भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 257, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 257

प्यपाय इति यावत् । सूत्थितादिञि वृद्धौ दीर्धनिवृत्तौ सावुत्थितिर्मा भूदिति समर्थानामिति । लोकन्यायसिद्धश्चायमर्थः । तथा हि लोके निमित्तं द्विविधं दृष्टम्— कार्यस्थितौ नियामकं तदनियामकञ्च । आद्यं यथा—न्यायनयेऽपेक्षा- बुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात् ; वेदान्तिनये प्रारब्धस्य विक्षेपस्थिति- नियामकत्वं च प्रसिद्धमेव । द्वितीयं यथा—दण्डादि, तन्नाशेऽपि घटनाशा- दर्शनात् । शास्त्रे लक्ष्यानुरोधाद् व्यवस्था । सावुत्थितिर्मा भूदिति । सवर्णदीर्घेण स्थानिनिवृत्तिः क्रियते । तथा च 'सोत्थितिः' इत्यत्रोकारद्वयवृत्तिनिमित्तस्य सवर्णदीर्घरूपाकारस्य आदिवृद्ध्याऽपाये जाते स्थानि- रूपोकारद्वयनिवृत्तिरूपस्य नैमित्तिकस्यापायोऽर्थादुकारद्वयसत्ता सम्पन्ना । तत्राऽऽद्योकारस्य निवृत्तिपूर्वकमौकारे विहिते 'सौ+उत्थित+इ' इति दशायामावादेशे सावुत्थितिर्मा भूदिति समर्थग्रहणमिति भावः । लोकन्यायसिद्धश्चेति । वस्तुतस्तु—अपेक्षाबुद्धि-प्रारब्धयोर्द्वित्वविक्षेपस्थितिनिया- मकत्वस्य तन्नाशयोस्तन्नाशनियामकत्वस्य च प्रमाणसिद्धत्वेऽपि निमित्तनाशमात्रस्य कार्यनाशनियामकत्वे प्रमाणाभावात् दृष्टान्तासिद्धिरत्र बोध्या । दीक्षितमते तु 'प्रक्षाल- नाद्धि पङ्कस्ये ति न्यायो लाघवमूलको लुकानुपपत्तिरेवेति दृष्टान्तश्च मूलमित्यवेहि । विक्षेपेति । विक्षेपस्य संसारस्य स्थितेर्नियामकेत्यर्थः । सावुत्थितिर्मा भूदितीति । नन् 'दीर्धनिवृत्तिरि'त्यस्य 'उकारद्वयस्य स्थितिरि'त्यर्थेन औकारस्योकारद्वयस्य च स्थितौ सावुत्थितिरिति स्यादिति कथं 'सावुत्थितिरिति' मा भूदि'ति कैयटोक्ति सङ्गच्छत इत्याशङ्कायां समाधत्ते—सवर्णदीर्घेणेत्यादि । अयम्भावः—स्थानिनिवृत्ति- रादेशसिद्धिश्चेति व्यापारद्वयं शास्त्रस्य । तत्राऽऽद्येन व्यापारेण दीर्धनिवृत्तौ उकारद्वयस्य सत्ता सम्पन्ना। तत आद्योकारनिवृत्तिपूर्वकमौकारे जाते 'सावुत्थितिरि'ति भवति । आदेशस्थितौ कर्तव्यायां द्विवारं स्थानिनिवृत्तिर्जायते, आदेरचो निवृत्तिं विनाऽऽदेशस्थितेरसम्भवादिति तात्पर्यम् । मूले—अपेक्षाबुद्धेरिति । 'अयमेकोऽयमेकः, इमो द्वौ' इत्येवंरूपाऽपेक्षाबुद्धिः । तत्रा- ऽऽद्यक्षणे तदुत्पत्तिः, द्वितीयक्षणे द्वित्वं प्रति कारणता, तृतीयक्षणे द्वित्वोत्पत्तिः, चतुर्थक्षणेऽपेक्षा- बुद्धिनाशो द्वित्वस्थितिश्च, ततो द्वित्वस्यापि नाशः । उत्पत्तिक्षणे एव द्वित्वकारणता तु न सम्भवति, तस्यैव कार्यतादशायामित्तत्कारणताया असम्भवात् । एवञ्च अगत्या क्षणत्रयावस्था- यित्वं तस्या अभ्युपेयम् । मूले—वेदान्तिनय इति । अयम्भावः—श्रेष्ठिनो यथा सञ्चितद्रव्यपूरितमञ्जूषातो व्ययं कुर्वन्तस्तत्क्षये एव सञ्चीयमानद्रव्यपूरितमञ्जूषातो व्ययं कुर्वन्ति नान्यथा, एवं प्रारब्धविषयेऽपि पूर्वजन्मार्जितपुण्यपापादितोऽस्य संसारस्य स्थितिर्भवति, एतजन्मार्जिताद्दृष्टं द्वितीयजन्मनिबन्ध- नाय भवति । एवञ्च पूर्वोपार्जितप्रारब्धस्य क्षये एतज्जन्मोपार्जितस्य च तस्य संसारनियामकत्व व्यक्तमेवेति बोध्यम् । गृहीतव्याप्तिको न्यायः, अगृहीतव्याप्तिकश्च दृष्टान्त इति भेदेनोपादानम् ।