परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 247, कुल 373 में से
संदर्भ में पढ़ें५५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१७ तेषामनभिधानात् । अन्त्ये द्वितीयद्विर्वचनस्यैव सत्त्वेन त्वदुक्तप्रयोगस्यैव दुर्लभत्वात् । एवञ्च सम्पूर्णसूत्रस्य ज्ञापकता युक्ता । यद्यपि भाष्ये ‘यदयमभ्यासस्यासवर्णे इत्यसवर्णग्रहणं करोती’ति ग्रन्थेन असवर्णग्रहणस्यैव ज्ञापकता लभ्यते; तथापि ‘न ह्यन्तरेण गुणवृद्धी असवर्ण- पराभ्यासो भवती’ति तदुपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव ज्ञापकता लभ्यते । अग्रेऽपि ‘नैतदस्ति ज्ञापकमर्थवदेतत्स्यादि’त्यनेन सूत्रसार्थक्यमेव दर्शितम् । असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत्सार्थक्यमेव दर्शितं स्यात् । न च ‘अकृतव्यूह’परिभाषया ‘इयेषे’त्यादौ सवर्णदीर्घप्राप्तिर्यदि दीर्घो न स्यात्तर्हि गुणः स्यादिति सम्भावनायाः सत्त्वेन परिभाषाप्रवृत्तेः सूपपादत्वा- दिति कथं