन्त्ये द्वितीयद्विर्वचनस्यैव सत्त्वेन त्वदुक्तप्रयोगस्यैव दुर्लभत्वात् । एवञ्च सम्पूर्णसूत्रस्य ज्ञापकता युक्ता । यद्यपि भाष्ये ‘यदयमभ्यासस्यासवर्णे इत्यसवर्णग्रहणं करोती’ति ग्रन्थेन असवर्णग्रहणस्यैव ज्ञापकता लभ्यते; तथापि ‘न ह्यन्तरेण गुणवृद्धी असवर्ण- पराभ्यासो भवती’ति तदुपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव ज्ञापकता लभ्यते । अग्रेऽपि ‘नैतदस्ति ज्ञापकमर्थवदेतत्स्यादि’त्यनेन सूत्रसार्थक्यमेव दर्शितम् । असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत्सार्थक्यमेव दर्शितं स्यात् । न च ‘अकृतव्यूह’परिभाषया ‘इयेषे’त्यादौ सवर्णदीर्घप्राप्तिर्यदि दीर्घो न स्यात्तर्हि गुणः स्यादिति सम्भावनायाः सत्त्वेन परिभाषाप्रवृत्तेः सूपपादत्वा- दिति कथं

२१८ परिभाषेन्दुशेखरः [ २ प्रकरणे- न चान्तरङ्गत्वार्दीर्घेऽपि 'इयाये'त्यादौ पूर्वान्तवत्त्वेन अभ्यासत्वादि- वर्णत्वाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम् । न च 'अचिश्न्रु'- त्यनेन सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम् ; प्रत्यासत्त्याऽसवर्णपदेन अभ्यासोत्तरखण्डसम्बन्ध्यसवर्णच एव ग्रहणाच्छास्त्रबाधकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैव औचित्याच्चेत्याहुः । सा चेयं धर्मिग्राहकमानादाङ्गवर्णयोः समानकार्यित्व एव । वस्तुतस्तु—गुणस्यान्तरङ्गत्वभावेन यदि गुणो न स्यात्तदा दीर्घः स्यादिति सम्भावनाया 'अकृते'ति परिभाषाप्रवृत्तिप्रयोजकत्वाभावात् । अन्तरङ्गशास्त्रप्रवृत्त्य- भावसम्भावनाप्रयोज्याया बहिरङ्गेण अन्तरङ्गनिमित्तविनाशसम्भावनाया एव तत्प्रवृत्तिप्रयोजकत्वात् 'इयेषे'त्यत्रापि दोषदानमुचितम् । प्रत्यासत्त्येति । द्वित्वशास्त्रीयविधेयताश्रयावधिकपूर्वस्य अभ्यासत्वेन सवर्णाच्- पदेनापि तादृशविधेयताश्रयघटकस्याच एव ग्रहणौचित्यादिति भावः । नन्वेतादृशप्रत्या- सत्त्याश्रयणेन सूत्रवैयर्थ्योपपादनमयुक्तमित्यत आह—शास्त्रबाधेति । समानकार्यित्वेति । समानस्थानिकत्वे एवैषा प्रवर्तते, न तु समानोद्देश्यत्वे समाननिमित्तकत्वे वेत्यर्थः । समानोद्देश्यत्वे एतत्प्रवृत्तिस्वीकारे तु 'चच्छावि'त्यत्र दोषदानमुचितमिति । वस्तुतस्तु—'वार्णादाङ्गमि'त्यादिः 'अकृतव्यूहाः' इत्यस्या एव प्रपञ्चः । तथा च अनयैव तत्तत्परिभाषान्यथासिद्धौ अस्यामपूर्वनिवेशे मानाभावात् मूले 'न च अकृतव्यूहे'त्यादिशङ्का-समाधानयोरुभयोरपि निर्दलत्वं बोध्यम् । सूत्रवैयर्थ्येति । 'अभ्यासस्य' इति सूत्रेत्यर्थः । शास्त्रबाधेति । वृद्धिशास्त्रबाधेति तदर्थः । अयम्भावः—यद्यपि शास्त्रबाधकल्पना नैयायिकी ; तथापि सा अनैयायिकी, प्रत्यासक्तिन्यायत्यागकल्पनापूर्वकत्वात् । एवञ्च अनैयायिक- प्रत्यासक्तिन्यायत्यागपूर्वक-नैयायिकशास्त्रबाधकल्पनापेक्षया अनैयायिक-परिभाषाकल्पनायामेव लाघवमिति । एतेन—'अन्तरङ्गानपी'ति परिभाषाव्याख्यानावसरे नैयायिकबाधकल्पनापेक्षया परिभाषा- ज्ञापनमुक्तमिति तवममादिबाधनार्थं सूत्रसार्थक्यं प्रदर्शितम्, प्रकृते तु विपरीतमित्ययुक्तोऽयं ग्रन्थ इति वदन्तः परास्ताः । समानस्थानिकत्वे एवैषा प्रवर्तत इति । समानस्थानिताकत्वञ्च वार्णशास्त्रीय- स्थानितावच्छेदकधर्मप्रतियोगिताक-पर्याप्त्यनुयोगितावच्छेदकधर्मवाच्छिन्नानुयोगिताकपर्याप्तिप्रति- योगिभूतस्थानिताकत्वम् । निष्कृष्टार्थस्तु वार्णशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्याप्त्यनु- योगितावच्छेदकीभूतधर्मः आङ्गशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्याप्त्यनुयोगितावच्छे- दकधर्मश्च एको यत्र, तत्र समानस्थानिकत्वमिति (यथा-'इयाय' इत्यत्र वार्णशास्त्रम् 'अकः सवर्णे दीर्घः' इति, तदीया स्थानिता पूर्वपरोभयेति त्रितयनिष्ठा, स्थानितावच्छेदकीभूतो धर्मो यथा पूर्वत्वं

āstra sutra! In गा + आते, after आतो ङित्, इयङ् or इय्? आतो ङितः does इय् ādeśa. So it is एतच्छास्त्रीय-... (āṅga-śāstrīya-...). Wait, why एतच्छास्त्रीयात? Could it be एतच्छास्त्रीयतः without visarga? Or एतच्छास्त्रीयात्? Looking at the character: it is .

Let's carefully verify the text of lines 26-32: द्वित्वञ्च तथा परत्वमपि, तादृशपरत्वप्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकीभूतो धर्मः इकारवृत्ति- तद्व्यक्तित्वरूपः, तद्धर्मावच्छिन्नानुयोगिताकपर्याप्तिः अच्त्वप्रतियोगिताकपर्याप्तिः, तादृशपर्याप्ति- प्रतियोगीभूतो धर्मः अच्त्वम्, तद्धर्मावच्छिन्नस्थानिताकत्वम् 'अचोऽञ् णिति' इत्यत्र लक्षण- समन्वयः ), न तु वार्णशास्त्रीयस्थानितापर्याप्त्यधिकरणपर्याप्तस्थानिकताकत्वं तत्, ज्ञापकपरभाष्य- विरोधात् । 'अल्लोपोऽनः' इत्यस्य अ

२२० परिभाषेन्दुशेखरः [ २ प्रकरणे- न चैवम् ‘अपियाये’त्यादावियङ् दुर्लभः , तत्र कर्तव्ये वृद्ध्यादेः स्थानि- वत्त्वेनासवर्णे इति प्रतिषेधादिति वाच्यम्; सूत्रारम्भसामर्थ्यादेव स्थानिवत्त्वा- इत्यस्य अदन्तादित्यर्थेन तत्प्रयोज्योपस्थितीयमुख्यविशेष्यताया 'गा अ' इत्यदन्ते सत्त्वेन तादृशधर्मविच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूतोपस्थितीयात्वावच्छिन्नविषय- तया अदन्तनिष्ठविशेष्यता निरूपित-प्रकारतासमानाधिकरणत्वेन मुख्यत्वाभावात् । अदन्तत्वावच्छिन्नोपस्थितीयमुख्यविशेष्यतायाश्च तादृशधर्मविच्छिन्नानुयोगिताकपर्याप्ति- प्रतियोगित्वाभावेन उक्तसमाननिमित्तकत्वाभावेन 'आतो डित' इत्यस्य पूर्वमप्रवृत्त्या नोक्तदोषावकाशः । एवं 'गान' इत्यत्राप्यूह्यम् । वृद्ध्यादेः स्थानिवत्त्वेनेति । न च ‘इयाये’त्यादौ ऐकारे स्थानिवत्त्वे सवर्णत्व- मानीय अयादेशे पुनः स्थानिवत्त्वेन तदानयनं दुर्लभम्, ‘लक्ष्ये लक्षण’न्यायेनात्र लक्ष्ये द्विवारं स्थानिवद्भावाप्रसक्तेरिति वाच्यम्; ‘यूनिस्तारि’ति निर्देशेन स्थानिवद्भाव- विषये लक्ष्ये लक्षणन्यायाप्रवृत्तेर्ज्ञापनेनादोषात् । अन्यथा ‘यून’ इत्यत्र पूर्वरूपस्य ‘अचः परस्मिन्नि’त्यनेन सम्प्रसारणत्वेऽपि सवर्णदीर्घे कृते लक्ष्ये लक्षणन्यायेन पुनः स्थानिवत्त्वाप्राप्त्या दीर्घस्य सम्प्रसारणत्वाभावेन ‘न सम्प्रसारण’ इति निषेधा- प्राप्त्या उक्तनिर्देशासङ्गतिः स्पष्टैव । किञ्चात्र पूर्वं स्थानिवद्भावेन ऐकारो न जातः, इकारो न निवृत्त इति बुद्धिः क्रियेत तर्हि द्वितीयस्थानिवद्भावेन आय्शब्दो न जातः, ऐकारो न निवृत्त इति बुद्धिः कर्तुमशक्या, द्वितीयस्थानिवद्भावप्रवृत्तिकाले ऐकाराभावात् । किन्तु आयादेशो न जातः, ऐकारो न निवृत्त इत्येवं बुद्धिः पूर्वं कर- णीया, तत ऐकारो न जातः, इकारो न निवृत्त इत्येवं बुद्धिः । तथा च स्थानि- वत्सूत्रस्य प्राथमिकप्रवृत्तिकाले उद्देश्यत्वेनऽऽश्रीयमाणः आय्शब्दः स्वाघटकत्व- स्वघटकमात्रोद्देश्यकविकारेतरत्वोभयसम्बन्धेन तद्विशिष्ट ऐकारस्तद्घटितत्वेन तद्घटितत्व- रूपतल्लक्ष्यत्वस्यैकारेऽभावेन लक्ष्ये लक्षणन्यायाप्रवृत्तेः । पूर्वरीत्या आयादेशेऽसवर्णत्व- बुद्धावपि आकाररूपासवर्णमादाय इयादेशस्य दुर्वारत्वाच्च । नन्वेवमपि 'इयतीयेथे'त्यादौ सूत्रं चरितार्थम् । न च 'अभ्यासस्यास्योर्वि'ति न्यासेन इकारोकारभिन्नेऽचि परत इयङादिविधानादुक्तरूपसिद्धेः अनेकमात्रागुरुभूतोक्त- सूत्रारम्भसामर्थ्येन उक्तार्थज्ञापने बाधकाभाव इति वाच्यम् ; सिद्धान्तेऽप्येतादृश- न्यासस्य लाघवेनाऽऽदरणीयतया स्वांशे चारितार्थ्याभावेन उक्तार्थज्ञापनासम्भवा- दिति चेन्न । 'अभ्यासस्यानावि'ति न्यासेन इकारभिन्नेऽचि इयङ् भवतीत्यर्थकेन उक्त- तादृशधर्मविच्छिन्नेति । शद्ववृत्तितद्वृत्तित्वावच्छिन्नेति तदर्थः । एवमग्रेऽपि तादृश- धर्मपदेन उक्तधर्मो ग्राह्यः । प्रतियोगिकत्वाभावेनेति । अपितु 'गा अ' इत्येतद्वृत्ति- तद्वृत्तित्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिकत्वमिति भावः । सूत्रं चरितार्थमिति । स्थानिभूतादचः पूर्वत्वाभावेन तत्र स्थानिवद्भावाप्राप्तेरिति भावः । इयङ् भवतीत्यर्थकेनेति । नन्वेवं 'ऊखतुः' इत्यत्र 'उ+उख+अतुस्' इत्यवस्थायां

५५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २२१

प्रवृत्तेः । तच्च सामान्य पेक्षमभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्ध- कीभूतस्थानिवत्त्वं नेति । अत एव 'आरती'त्यादौ यणादेशस्य स्थानि- वत्त्वादभ्यासस्य 'ढ्रलोप' इति दीर्घो दुर्लभ इत्यपास्तम् । दीर्घविधौ तन्नि- षेधाच्च । 'अरिय्रियादि'त्यत्र तु स्थानिवत्त्वेन इयङ् भवत्येव, तस्य स्थानिवत्त्वस्य अभ्यासकार्यप्रतिबन्धकत्वाभावात् ।

स्थलेषु इयङ्सिद्ध्यर्थाश्रतन्यासस्य उक्तार्थाज्ञापकत्वमिति तदाशयकल्पनेनादोषात् । न च उधातोः थलि 'उवोथे'त्यत्र उवङर्थं तदावश्यकमिति वाच्यम् ; उधातोर्डित्त्वेन ततः थलोऽसम्भवात्, उशब्दादाचारक्विबन्ताल्लिटि तु नव्यमते प्रत्ययान्तत्वेनाऽऽमो दुर्वारत्वाच्च ।

अभ्यासकार्यं इति । तेन 'निन्य' इत्यादौ '

गिर्योः' इत्यत्र तन्नियमेन प्राप्तेऽपि स्थानिवत्त्वे पूर्वत्रासिद्धे न स्थानिवदिति निषेधस्य Wait, look at किर्योः, गिर्योः: In line 29: 'विव्यतुः, then newline or same line? Same line: किर्योः, गिर्योः' इत्यत्र तन्नियमेन प्राप्तेऽपि स्थानिवत्त्वे पूर्वत्रासिद्धे न स्थानिवदिति निषेधस्य Wait, look at the glyph before गिर्योः: There is a tiny mark or just comma? किर्योः, गिर्योः'

Line 30: दुर्विरतया पूर्वत्र दीर्घो दुर्वार एव स्यात् । मन्मते तु 'स्वरदीर्घे'त्यत्र दीर्घेतस्य पूर्वत्रासिद्धेत्यस्य Wait, look at दीर्घेतस्य: Is it दीर्घेतस्य or दीर्घेत्यस्य or दीर्घस्य? Let's zoom in on line 30: दुर्विरतया or दुर्वारतया? Look at दुर्विरतया: wait, दुर्वारतया! The वा has : दुर्वारतया पूर्वत्र दीर्घो दुर्वार एव स्यात् । Then: मन्मते तु 'स्वरदीर्घे'त्यत्र दीर्घेतस्य?

५५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २२३ इयं चाङ्गसम्बन्धिन्याङ्ग एवेति 'स्वरितो वे'ति सूत्रे भाष्ये । तत्र हि 'कुमार्यै' इत्यादौ यणुत्तरमाडुक्तः । इयं चानित्या, 'छ्वोरि'ति सतुग्- निर्देशात् । अन्यथा अन्तरङ्गत्वात् पूर्वं तुकः शादेशे तुकोऽप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्यन्यत्र विस्तरः ॥ ५५ ॥ ननु वार्णाङ्गयोः समानस्थानित्व एवैतत्प्रवृत्तिस्वीकारे 'वारि + इ' इत्यवस्थाया- मुक्तयुक्त्या वार्णपरिभाषाया अप्रवृत्त्याऽन्तरङ्गत्वात् सवर्णदीर्घापत्तिः । न च नुमो दीर्घापवादत्वम् ; सकललक्ष्यप्राप्तत्वेन यणपवादत्वस्यैव न्याय्यत्वात् । समाननिमि- त्तकत्व एवैतत्प्रवृत्तिस्वीकारे तु कारक इत्यत्र यण्-वृद्ध्योरुक्तसमाननिमित्तत्वाभावेन अन्तरङ्गत्वाद्यणापत्तिश्चेत्यत आह—अङ्गसम्बन्धीति । अङ्गावयवसम्बन्धीत्यर्थः, तेन न धर्मिग्राहकमानविरोधः । तथा च समाननिमित्तकेति समानस्थानिकेति चानुक्त्वाै- तदेव वक्तव्यमिति भावः । नन्वेवं 'छ्वोरि'ति सूत्रे सतुक्कनिर्देशो व्यर्थः, वार्णपरि- भाषया तुकं बाधित्वा पूर्वमेव शादेशप्रवृत्तेरित्यत आह—इयं चानित्येति । न चात्र वार्णाङ्गयोरेककाले प्रवृत्त्यभावेनैतदप्रवृत्त्या अन्तरङ्गत्वाच्छादेशात् पूर्वं तुकः प्रवृत्तेस्तद- भावार्थं सतुक्कनिर्देशस्याऽवश्यकत्वमिति वाच्यम् ; अङ्गकार्यप्रवृत्तिसम्भावनाया- मपि वार्णपरिभाषाप्रवृत्तेः स्वीकारेणादोषात् । अत एव 'अध्येयाताम्'ित्यत्र लाव- स्थायामट्यपि इयङ्-रूपाङ्गकार्यप्रवृत्तिसम्भावनायां पूर्वम् 'आटश्चे'ति वृद्ध्यभावः ; अन्यथा अन्तरङ्गत्वात् 'आटश्चे'ति वृद्ध्युत्तरमियङ्-प्राप्त्याऽयादेश उपसर्गस्य यणि 'अध्यायाताम्'ित्यस्यापत्तेः । केचित्तु—धर्मिग्राहकमानाद्वाणार्ङ्गयोः समानस्थानिकत्वे समाननिमित्तकत्वे वैत- त्प्रवृत्तिस्वीकारेण तुक्शत्वयोस्तथात्वाभावादेतदप्रवृत्त्या अन्तरङ्गत्वात्तुकि तन्निवृत्तये सतुक्कनिर्देशावश्यकत्वे तस्य तदनित्यत्वे ज्ञापकत्वासम्भवः, फलाभावश्च । न च 'मघोन' इत्यादौ सम्प्रसारणे मघ + उ + अन् + अस्' इति स्थिते पूर्वरूपं बाधित्वा आङ्गत्वात् 'अल्लोपोऽनः' इत्यल्लोपे विभक्तेरुदात्तनिवृत्तिस्वरापत्तिः, एतदनित्यत्वेन अन्तरङ्गत्वात्पूर्वरूपे त्विष्टस्वरः सिद्ध्यतीति वाच्यम् ; ज्ञापकसाजात्यादस्याः भाव- कार्यविषयकत्वकल्पनेनादोषात् । वार्णशास्त्रीयेण सप्तम्यन्तपञ्चम्यन्तान्यतरपदेन या व्यक्तिर्गृह्यते तदादिसमुदायो यत्राङ्गशास्त्रीयपदेन स्वप्रयोज्योपस्थितेयमुख्यविशेष्यतया केचित्तु—'स्वरदीर्घे'त्यत्र दीर्घपदेन उपधादीर्घ एव गृह्यते इति वदन्ति । ननु 'इयञ्चाङ्गसम्बन्धिन्याङ्ग एव' इति ग्रन्थासङ्गतिः, एवं 'इयञ्चानित्ये'ति वक्ष्यमाण- ग्रन्थासङ्गतिश्च । यणादेः समानस्थानिकत्वाभावेन परिभाषाप्राप्त्यभावादित्यतोऽवतरणमुखेन तदाशयं स्फोरयति—नन्विति । अङ्गावयवसम्बन्धीत्यर्थ इति । वस्तुतः—अङ्गसम्बन्धिनीति मूलं चिन्त्यमेव, 'ज्ञाने ज्ञानानि' इत्यादौ 'नपुंसकाच्च' इति श्यादेशात् पूर्वं वृद्धिसवर्णदीर्घयोरापत्तेः । न च श्यादेश- विधानवैयर्थ्यम् ; हलन्तेषु चारितार्थ्यादतः सिद्धान्तं प्रतिपादयन्नाह—केचित्त्विति ॥ ५५ ॥

त्वादि + इति = अन्तरङ्गत्वादीति? Wait, there are three syllables: 'दी', 'ती', 'ति' or 'दी', 'ति'? Look at line 20: अन्तरङ्गत्व + ा + दी + ती + ति ? Wait: अ - न्त - र - ङ्ग - त्वा - दी - ती - ति ! There are two 'ती'/'ति's! "दीतीति"! Let's look closely at: अन्तरङ्गत्वादीतीति - yes, there is 'दी' with long i, then 'ती' with long/short i, then 'ति'! Wait, or is it "अन्तरङ्गत्वादितीति"? Look at the first d: is it 'दि' or 'दी'? It looks like "अन्तरङ्गत्वादितीति" : द् + इ = दि, त् + ई = ती, त् + इ = ति -> "अन्तरङ्गत्वादितीति" (अन्तरङ्गत्वादिति + इति). Yes! "अन्तरङ्गत्वादिति" is the quote from the मूल ("क्वसोरन्तरङ्गत्वादिटि" -> "अन्तरङ्गत्वादिति"), and "+ इति" = "अन्तरङ्गत्वादितीति"! Wait, look at the line marker: Is the matra on द् short (ि) or long (ी)? The vertical line of the matra is to the LEFT of द! So it is

५६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २२५ वपि तन्निमित्तविनाशाभाव इति वाच्यम् ; तद्द्वारैव तन्निमित्तविनाशसत्त्वे- नाक्षतेः । न च सौत्थितौ बहिरङ्गतया वृद्धेरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम् ; समर्थग्रहणेनैतद्विषये तस्या अप्रवृत्तेरपि ज्ञापनात् । यत्तु समर्थग्रहणेनान्तरङ्गपरिभाषाया अनित्यत्वमेव ज्ञाप्यत इति । तन्न ; असिद्धपरिभाषया समकालप्राप्तबहिरङ्गस्य पूर्वं जातबहिरङ्गस्य चान्तरङ्गे कर्तव्येऽसिद्धत्वं बोध्यते, न तु जातेऽन्तरङ्गे तस्य तत्त्वं बोध्यते, मानाभावात् तन्निमित्तविनाशाभाव इति । सवर्णदीर्घेणैव तन्निमित्तविनाशस्य कृतत्वाद् वृद्ध्या सवर्णदीर्घनिमित्तविनाशाभाव इत्यर्थः । तद्द्वारैवेति । वृद्ध्याऽऽदेशविनाशेन आदेश- विनाशप्रयुक्त औपचारिकः सवर्णदीर्घनिमित्तविनाश इति भावः । तथा च बहिरङ्गेणा- न्तरङ्गनिमित्तविनाशे तत्स्थानिकादेशविनाशे पश्चात्सम्भाविते सति पूर्वमन्तरङ्गं न प्रवर्त्तत इति परिभाषार्थः । अत्र पश्चात्पदोपादानं तु यत्रान्तरङ्गप्रवृत्तियोग्यकालोत्तर- मेव अन्तरङ्गनिमित्तविनाशकबहिरङ्गप्राप्तिरिति पूर्वोक्तार्थं बोधयितुम् । न तन्निमित्त- विनाश इति । 'अकृतव्यूह'परिभाषारूपेऽन्तरङ्गे कर्तव्ये वृद्धेरसिद्धत्वान्न अन्तरङ्गनिमित्त- विनाशज्ञानम् 'अकृतव्यूहे'ति परिभाषाया इति नात्र प्रकृतपरिभाषाप्रवृत्त्यवकाशः । एतस्या अन्तरङ्गत्वन्तु सवर्णदीर्घरूपान्तरङ्गनिमित्तकत्वाद् बोध्यमिति भावः । समर्थ- ग्रहणेनेति । एतत्परिभाषाविषये निरुक्तरीत्या अन्तरङ्गपरिभाषाप्रवृत्तिस्वीकारे तु समर्थग्रहणवैयर्थ्यापत्त्या अकृतव्यूह्-परिभाषारूपान्तरङ्गे कर्तव्येऽन्तरङ्गपरिभाषाया अप्रवृत्तिकल्पनादिति भावः । यत्त्विति । अन्तरङ्गपरिभाषाया अनित्यत्वेनान्तरङ्गत्वात् इडाद्यप्राप्तिरिति अकृतव्यूहपरिभाषारूपेऽन्तरङ्ग इति । अयम्भावः—'अकृतव्यूह'-परिभाषा- ज्ञापकोत्तरं 'सौत्थितिः' इत्यत्र सवर्णदीर्घप्रतिबन्धाय प्रकृतपरिभाषाप्रवृत्तिसमये बहिरङ्गेण दीर्घ- निमित्तविनाशसम्भावना अस्ति न वेति पर्यालोचनायां तन्नाशकवृद्धेरुपस्थित्या समकालस्यासिद्धत्व- बोधनेन निमित्तविनाशासम्भावनया दीर्घप्रवृत्तौ व्यर्थीभूतसमर्थग्रहणेन तदप्रवृत्तिरपि ज्ञाप्यत इति । एतेन एतदग्रे एव “असिद्ध”-परिभाषया समकालप्राप्तबहिरङ्गस्य जातबहिरङ्गस्य अन्तरङ्गे कर्तव्ये असिद्धत्वं बोध्यते, न तु अन्तरङ्गे जाते बहिरङ्गस्यासिद्धत्वं बोध्यते, माना- भावात् फलाभावाच्च” इति ग्रन्थः एतद्ग्रन्थविरुद्ध इति वदन्तः परास्ताः । 'अकृतव्यूह'-परि- भाषाज्ञापनं विना तत्समकालप्राप्त्या वृद्धेरसिद्धत्वबोधने नैष्फल्यात् । वस्तुतस्तु—'अकृतव्यूह'परिभाषया अन्तरङ्गशास्त्रस्य निमित्तकोटौ भाविनिमित्तविनाशा- भावोऽपि निमित्तमिति बोध्यत इति तत्प्रवृत्तिवेलायां तत्पर्यालोचने तन्नाशकवृद्धेरुपस्थिततयाऽस्ति दीर्घप्राप्तिसमकालिकत्वं वृद्धिशास्त्रस्येति अन्तरङ्गनिमित्तनिमित्तकत्वेन परिभाषाया एवान्तरङ्गत्व- कल्पनाप्रयासो व्यर्थ एवेति तत्त्वविदो वदन्ति । २९

३. परिभाषा ७६-१३३: संनिपात-लक्षणो विधिरनिमित्तं एवं परिभाषेन्दुशेखर उपसंहार

२२६परिभाषेन्दुशेखरः[ २ प्रकरणे-

फलाभावाच्च । एवञ्च सूत्थित्यादावेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात् । 'अन्तरङ्गानपि विधीनि'त्यादेरप्यस्यामेवान्तर्भावः । एतत्प्रवृत्तौ च निमित्तविनाशसम्भावनाऽपि निमित्तम् । अत एव 'गोमद्दण्डी'त्यादौ हल्ङ्यादिलोपो न ; अन्यथा हल्ङ्यादिलोपकाले सामासिकलुकोऽप्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवाऽऽपत्तेः । अस्ति चात्रापि यदि लोपो न स्यात्तर्हि लुक् स्यादिति सम्भावना । 'अल्लोपोऽनः' इति सूत्रस्थ- तपरकरणन्तु परिभाषानित्यत्वज्ञापनेन चरितार्थम् । तद्धि 'आन' इत्यादौ लोपवारणाय ; अन्यथा दीर्घाभावे लोपसम्भावनया एतत्परिभाषा- बलाद्दीर्घप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः । 'समर्थानामि'ति सूत्रे कैयटस्तु — "समर्थवचनेनेयं परिभाषा ज्ञाप्यते अकृतव्यूहाः पाणिनीया इति, तेन 'पपुष' इत्यादौ अन्तरङ्गत्वात्पूर्वं कृतोऽपि इडागमो निवर्तत' इति वदन् 'न कृतो व्यूहो विशिष्टस्तर्को निमित्तकारण- विनाशेऽपि कार्यस्थितिरूपो यैरित्यर्थमभिप्रेति । निमित्तापाये नैमित्तिकस्या-


'अकृतव्यूह'परिभाषावैयर्थ्यमेवेति भावः । परिभाषासाध्यत्वाभावेनेति । पूर्वोक्तज्ञापक- सिद्धान्तरङ्गपरिभाषाया अप्राप्त्या तदनित्यत्वज्ञापनासम्भवादित्यर्थः । केचित्तु — लौकिकान्तरङ्गपरिभाषाया अत्र समर्थग्रहणेनाप्रवृत्तिकल्पनायां पूर्वं- मिडादेरप्राप्त्या 'सेदुष' इत्यादौ दोषाभावेन परिभाषैषा व्यर्थेति वदन्ति । निमित्तविनाशसम्भावनाऽपीति । इयञ्च सम्भावना अन्तरङ्गशास्त्रप्रवृत्त्यभावसम्भा- वनाप्रयोज्या बोध्या, न त्वन्तरङ्गशास्त्रप्रवृत्तिसम्भावनाप्रयोज्या ; अन्यथा भाविनिमित्त- विनाश इत्यध्याहारेणैव एतदर्थलाभे एतत्कथनवैयर्थ्यापत्तेः । अत एवाग्रे "अस्ति चात्रापि यदि लोपो न स्यात्" इत्यादिना तथैवोपपादितम् । तथा च स्वप्रवृत्त्यभावसम्भावना- प्रयोज्या यत्र बहिरङ्गेण स्वनिमित्तविनाशसम्भावना तत्र स्वमन्तरङ्गं पूर्वं न प्रवर्तत इति प्राचीनाभिप्रेतो निरुक्तपरिभाषाया मुख्यार्थः । एतावत्पर्यन्तं परिभाषाविषयपरि- शीलनन्तु प्राचीनो

प्यपाय इति यावत् । सूत्थितादिञि वृद्धौ दीर्धनिवृत्तौ सावुत्थितिर्मा भूदिति समर्थानामिति । लोकन्यायसिद्धश्चायमर्थः । तथा हि लोके निमित्तं द्विविधं दृष्टम्— कार्यस्थितौ नियामकं तदनियामकञ्च । आद्यं यथा—न्यायनयेऽपेक्षा- बुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात् ; वेदान्तिनये प्रारब्धस्य विक्षेपस्थिति- नियामकत्वं च प्रसिद्धमेव । द्वितीयं यथा—दण्डादि, तन्नाशेऽपि घटनाशा- दर्शनात् । शास्त्रे लक्ष्यानुरोधाद् व्यवस्था । सावुत्थितिर्मा भूदिति । सवर्णदीर्घेण स्थानिनिवृत्तिः क्रियते । तथा च 'सोत्थितिः' इत्यत्रोकारद्वयवृत्तिनिमित्तस्य सवर्णदीर्घरूपाकारस्य आदिवृद्ध्याऽपाये जाते स्थानि- रूपोकारद्वयनिवृत्तिरूपस्य नैमित्तिकस्यापायोऽर्थादुकारद्वयसत्ता सम्पन्ना । तत्राऽऽद्योकारस्य निवृत्तिपूर्वकमौकारे विहिते 'सौ+उत्थित+इ' इति दशायामावादेशे सावुत्थितिर्मा भूदिति समर्थग्रहणमिति भावः । लोकन्यायसिद्धश्चेति । वस्तुतस्तु—अपेक्षाबुद्धि-प्रारब्धयोर्द्वित्वविक्षेपस्थितिनिया- मकत्वस्य तन्नाशयोस्तन्नाशनियामकत्वस्य च प्रमाणसिद्धत्वेऽपि निमित्तनाशमात्रस्य कार्यनाशनियामकत्वे प्रमाणाभावात् दृष्टान्तासिद्धिरत्र बोध्या । दीक्षितमते तु 'प्रक्षाल- नाद्धि पङ्कस्ये ति न्यायो लाघवमूलको लुकानुपपत्तिरेवेति दृष्टान्तश्च मूलमित्यवेहि । विक्षेपेति । विक्षेपस्य संसारस्य स्थितेर्नियामकेत्यर्थः । सावुत्थितिर्मा भूदितीति । नन् 'दीर्धनिवृत्तिरि'त्यस्य 'उकारद्वयस्य स्थितिरि'त्यर्थेन औकारस्योकारद्वयस्य च स्थितौ सावुत्थितिरिति स्यादिति कथं 'सावुत्थितिरिति' मा भूदि'ति कैयटोक्ति सङ्गच्छत इत्याशङ्कायां समाधत्ते—सवर्णदीर्घेणेत्यादि । अयम्भावः—स्थानिनिवृत्ति- रादेशसिद्धिश्चेति व्यापारद्वयं शास्त्रस्य । तत्राऽऽद्येन व्यापारेण दीर्धनिवृत्तौ उकारद्वयस्य सत्ता सम्पन्ना। तत आद्योकारनिवृत्तिपूर्वकमौकारे जाते 'सावुत्थितिरि'ति भवति । आदेशस्थितौ कर्तव्यायां द्विवारं स्थानिनिवृत्तिर्जायते, आदेरचो निवृत्तिं विनाऽऽदेशस्थितेरसम्भवादिति तात्पर्यम् । मूले—अपेक्षाबुद्धेरिति । 'अयमेकोऽयमेकः, इमो द्वौ' इत्येवंरूपाऽपेक्षाबुद्धिः । तत्रा- ऽऽद्यक्षणे तदुत्पत्तिः, द्वितीयक्षणे द्वित्वं प्रति कारणता, तृतीयक्षणे द्वित्वोत्पत्तिः, चतुर्थक्षणेऽपेक्षा- बुद्धिनाशो द्वित्वस्थितिश्च, ततो द्वित्वस्यापि नाशः । उत्पत्तिक्षणे एव द्वित्वकारणता तु न सम्भवति, तस्यैव कार्यतादशायामित्तत्कारणताया असम्भवात् । एवञ्च अगत्या क्षणत्रयावस्था- यित्वं तस्या अभ्युपेयम् । मूले—वेदान्तिनय इति । अयम्भावः—श्रेष्ठिनो यथा सञ्चितद्रव्यपूरितमञ्जूषातो व्ययं कुर्वन्तस्तत्क्षये एव सञ्चीयमानद्रव्यपूरितमञ्जूषातो व्ययं कुर्वन्ति नान्यथा, एवं प्रारब्धविषयेऽपि पूर्वजन्मार्जितपुण्यपापादितोऽस्य संसारस्य स्थितिर्भवति, एतजन्मार्जिताद्दृष्टं द्वितीयजन्मनिबन्ध- नाय भवति । एवञ्च पूर्वोपार्जितप्रारब्धस्य क्षये एतज्जन्मोपार्जितस्य च तस्य संसारनियामकत्व व्यक्तमेवेति बोध्यम् । गृहीतव्याप्तिको न्यायः, अगृहीतव्याप्तिकश्च दृष्टान्त इति भेदेनोपादानम् ।

२२८ परिभाषेन्दुशेखरः [ २ प्रकरणे-

भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्न्यायो नापि सम्प्रति- पन्नो दृष्टान्तः । समर्थनामित्यस्यापि लोकसिद्धार्थज्ञापनेन चारितार्थ्य- सम्भवे लोकसिद्धापूर्वतादृशार्थज्ञापकत्वे मानाभाव इति तदाशय इति बोध्यम् । परे तु 'सेदुष' इत्यादौ पदावधिकेऽन्वाख्याने 'सेद्स् + अस्' इति स्थिते इट्-सम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वात्पूर्वं सम्प्रसारणे वलादित्वा- भावादिटः प्राप्तिरेव नेति तत्सिद्धिरिति स्पष्टं 'समर्थानाम्' इति सूत्रे कैयटे, 'असिद्धवत्' सूत्रे कैयटे च स्पष्टमेतत् । यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम् ; तथापि पूर्वप्रवृत्तौ सावकाशत्वेऽपि नियामकं भवत्येवेति तदाशयः । निरूपितं चैतद् बहुशः शब्देन्दुशेखरादौ । प्रतिपदविधित्वादिति । न चेतोऽपि वसुशब्दमुच्चार्य विहितत्वेन प्रतिपदविधित्वं सममिति वाच्यम् ; 'प्राप्तौ' इत्यस्याग्रे 'पूर्वं किं कर्तव्यमिति विचारः ; परं तु' इति ग्रन्थ- शेषं प्रपूर्य 'सद् + वस् + अस्' इति दशायां कृतद्विर्वचनैकाचोऽभावेन 'वस्वेकाजा'िति शास्त्रस्याप्राप्त्या द्वित्वादितः पूर्वमेव प्रतिपदोक्तत्वेन सम्प्रसारणे इति ग्रन्थयोजनेन अदोषात् । केचित्तु — 'वस्वेकाज'िति सूत्रे वलीत्यनुवृत्त्या तत्सामर्थ्येन सम्प्रसारणप्रवृत्ति- सम्भावनायामिटोऽप्राप्तिः । अत एव वलादित्वाभावादिति मूलोक्तिः सङ्गच्छत इति वदन्ति । अन्ये तु—प्रतिपदविधित्वादित्यस्येट्सम्प्रसारणयोः प्राप्तावित्यत्रान्वयः । पूर्वं सम्प्रसारण इत्यावर्तते । पूर्वं सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति ग्रन्थेनेटो नित्यत्वमुपवर्णितम् । इतीत्यस्य नित्यत्वादित्यर्थः । तथा च पदावधिकेऽन्वाख्याने 'सेद्

  • वस् + अस्' इति स्थिते प्रतिपदविधित्वात् इट्सम्प्रसारणयोः प्राप्तौ पूर्वं सम्प्रसारणे वलादित्वाभावादिटः प्राप्तिरेव नेति इटोऽनित्यत्वेन नित्यत्वात्पूर्वं सम्प्रसारणे तत्सिद्धिरिति यथाश्रुतमेव ग्रन्थं योजयन्ति । निरूपितं चेति । चान्निरूपयिष्यते चापवादप्रकरणे मूलेपीत्यर्थः । मूले—पदावधिकेऽन्वाख्यान इति । पदस्य विभज्यान्वाख्याने इत्यर्थः, पदसंस्कार इति यावत् । पदसंज्ञाप्रयोजकप्रत्ययोत्पत्त्यनन्तरं संस्कार इति फलितार्थः । तत्सामर्थ्येनेति । वसुप्रत्ययस्य वलादित्वाव्यभिचारेण तत्सामर्थ्यात् वलादेरेव, न तु तदभाववत्त्वेन सम्भावितस्यापि ग्रहणमिति भावः । वस्तुतस्तु — बलीत्यस्यानुवृत्तिरेव माऽस्त्विति यत्किञ्चिदेतत् । योजयन्तीति । यद्यपि प्रतिपदविधित्वमित्युत्तरग्रन्थविरोधादयमपि पक्षोऽयुक्तः ।