परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 248, कुल 373 में से
संदर्भ में पढ़ें२१८ परिभाषेन्दुशेखरः [ २ प्रकरणे- न चान्तरङ्गत्वार्दीर्घेऽपि 'इयाये'त्यादौ पूर्वान्तवत्त्वेन अभ्यासत्वादि- वर्णत्वाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम् । न च 'अचिश्न्रु'- त्यनेन सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम् ; प्रत्यासत्त्याऽसवर्णपदेन अभ्यासोत्तरखण्डसम्बन्ध्यसवर्णच एव ग्रहणाच्छास्त्रबाधकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैव औचित्याच्चेत्याहुः । सा चेयं धर्मिग्राहकमानादाङ्गवर्णयोः समानकार्यित्व एव । वस्तुतस्तु—गुणस्यान्तरङ्गत्वभावेन यदि गुणो न स्यात्तदा दीर्घः स्यादिति सम्भावनाया 'अकृते'ति परिभाषाप्रवृत्तिप्रयोजकत्वाभावात् । अन्तरङ्गशास्त्रप्रवृत्त्य- भावसम्भावनाप्रयोज्याया बहिरङ्गेण अन्तरङ्गनिमित्तविनाशसम्भावनाया एव तत्प्रवृत्तिप्रयोजकत्वात् 'इयेषे'त्यत्रापि दोषदानमुचितम् । प्रत्यासत्त्येति । द्वित्वशास्त्रीयविधेयताश्रयावधिकपूर्वस्य अभ्यासत्वेन सवर्णाच्- पदेनापि तादृशविधेयताश्रयघटकस्याच एव ग्रहणौचित्यादिति भावः । नन्वेतादृशप्रत्या- सत्त्याश्रयणेन सूत्रवैयर्थ्योपपादनमयुक्तमित्यत आह—शास्त्रबाधेति । समानकार्यित्वेति । समानस्थानिकत्वे एवैषा प्रवर्तते, न तु समानोद्देश्यत्वे समाननिमित्तकत्वे वेत्यर्थः । समानोद्देश्यत्वे एतत्प्रवृत्तिस्वीकारे तु 'चच्छावि'त्यत्र दोषदानमुचितमिति । वस्तुतस्तु—'वार्णादाङ्गमि'त्यादिः 'अकृतव्यूहाः' इत्यस्या एव प्रपञ्चः । तथा च अनयैव तत्तत्परिभाषान्यथासिद्धौ अस्यामपूर्वनिवेशे मानाभावात् मूले 'न च अकृतव्यूहे'त्यादिशङ्का-समाधानयोरुभयोरपि निर्दलत्वं बोध्यम् । सूत्रवैयर्थ्येति । 'अभ्यासस्य' इति सूत्रेत्यर्थः । शास्त्रबाधेति । वृद्धिशास्त्रबाधेति तदर्थः । अयम्भावः—यद्यपि शास्त्रबाधकल्पना नैयायिकी ; तथापि सा अनैयायिकी, प्रत्यासक्तिन्यायत्यागकल्पनापूर्वकत्वात् । एवञ्च अनैयायिक- प्रत्यासक्तिन्यायत्यागपूर्वक-नैयायिकशास्त्रबाधकल्पनापेक्षया अनैयायिक-परिभाषाकल्पनायामेव लाघवमिति । एतेन—'अन्तरङ्गानपी'ति परिभाषाव्याख्यानावसरे नैयायिकबाधकल्पनापेक्षया परिभाषा- ज्ञापनमुक्तमिति तवममादिबाधनार्थं सूत्रसार्थक्यं प्रदर्शितम्, प्रकृते तु विपरीतमित्ययुक्तोऽयं ग्रन्थ इति वदन्तः परास्ताः । समानस्थानिकत्वे एवैषा प्रवर्तत इति । समानस्थानिताकत्वञ्च वार्णशास्त्रीय- स्थानितावच्छेदकधर्मप्रतियोगिताक-पर्याप्त्यनुयोगितावच्छेदकधर्मवाच्छिन्नानुयोगिताकपर्याप्तिप्रति- योगिभूतस्थानिताकत्वम् । निष्कृष्टार्थस्तु वार्णशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्याप्त्यनु- योगितावच्छेदकीभूतधर्मः आङ्गशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्याप्त्यनुयोगितावच्छे- दकधर्मश्च एको यत्र, तत्र समानस्थानिकत्वमिति (यथा-'इयाय' इत्यत्र वार्णशास्त्रम् 'अकः सवर्णे दीर्घः' इति, तदीया स्थानिता पूर्वपरोभयेति त्रितयनिष्ठा, स्थानितावच्छेदकीभूतो धर्मो यथा पूर्वत्वं