भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 256, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 256
२२६परिभाषेन्दुशेखरः[ २ प्रकरणे-

फलाभावाच्च । एवञ्च सूत्थित्यादावेकादेशस्य परिभाषासाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात् । 'अन्तरङ्गानपि विधीनि'त्यादेरप्यस्यामेवान्तर्भावः । एतत्प्रवृत्तौ च निमित्तविनाशसम्भावनाऽपि निमित्तम् । अत एव 'गोमद्दण्डी'त्यादौ हल्ङ्यादिलोपो न ; अन्यथा हल्ङ्यादिलोपकाले सामासिकलुकोऽप्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवाऽऽपत्तेः । अस्ति चात्रापि यदि लोपो न स्यात्तर्हि लुक् स्यादिति सम्भावना । 'अल्लोपोऽनः' इति सूत्रस्थ- तपरकरणन्तु परिभाषानित्यत्वज्ञापनेन चरितार्थम् । तद्धि 'आन' इत्यादौ लोपवारणाय ; अन्यथा दीर्घाभावे लोपसम्भावनया एतत्परिभाषा- बलाद्दीर्घप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः । 'समर्थानामि'ति सूत्रे कैयटस्तु — "समर्थवचनेनेयं परिभाषा ज्ञाप्यते अकृतव्यूहाः पाणिनीया इति, तेन 'पपुष' इत्यादौ अन्तरङ्गत्वात्पूर्वं कृतोऽपि इडागमो निवर्तत' इति वदन् 'न कृतो व्यूहो विशिष्टस्तर्को निमित्तकारण- विनाशेऽपि कार्यस्थितिरूपो यैरित्यर्थमभिप्रेति । निमित्तापाये नैमित्तिकस्या-


'अकृतव्यूह'परिभाषावैयर्थ्यमेवेति भावः । परिभाषासाध्यत्वाभावेनेति । पूर्वोक्तज्ञापक- सिद्धान्तरङ्गपरिभाषाया अप्राप्त्या तदनित्यत्वज्ञापनासम्भवादित्यर्थः । केचित्तु — लौकिकान्तरङ्गपरिभाषाया अत्र समर्थग्रहणेनाप्रवृत्तिकल्पनायां पूर्वं- मिडादेरप्राप्त्या 'सेदुष' इत्यादौ दोषाभावेन परिभाषैषा व्यर्थेति वदन्ति । निमित्तविनाशसम्भावनाऽपीति । इयञ्च सम्भावना अन्तरङ्गशास्त्रप्रवृत्त्यभावसम्भा- वनाप्रयोज्या बोध्या, न त्वन्तरङ्गशास्त्रप्रवृत्तिसम्भावनाप्रयोज्या ; अन्यथा भाविनिमित्त- विनाश इत्यध्याहारेणैव एतदर्थलाभे एतत्कथनवैयर्थ्यापत्तेः । अत एवाग्रे "अस्ति चात्रापि यदि लोपो न स्यात्" इत्यादिना तथैवोपपादितम् । तथा च स्वप्रवृत्त्यभावसम्भावना- प्रयोज्या यत्र बहिरङ्गेण स्वनिमित्तविनाशसम्भावना तत्र स्वमन्तरङ्गं पूर्वं न प्रवर्तत इति प्राचीनाभिप्रेतो निरुक्तपरिभाषाया मुख्यार्थः । एतावत्पर्यन्तं परिभाषाविषयपरि- शीलनन्तु प्राचीनो

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 256, कुल 373 में से · BharatKosha